यत्त्वेतदन्यथा ब्रूयुः सर्वहन्तार एव ते । जगत्प्रवाहः सत्योऽयं हरिसेवेतिसाथा ॥ ३,१०.
सत्यं सत्यं पुनः सत्यमुद्धत्य भुजमुत्यते । वेदाच्छास्त्रं परं नास्ति न देवः केशवात्परः ॥ ३,१०.
सर्वोत्कृष्टं केशवं च विहायान्यमुपासते । तेषामन्धं तमो ज्ञेयं पितॄणां गरुणामपि ॥ ३,१०.
इदानीं शृणु पक्षीन्द्र वैकृतं सर्गमुत्तमम् । सम्यग्जानाति यो लोके स याति परमं पदम् ॥ ३,१०.
श्रीगरुडमहापुराणम् ११ श्रीकृष्ण उवाच । पुरुषाख्यो हरिः साक्षाद्भगवान्पुरुषोत्तमः । शिश्येत्वण्डोदक विष्णुर्नृणां साहस्रवत्सरम् । लक्ष्मीश्चोदकरूपेण शय्यारूपेण भोण्डजा ॥ ३,११.
विद्या तरङ्गरूपेण वायुरूपेण भोण्डज ॥ ३,११.
तमोरूपेण सैवासी न्नान्यदासीत्कथञ्चन । असीद्गर्भोदके चैव नान्यदासीत्कथञ्चन ॥ ३,११.
लक्ष्मीस्तुष्टाव च हरिं गर्भोदे पक्षिसत्तम । लक्ष्मीधराभ्यां रूपाभ्यां प्रकृतिर्हरिणा तथा ॥ ३,११.
शेत श्रुतिस्वरूपेण स्तौति गर्भोदके हरिम् । नारायण नमस्तेऽस्तु शृणु विज्ञापनं मम ॥ ३,११.
अजां जहि महाभाग योग्यानां मुक्तिमावह । अजा तु प्रकृतिः प्रोक्ता चापरा प्रकृतिः परा ॥ ३,११.
शततोवरा तु ब्रह्माणी ब्रह्मपत्नी वरानना । उमा शच्यवरा तस्या अवराः संप्रकीर्तिताः ॥ ३,११.
एतासां हननं नैव प्रार्थयामः सदा हरे । अस्ति प्रतिनृषु ब्रह्म प्रकृती द्वे व्यवस्थिते ॥ ३,११.
एका तु नित्यसंसारा त्वजशब्दाभिधायिका । द्वितीया तु तमोऽपोह्या अजशब्दाभिधायिका ॥ ३,११.
अत एव त्वजे ज्येष्ठे इति लोके प्रकीर्तिते । सुखदुः खप्रदा चैव अपरा दुः खदैव तु ॥ ३,११.
मोक्षाधिकारिणामेव ज्ञानैश्वर्यादयो गणाः । तेषामाच्छादिका होका तमोङ्गा सा प्रकीर्तिता ॥ ३,११.
जीवं प्रति महाविष्णुं पाह्याच्छादयति प्रभो । सा परा प्रकृतिर्ज्ञेया परमाच्छादिका स्मृता ॥ ३,११.
एवं सा परमा दुष्टा होका तमोङ्गा तु प्रकीर्तिता । जीववर्गेष्वेव खग ब्रह्मादेर्नास्ति सा क्वचित् ॥ ३,११.
पिशाचवत्समुद्दिष्टा जीवस्येत्यधिकारिणः । प्रेरिका तु तयोर्देव्यो स्त्वहमाद्या सुखात्मिका ॥ ३,११.
तत्र विष्णो महाभाग सगुणाच्छादको हितः । परमाच्छादिकां दुष्टां व्यामुच्यैव महाप्रभो ॥ ३,११.
मोक्षं देहि महादेव त्वद्भक्तानां महाप्रभो । परमाच्छादिका ह्यस्मान्नित्य संसारिणो यतः ॥ ३,११.
अत एव च नित्यत्वात्तस्मात्तदपसारणम् । कुरु देव महाभाग इति विज्ञायतां मम ॥ ३,११.
एवं स्तुतो हरिः कृष्णो सुप्रबुद्धोऽपि सर्बदा । उद्वुद्धवन्महा विष्णुरभूदज्ञपरीक्षया ॥ ३,११.
तस्य नाभेरभूत्पद्मं सौवर्णं भुवनाश्रयम् । तत्प्राकृतं च विज्ञेयं भूदेवी त्वभिमानिनी ॥ ३,११.
अनन्तसूर्यवच्चैव प्रकाशकरमीरितम् । चिदानन्दमयो विष्णुस्तस्माद्भिन्नो न संशयः ॥ ३,११.
विष्णोः स्वरूपभूतं च ये विजानन्ति ते नराः । ते यान्ति ह्यधरं लोकं तथा तत्संगिसंगिनः ॥ ३,११.
किरीटादिकवच्चैव ज्ञातव्यं च खगेश्वर । किरीटाद्या अपि हरेर्द्विधा संति न संशयः ॥ ३,११.
स्वरूपा ह्यस्वरूपाश्च स्वस्वरूपनि दर्शने । गृहीता इति विज्ञेया न स्वरूपाः खगेश्वर ॥ ३,११.
भ्माण्डं ह्यसृजत्तत्र सर्वलोकविधायकम् । प्रलये मुक्तिहीनश्च सुप्त इत्युच्यते बुधः ॥ ३,११.
तस्य समिवस्त्रिवं च न ज्ञातव्या खगेश्वर । प्रलयोपि महाभाग ब्रह्मवाय्वोर्न चास्ति हि ॥ ३,११.
वृत्तिरूपं परं ज्ञानं पाद्यार्घ्यं नात्र संशयः । इन्द्रियाणामुपरतिः सुप्तिरित्युच्यते बुधैः ॥ ३,११.