महत्तत्त्वाद्दशगुणैरधिकं परिकीर्तितम् । महत्तत्त्वानन्तरं च तमो ह्यावरणं स्मृतम् ॥ ३,१०.
महत्तत्त्वात्पञ्चगुणैरधिकं परिकीर्तितम् । तस्माच्च द्विगुणं ज्ञेयंरजो ह्यावरणं स्मृतम् ॥ ३,१०.
ततश्च द्विगुणं ज्ञेयं सत्त्वावरणमुत्तमम् । त्रयश्चैवं मिलित्वा तु एकावरणमीरितम् ॥ ३,१०.
अव्याकृताख्यमाकाशं तदनन्तरमीरितम् । मर्यादारहितश्चैवं तत्रास्ते हरिरव्ययः ॥ ३,१०.
अष्टमावरणं व्योम्नोरं तरा विरजा नदी । पञ्चयोजनविस्तीर्णा समन्तात्परीधीकृता ॥ ३,१०.
अस्ति पुण्यतमा ज्ञेया लोकसंसारनाशिनी । एवं चतुर्मुखेनैव तदा हृष्यं ति चाण्डज ॥ ३,१०.
ते सर्वे विरजानद्यां सम्यक्स्नात्वा विसर्ज्य च । लिङ्गदेहं ततः पश्चान्मोक्षं विन्दन्ति ते हरेः ॥ ३,१०.
अपरोक्षदृशामेवं ब्रह्मणा सह गामिनाम् । विरजातरणं विद्धि नान्येषां विनतासुत ॥ ३,१०.
अपरोक्षदृशां ब्रह्मन्व्यासादीनां खगेश्वर । विरजातरणं नास्ति भोक्तव्यत्वाच्च कर्मणः ॥ ३,१०.
विरिञ्चेनैव साकं तु कल्पेस्मिन्नधिकारिणाम् । तेषां तु नियमेनैव सर्वप्रारब्धसंक्षयः ॥ ३,१०.
भवत्येवं न संदेहो नान्येषां सर्वसंक्षयः । अतस्तु विरजातरणं तेषामेव भवेत्पटो ॥ ३,१०.
विरजातरणं नास्ति तेषां त (तयोस्त)त्संगिनां तथा । सर्वारब्धक्षयो नास्ति यतस्तेषां खगाधिप ॥ ३,१०.
अतश्च सर्वथा नास्ति विरजातरणं प्रभो । प्रलये विरजानद्या लयो नास्ति खगेश्वर ॥ ३,१०.
लक्ष्म्यात्मिका तु सा ज्ञेया लिङ्गदेहविदारिणी । ब्रह्मत्वयोग्या ऋजवो नाम देवाः प्रकीर्तिताः ॥ ३,१०.
तेपि प्रत्येकशः संति ह्यनन्ताश्च पृथग्गणाः । पृथक्पृथक्च तैः साकं मोक्षयोग्याः खगेश्वर ॥ ३,१०.
जीवाः संति ह्यनेके च प्रतिकल्पे सृजन्ति ते । द्वात्रिंशल्लक्षणैः सम्यग्युक्ता वायुत्वयोग्यकाः ॥ ३,१०.
अष्टका ऋषयः प्रोक्तास्तदूनाश्चक्रवर्तिनः । शतजन्म समारभ्य ब्रह्मणः परमेष्ठिनः ॥ ३,१०.
अपरोक्षमिति प्रोक्तं तथा ह्यारब्धसंक्षयः । एकेन शतकल्पेन वायुत्वं याति भो द्विज ॥ ३,१०.
शतजन्मनि ब्रह्मत्वं याति पश्चाद्धरेः पदम् । चत्वारिंशद्ब्रह्मकल्पं समारभ्य खगेश्वर ॥ ३,१०.
रुद्रस्याप्यापरोक्ष्यं स्यात्तथा प्रारब्धसंक्षयः । एकचत्वारिंशकल्पे शेषत्वं याति सुव्रत ॥ ३,१०.
ब्रह्मणा सह मोक्षं च याति सम्यङ्न चान्यथा । कल्पविंशतिमारभ्य ब्रह्मणः परमेष्ठिनः ॥ ३,१०.
इन्द्रस्याप्यापरोक्ष्यं स्यात्तथा प्रारब्धसंक्षयः । ब्रह्मणैव सहायाति हरिं नारायणं परम् ॥ ३,१०.
गरुड उवाच । पञ्चाशीतिब्रह्मकल्पं समारभ्य महाप्रभो । रुद्रस्याप्यापरोक्ष्यं स्यात्तथा प्रारब्धसंक्षयः ॥ ३,१०.
इति श्रुतं मया ब्रह्मन्ब्रह्मणोक्तं हरेः प्रियात् । इत्थं त्वयोक्तं श्रीकृष्ण संशयोबाधते मम ॥ ३,१०.
अतो मे संशयं छिन्धि यथा न स्यात्तथा पुनः । इति तद्वचनं श्रुत्वा कृष्णो वचनमब्रवीत् ॥ ३,१०.
श्रीकृष्ण उवाच । ब्रह्मोक्तस्य मयोक्तस्य विवादो नास्ति सर्वथा । संदेहस्त्वज्ञदृष्टीनां ज्ञानिनां नास्ति सर्वथा ॥ ३,१०.
अशीतिह्यष्टका प्रोक्ता अष्टपञ्च खगेश्वर । चत्वारिंशद्ब्रह्मकल्प एवं प्राह चतुर्मुखः ॥ ३,१०.
तत्त्वानां बहुगोप्यत्वात्तथोक्तं ब्रह्मणा पुरा । अभिप्रायस्त्वेवमेव ज्ञातव्यो नात्र संशयः ॥ ३,१०.
पञ्चा शीतिब्रह्मकल्पं ये विजानन्ति भो द्विज । तेन्धं तमः प्रविशन्ति सत्यंसत्यं मयोदितम् ॥ ३,१०.
विरजानन्तरं विप्रं तथा व्याकृतमंबरम् । अनन्तपारं तदपि लक्ष्मीस्तस्याभिमानिनी ॥ ३,१०.