ललाटस्थं विश्वरूपं ध्यात्वात्मानं प्रपूजयेत् 42.
संहितामन्त्रितान्येव धूपितानि समर्पयेत् 42.
आत्मतत्त्वात्मकं पश्चाद्देवकाख्यं ततोऽर्चयेत् ॐ हीं(हीः) विद्यातत्त्वाय नमः ।। 42.
ॐ हां (हौः) आत्मतत्त्वाय नमः कालात्मना त्वया देव यदॄष्टं मामके विधौ ।। 42.
कृतं क्लिष्टं समुत्सृष्टं हुतं गुप्तं च यत्कृतम् 42.
पूरयपूरय मखव्रतं तन्नियमेश्वराय सर्वतत्त्वात्मकाय सर्वकारणपालिताय ॐ हां हीं हूं हैं हौं शिवाय नमः ।। 42.
पूर्वैरनेन यो दद्यात्पवित्राणां चतुष्टयम् 42.
बलिं दत्त्वा द्विजान् भोज्य चण्डं प्राच्यै विसर्जयेत् ।। 42.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवपवित्रारोपणं नाम द्विचत्वारिंशोऽध्यायः
पवित्रारोपणं वक्ष्ये भुक्तिमुक्तिप्रदं हरेः 43.
विष्णुश्च तेषां देवानां ध्वजं ग्रैवेयकं ददौ 43.
विष्णूक्ते ह्यब्रवीन्नागो वासुकेरनुजस्तदा 43.
ग्रैवेयं हरिदत्तं तु मन्नाम्ना ख्यातिमेष्यति 43.
प्रावृट्काले तु ये मर्त्त्या नार्चिष्यन्ति पवित्रकैः 43.
तस्मात्सर्वेषु देवेषु पवित्रारोपणं क्रमात् 43.
द्वादश्यां विष्णवे कार्य्यं शुक्ले कृष्णेऽथ वा हर 43.
विष्णवे वृद्धिकार्य्ये च गुरोरागमने तथा 43.
कौशेयं पट्टसूत्रं वा कार्पासं क्षौममेव वा 43.
वैश्यानां चीरणं क्षौमं शूद्राणां शणवल्कजम् 43.
ब्राह्मण्या कर्त्तितं सूत्रं त्रिगुणं त्रिगुणीकृतम् 43.
विघ्नेशो विष्णुरित्येते स्थितास्तन्तुषु देवताः 43.
सौवर्णे राजते ताम्रे वैणवे मृन्मये न्यसेत् 43.
तदर्द्धा तु कनिष्ठा स्यात्सूत्रमष्टोत्तरं शतम् 43.
उत्तमोंऽगुष्ठमानेन मध्यमो मध्यमेन तु 43.
विमाने स्थण्डिले चैव एतत्सामान्यलक्षणम् 43.
हृन्नाभिरू(रु) रुमाने च जानुभ्यामवलम्बिनी 43.
षट्त्रिं(ड्विं) शच्च चतुर्विशद्द्वादश ग्रन्थयोऽथवा 43.
चर्चितं कुंकुमेनैव हरिद्राचन्दनेन वा 43.
अश्वत्थपत्रपुटके अष्टदिक्षु निवेशितम् 43.
रोचनाकुंकुमेनैव प्रद्युम्नेन तु दक्षिणे 43.