ब्रह्मवाय्वोश्च पासग्नि वास्तवं स्यात्खगेश्वर । कथं तर्हि तयोर्वर्ते ह्यविलत्यत्वमुच्यते ॥ ३,११.
तस्मात्तद्वास्तवं नास्ति ब्रह्मवाय्वोः खगेश्वर । स्वप्नावस्थायाः सदृशी ह्यवस्था सुप्तिसंज्ञिका ॥ ३,११.
ब्रह्मण्यमुख्यया वृत्त्या ह्यस्तीत्येवं निबोध मे । अतो न वास्तवमिदमङ्गीकार्यं खगेश्वर ॥ ३,११.
वास्तवं ये विजानन्ति तेषां नित्यं धनं तपः । श्रीगरुड उवाच । सुप्तिस्त्वज्ञानकार्यत्वात्सुप्तिर्नास्तीत्युदीरिता ॥ ३,११.
यदा हि कारणं चास्ति तदा कार्यमिति प्रभो । इत्यभिप्रायगर्भेण त्वं समाधास्य ते यदि ॥ ३,११.
तर्हि तस्य महाभाग कथं ब्रूहि भयादिकम् । भयादिकं ह्यस्तु नाम का वास्माकं क्षतिर्भवेत् ॥ ३,११.
एवमुक्तस्तु गोविन्दोब्रवीत्तत्रापि कारणम् । भयं त्वज्ञानकार्यं स्यात्कार्याकारणमत्र हि ॥ ३,११.
प्रीयते मत्वा ब्रह्म तस्मात्सुप्तिश्च तत्र हि । अज्ञादिकं यदि ब्रह्म तस्य न स्यात्कथञ्चन ॥ ३,११.
कथं सुखी प्रदृश्येत न कथञ्चित्करिष्यति । कथं वा मुक्तिपर्यन्तं ज्ञानव्यक्तिर्वदस्व मे ॥ ३,११.
यद्यज्ञानं तस्य सत्यं न स्यात्तर्हि महाप्रभो । अत्यादरात्कथं ब्रह्मञ्छ्रवणं कुरुते वद ॥ ३,११.
इति तस्य वचः श्रुत्वा कृष्णो वचनमब्रवीत् । भयं च वास्तवं तस्य न जानीहि महामते ॥ ३,११.
दृश्यते मद्भयं तस्य हरिप्रीत्यर्थमेव च । भयाकामवतीवानमुवास्तवमीरितम् ॥ ३,११.
प्राप्तप्राब्धलेशस्त तस्य नास्ति खगेश्वर । दुः खाज्ञानादिकं किञ्चित्कथं तस्मिन् भविष्यति ॥ ३,११.
विष्णोराज्ञानुसारेण भयायानुकरोत्यसौ । तेन प्रीणाति च हरिस्तस्य नास्त्यत्र संशयः ॥ ३,११.
शृणोति सततं ब्रह्मा न चिन्त्यात्तावताज्ञता । कदाचिद्दृश्यते ब्रह्मा दुः खी न च खगेश्वर ॥ ३,११.
यद्ब्रह्म च न जानीयाद्धरिप्रीत्यर्थमेव च । दुः खिवद्दृश्यते ब्रह्मा आज्ञानां मोहनाय च ॥ ३,११.
योग्यतामनतिक्रम्य यावज्ज्ञानं च तिष्ठति । ब्रह्मणस्तावदेवास्ति नात्र कार्या विचारणा ॥ ३,११.
ज्ञानस्य व्यक्तता नाम विद्यमानस्य चादरात् । ज्ञानस्यासादनं चैव ज्ञानव्यक्तिरिति स्मृता ॥ ३,११.
अतो ज्ञानादिकं नास्ति ब्रह्मणः परमेष्ठिनः । पद्माद्धिरण्म याज्जातो ब्रह्मा तु चतुराननः ॥ ३,११.
सर्वदाऽलोचनायुक्तस्तेन स्वालोचनं कृतम् । अज्ञानां मोहनार्थाय हरिप्रीत्यर्थमेव च ॥ ३,११.
संकल्पोपि तथैवास्ति न ह्यज्ञानात्कृतस्तथा । को वा मां सृष्टवानत्र इति ह्यालोच्य स प्रभुः ॥ ३,११.
तं विचारयितुं ब्रह्मा पद्मनाडीं विवेश ह ॥ ३,११.
श्रीगरुडमहापुराणम् १२ श्रीकृष्ण उवाच । नाडीं समाविश्य महानुभावः श्रीविष्णुभक्तो त्वथ पुष्करस्थः । विचारयामास गुरुं स्वमूलं नारायणं निर्गुणमद्वितीयम् ॥ ३,१२.
एतावता हरिभक्तस्य तस्याप्यच्छिन्नभक्तस्य चतुर्मुखस्य । विचारकाले च विचिन्तनीयो ह्यज्ञानलेशस्तु खगेश्वरेश्वर ॥ ३,१२.
यथास्ति विष्णोर्मनः सङ्कल्प एव तथैव सोपि प्रकरोति नित्यम् । आलोचने तस्य सदास्ति भूमन्स्वयोग्यतामनतिक्रम्य चैव ॥ ३,१२.
हरेः स्वरूपे च तथा प्रपञ्चः स्वस्मिन्स्वरूपे च खगास्ति ज्ञानम् । यथापि नित्यं परिचारवारि च अज्ञातवद्दृश्यते विष्णुना च ॥ ३,१२.
हरेः प्रीत्यर्थं कुरुतेऽसौ कदाच्चित्तत्रापि कश्चिद्विशेषोऽस्ति वीन्द्र । शृणुष्व सम्यङ्निगृहीतचित्तो यथा प्रोवाच स विजानाति देवः ॥ ३,१२.
सदा त्वदोषं प्रविशेषैश्च मुक्तवेदास्तथा वा पविजानन्ति नित्यम् । तस्य स्वरूपं न तथा हरिं च स्वयोग्यतामनतिक्रम्य वेधाः ॥ ३,१२.
हरेः स्वरूपं न विजानाति सर्वं स्वयोग्यरूपं सर्वदा वेत्ति विष्णोः । तत्राज्ञानं नास्ति किञ्चिद्द्विजेन्द्र यावत्स्वरूपं च तथैव लक्ष्म्याः ॥ ३,१२.
वेधा न जानाति कुतस्तदन्ये तयोः स्वरूपं न विजानाति सर्वम् । तथापि वेदानेकदेशेन वेद जानाति लक्ष्मीर्हरिरूपं च यावत् ॥ ३,१२.