तावन्न जानाति विधिः खगेन्द्र ज्ञाने विधातुश्च स्वयोग्यभूते । अतो विरिञ्चस्य न चिन्तनीयो ह्यज्ञानलेशः क्वापि देशे च काले ॥ ३,१२.
नाडीं समाविश्य तदा विरिञ्चो न वेद नारायणमेकवच्च । तदाऽशृणोत्तं कमलासनं प्रभुस्तपस्तप द्व्यक्षरं सादरेण ॥ ३,१२.
अभिप्रायं तस्य सम्यग्विदित्त्वा तपः कुरु त्वं हरितुष्ट्यर्थमेव । तपोऽकरोद्धरिपादैक निष्ठो हरेः प्रीत्यर्थं दिव्यसहस्रवर्षम् ॥ ३,१२.
ततो हरिः प्रादुरासीत्खगेन्द्र वरं दातुं भक्तवरस्य दिव्यम् । सदा विष्णुं देवदेवो ददर्श चतुर्भुजं तं जलजायताक्षम् ॥ ३,१२.
श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं संपश्यन्तं सुप्रसन्नार्द्रदृष्ट्या । दृष्ट्वा हरिं ब्रह्म नारायणं च पुरः स्थितं भक्तवश्यं दयालुम् ॥ ३,१२.
समर्चयामास महाविभूत्या भक्त्या हरेः पादतीर्थं दधार । अस्तौन्महाभागवतप्रधानो हरिं गुरुं भक्तिविवर्धितात्मा ॥ ३,१२.
ब्रह्मोवाच । रमेश लोकेश जगन्निवास तव स्वरूपं न विजानाति देवी । तव प्रसादात्सुविजानाति देवी गुणान्वेदोक्तान्सर्वदा वीन्द्र सर्वान् ॥ ३,१२.
तथापि सा न विजानाति देवी साकल्येनाशेषितः सद्गुणांश्च । यद्यप्यनुक्तं पञ्चभिर्नास्ति वेदैस्तथापि देवेऽत्र विशेष आस्ते ॥ ३,१२.
तत्त्वेच्छवः प्रविजानन्ति नित्यं वेदे सूक्तान्क्वाप्यनुक्तांश्च सर्वान् । आदौ जानन्त्यत्र वेदा मुरारे ऋगादयः सुष्ठु चत्वार एव ॥ ३,१२.
वेदा ह्येते वेदयन्तीति देव तथा पुराणं भारतं पञ्चरात्रम् । क्रमादितो विचिन्त्य सा विष्णुगुणान्स्वयोग्यान्सदा विजानाति रमापि देवी ॥ ३,१२.
विशेषतो ह्युक्तगुणा नृगादिषु स्वयोग्यभूतान्संविजानाति देवी । सामान्यतः प्रविजानाति देवी हरेर्गुणान्न विशेषाच्च नित्यम् ॥ ३,१२.
अहं विजानामि रमाप्रसादात्तव प्रसादाच्च गुणान्सदैव । स्वयोग्यभूताञ्छ्रुतिषूक्तान् गुणांश्च कांश्चिद्विजानाति हरेर्न कश्चित् ॥ ३,१२.
तव प्रसादाच्च मम प्रसादात्कालान्तरे तांश्च जानाति शेषः । दुष्कर्मलेशान्न तिरोहितान् गुणान्यानेव पूर्वं विदितान् स्वयोग्यान् ॥ ३,१२.
तानेव ज्ञात्वा पुनरेव शेषस्तिरो हितांल्लब्धगुणस्ततः स्मृतः । सदा स्वयोग्यांश्च हरेर्गुणांश्च उमापतिश्चापि तव प्रसादात् ॥ ३,१२.
यदा विजानाति हरे मुरारे अप्राप्तलब्धेति तदोच्यते हरः । ममापि लोकं च यदा मुरारे तदा विजानाति तव स्वरूपम् ॥ ३,१२.
