ब्रह्मणा सह मोक्षं च याति सम्यङ्न चान्यथा । कल्पविंशतिमारभ्य ब्रह्मणः परमेष्ठिनः ॥ ३,१०.
इन्द्रस्याप्यापरोक्ष्यं स्यात्तथा प्रारब्धसंक्षयः । ब्रह्मणैव सहायाति हरिं नारायणं परम् ॥ ३,१०.
गरुड उवाच । पञ्चाशीतिब्रह्मकल्पं समारभ्य महाप्रभो । रुद्रस्याप्यापरोक्ष्यं स्यात्तथा प्रारब्धसंक्षयः ॥ ३,१०.
इति श्रुतं मया ब्रह्मन्ब्रह्मणोक्तं हरेः प्रियात् । इत्थं त्वयोक्तं श्रीकृष्ण संशयोबाधते मम ॥ ३,१०.
अतो मे संशयं छिन्धि यथा न स्यात्तथा पुनः । इति तद्वचनं श्रुत्वा कृष्णो वचनमब्रवीत् ॥ ३,१०.
श्रीकृष्ण उवाच । ब्रह्मोक्तस्य मयोक्तस्य विवादो नास्ति सर्वथा । संदेहस्त्वज्ञदृष्टीनां ज्ञानिनां नास्ति सर्वथा ॥ ३,१०.
अशीतिह्यष्टका प्रोक्ता अष्टपञ्च खगेश्वर । चत्वारिंशद्ब्रह्मकल्प एवं प्राह चतुर्मुखः ॥ ३,१०.
तत्त्वानां बहुगोप्यत्वात्तथोक्तं ब्रह्मणा पुरा । अभिप्रायस्त्वेवमेव ज्ञातव्यो नात्र संशयः ॥ ३,१०.
पञ्चा शीतिब्रह्मकल्पं ये विजानन्ति भो द्विज । तेन्धं तमः प्रविशन्ति सत्यंसत्यं मयोदितम् ॥ ३,१०.
विरजानन्तरं विप्रं तथा व्याकृतमंबरम् । अनन्तपारं तदपि लक्ष्मीस्तस्याभिमानिनी ॥ ३,१०.
संख्यानुगणनं नाम यस्य नास्ति महाप्रभो । न दानं जातिप्रोक्तं सर्वदा नास्ति संशयः ॥ ३,१०.
अण्डाभिमानी ब्रह्मा तु विराडाख्यो ह्यभूत्तदा । एवं मतं स निर्माय भगवान्हरिख्ययः ॥ ३,१०.
विशेषात्तत्र गरुड देवैस्तत्त्वाभिमानिभिः । अधश्चोर्ध्वं तदाक्रम्य हरिस्तिष्ठति सर्वदा ॥ ३,१०.
एवं प्राकृतसर्गोक्तिर्वैकृतं शृणु पक्षिराट् ॥ ३,१०.
गरुड उवाच । सृष्टिरुक्ता त्वया पूर्वं श्रुता सम्यङ्मया हरे ॥ ३,१०.
किं नाम प्राकृतं ज्ञेयं तथा किं वैकृतं प्रभो । एतद्विस्तीर्य मे ब्रूहि श्रोतुं कौतूहलं हि मे ॥ ३,१०.
श्रीकृष्ण उवाच । अव्यक्ताद्याः पृथिव्यन्ता अण्डाच्च बहिरुद्भवाः । ते सर्वे प्राकृताः प्रोक्तास्तेषां ज्ञानाद्विमच्यते ॥ ३,१०.
ब्रह्माडं विकृतं ज्ञेयं ब्रह्माण्डान्तः खगेश्वर । या सृष्टिरुच्यते सद्भिः सैवोक्ता विकृतेति च ॥ ३,१०.
सृष्टिश्च प्रलयश्चैव संसारो भक्तिरेव च । देवता ऋषिमुख्याश्च लोका भूरादयस्तथा ॥ ३,१०.
अनाद्यनन्तकालीनाः सर्वदैकप्रकारकाः । जगत्प्रवाहः सत्योऽयं नैव मिथ्या कथञ्चन ॥ ३,१०.
यत्त्वेतदन्यथा ब्रूयुः सर्वहन्तार एव ते । जगत्प्रवाहः सत्योऽयं हरिसेवेतिसाथा ॥ ३,१०.
सत्यं सत्यं पुनः सत्यमुद्धत्य भुजमुत्यते । वेदाच्छास्त्रं परं नास्ति न देवः केशवात्परः ॥ ३,१०.
सर्वोत्कृष्टं केशवं च विहायान्यमुपासते । तेषामन्धं तमो ज्ञेयं पितॄणां गरुणामपि ॥ ३,१०.
इदानीं शृणु पक्षीन्द्र वैकृतं सर्गमुत्तमम् । सम्यग्जानाति यो लोके स याति परमं पदम् ॥ ३,१०.
श्रीगरुडमहापुराणम् ११ श्रीकृष्ण उवाच । पुरुषाख्यो हरिः साक्षाद्भगवान्पुरुषोत्तमः । शिश्येत्वण्डोदक विष्णुर्नृणां साहस्रवत्सरम् । लक्ष्मीश्चोदकरूपेण शय्यारूपेण भोण्डजा ॥ ३,११.
विद्या तरङ्गरूपेण वायुरूपेण भोण्डज ॥ ३,११.
तमोरूपेण सैवासी न्नान्यदासीत्कथञ्चन । असीद्गर्भोदके चैव नान्यदासीत्कथञ्चन ॥ ३,११.
लक्ष्मीस्तुष्टाव च हरिं गर्भोदे पक्षिसत्तम । लक्ष्मीधराभ्यां रूपाभ्यां प्रकृतिर्हरिणा तथा ॥ ३,११.
शेत श्रुतिस्वरूपेण स्तौति गर्भोदके हरिम् । नारायण नमस्तेऽस्तु शृणु विज्ञापनं मम ॥ ३,११.
अजां जहि महाभाग योग्यानां मुक्तिमावह । अजा तु प्रकृतिः प्रोक्ता चापरा प्रकृतिः परा ॥ ३,११.