गोविन्द नित्याव्यय चित्सुपूर्ण तव प्रसादान्नास्ति शतेषु तन्मम। येये हि देवाश्च शरीरधारिणस्ते ज्ञानहीना विषयेषु निष्ठाः ॥ ३,१२.
येये देवा विषयेषु निष्ठास्तेते देवा बहिरर्थभावाः । येये देवा बहिरर्थभावा मोक्षादन्ये प्रलपन्तः सदैव ॥ ३,१२.
तव स्वरूपे च जगत्स्वरूपे तवासमानं नास्ति विष्णो सदैव । यतस्तव प्राकृतो नास्ति देहो यतो ज्ञानं नास्ति नास्त्येव नित्यम् ॥ ३,१२.
पूर्णानन्दज्ञानदेहोऽपि नित्यं सदा शरीरी भाष्यते भक्तिमद्भिः । यतस्तव प्राकृतो नास्ति देहो ह्यतोपि नित्यमशरीरीति च स्मृतः ॥ ३,१२.
नतोऽहं सर्वदास्मिञ्शरीरेऽहंममेत्यभिमानेन शून्यः । अत्तोऽप्यहं त्वशरीरी सदैव तथैव नित्यं बहिरर्थैश्च शून्यः ॥ ३,१२.
स्वभोगभार्यासत्यलोकादिभोगः स्वयोग्यभोगो वस्त्रमाल्यादिभोगः । एते हि सर्वे बहिरर्थसंज्ञकाः नैसर्गकामाः सर्वदा मे हि विष्णो ॥ ३,१२.
तथाप्यहं कामहीनो हि नित्यं रुद्रादयः कामवन्तो यतोतः । शरीरिणस्ते बहिरर्थभावा अज्ञानवन्तोऽपि च संस्मृताः खग ॥ ३,१२.
स्वदारभोगे केवलां प्रीतिमेवं हरेरेवं सर्वदाहं करोति । स्तम्बास्त्रादीन्धारियिष्ये सदैव विष्णोः प्रीत्यर्थं नैव गात्रार्थमेव ॥ ३,१२.
नित्यानन्दादन्यकामो न मेस्ति अतः सदा बहिरर्थैश्च शून्यः । ममापि भार्या बहिरर्थशून्या अमूढभावा मूढवतीव दृश्यते ॥ ३,१२.
अमूढभूता ज्ञानिनां सर्वदैव तथाज्ञानां ज्ञानहीनेति भाति । यावज्ज्ञानं चास्ति मे वास्तुदेव तावज्ज्ञानं वासुदेवस्य चास्ति ॥ ३,१२.
यावज्ज्ञानं वासुदेवस्य चास्ति तावज्ज्ञानं ज्ञानवतामृजूनाम् । क्रमेणैवाज्ञानिनां वानृजूनामस्पष्टरूपो ज्ञानगतो विशेषः ॥ ३,१२.
सौरिप्रकाशे च यथैव दर्शनं तथा मम ज्ञानगतो विशेषः । दीपप्रकाशे च यथैव दर्शनं तथा ज्ञानं वासुदेवस्य चास्ति ॥ ३,१२.
अस्पष्टपरूपा न्यूनता ह्यस्ति वायौ तथा ज्ञानं नैव संचिन्तनीयम् । एतादृशी ज्ञानशक्तिर्मुरारेर्वाय्वादीनां मोक्षपर्यन्तमस्ति ॥ ३,१२.
ज्ञानं त्वृजूनां मोक्षकालेपि पञ्चवाय्वादीनां प्रलयेनाद्रादीर्न । वायोर्मम प्रलये सृष्टिकाले तथा गायत्र्या नास्तिनास्त्येव मोहः ॥ ३,१२.
गायत्रीवद्भारत्या देवदेव ज्ञातव्यमेवं हरितत्त्ववेदिभिः । ममाज्ञानं दृश्यते यत्र कुत्र दैत्यादीनां मोहनार्थ सदैव ॥ ३,१२.