शतर्चिः कश्यपो ज्ञेयो मध्यमश्च पराशरः । पावमान्यः प्रगाथश्च क्षुद्रसूक्तश्च देवलः ॥ ३,९.
गृत्समदो ह्यासुरिश्च भरद्वाजोथ मुद्गलः । उद्दालको ह्यृष्यशृङ्गः शङ्खः सत्यव्रतस्तथा ॥ ३,९.
सुयज्ञश्चैव बाभ्रव्यो माण्डूकश्चैव बाष्कलः । धर्माचार्यस्तथागस्त्यो दाल्भ्यो दार्ढ्यच्युतस्तथा ॥ ३,९.
कवषो हरितः कण्वो विरूपो मुसलस्तथा । विष्णुवृद्धश्च आत्रेयः श्रीवत्सो वत्सलेत्यपि ॥ ३,९.
भार्गवश्चाप्नवानश्च माण्डूकेयस्तथैव । मण्डूकश्चैव जाबचलिः वीतिहव्यस्तथैव च ॥ ३,९.
गृत्समदः शौनकश्च इत्याद्या ऋषयः स्मृताः । एतेषां श्रवणादेव हरिः प्रीणाति सर्वदा ॥ ३,९.
ब्रुवे द्व्यष्टसहस्रं च शृणु तार्क्ष्य मम स्त्रियः । अग्निपुत्रास्तु यद्द्व्यष्टसहस्रञ्च मम स्त्रियः । अजानजसमा ह्येता (ते) नात्र कार्या विचारणा ॥ ३,९.
त्वष्टुः पुत्री कशेरूश्च तासां मध्ये गुणाधिका । तदनन्तरजान्वक्ष्ये शृणु सम्यक्खगेश्वर ॥ ३,९.
आजानेभ्यस्तु पितरः सप्तभ्योन्ये शतावराः । तथाधिका हि पितर इति वेदविदां मतम् ॥ ३,९.
तदनन्तराजान्वक्ष्ये शृणु त्वं द्विजसत्तम । अष्टाभ्यो देवगन्धर्वा अष्टोत्तरशतं विना ॥ ३,९.
तेभ्यः शतगुणानन्दा देवप्रेष्यास्तु मुख्यतः । स्वमुखेनेव देवैश्च आज्ञाप्याः सर्वदा गणाः ॥ ३,९.
आख्याता देवगन्धर्वास्तेभ्यस्ते च शतावराः । तेभ्यस्तु क्षितिपा ज्ञेया अवराश्च शतैर्गुणैः ॥ ३,९.
तेभ्यः शतगुणाज्ञेया मानुषेषूत्तमा गणाः । एवं प्रासंगिकानुक्त्वा प्रकृतं ह्यनुसराम्यहम् । एवं ब्रह्मादयो देवा लक्ष्म्याद्या अपि सर्वशः ॥ ३,९.
स्तुत्वा तूष्णीं स्थिताः सर्वे प्राञ्जलीकृत्य भो द्विज ॥ ३,९.
इति स्तुतश्च देवेशो भगवान् हरिरव्ययः । तेषामायतनं दातुं मनसा समचिन्तयत् ॥ ३,९.
इदं पवित्रमारोग्यं पुण्यं पापप्रणाशनम् । हरिप्रसादजनकं स्वरूपसुखसाधनम् ॥ ३,९.
इदं तु स्तवनं विप्रा न पठन्तीह मानवाः । न शृण्वन्ति च ये नित्यं ते सर्वे चैव मायिनः ॥ ३,९.
नस्मरन्तोन्तरं नित्यं ये भुञ्जन्ति नराधमाः । तैर्भुक्ता सततं विष्ठा सदा क्रिमिशतैर्युता ॥ ३,९.
श्रीगरुडमहापुराणम् १० गरुड उवाच । देवैरेवं स्तुतो विष्णुर्भगवान्सात्त्वतां पतिः । कीदृशं ह्याश्रयं दत्त्वैषां विवेश महाप्रभुः ॥ ३,१०.
एतद्वेदितुमिच्छामि कृष्णकृष्ण महाप्रभो । सम्यग्ब्रूहि दयालो त्वं यदि मच्छ्रोत्रमर्हति ॥ ३,१०.
श्रीकृष्ण उवाच । तेषु तत्त्वेषु भगवान्स विवेश महाप्रभुः । क्षोभयामास भगवान् संबन्धविधुरो हरिः ॥ ३,१०.
अदौ ससर्ज भगवान् ब्रह्माण्डं कन कात्मकम् । पञ्चाशत्कोटिविस्तीर्णं योजनानां समन्ततः ॥ ३,१०.
तदूर्ध्वमण्ववयवस्तावान्कनकरूपकः । वर्तते तत ऊर्ध्वं तु पञ्चाशत्कोटिभूतलम् ॥ ३,१०.
एवं कोटिशतं तस्यावयवः परिकीर्तितः । ततश्च सप्तावरणैः समतात्परिधीकृतम् ॥ ३,१०.
कबन्धावरणं ह्याद्यं कोट्या दशसहस्रकम् । द्वितीया वरणं ज्ञेयं पावकस्य महात्मनः ॥ ३,१०.
अपां दशगुणैर्युक्तं समन्तात्परिधी (खी) कृतम् । तृतीयावरणं ज्ञेयं हरस्यैव महात्मनः ॥ ३,१०.
दशाधिकं पावकाच्च समन्तात्परिवारितम् । चतुर्थावरणं ज्ञेयं नभसोपि महाप्रभो ॥ ३,१०.
हराद्दशगुणैरेवं समन्तात्परिवारितम् । पञ्चमावरणं ज्ञेयमहङ्काराख्यमेवच ॥ ३,१०.
व्योम्नो दशगुणैरेवं समन्तात्परिवारि तम् । षष्ठमावरणं प्रोक्तं महत्तत्त्वं खगेश्वर ॥ ३,१०.
अहङ्काराद्दशगुणं समन्तात्परिवारितम् । सप्तमावरणं प्रोक्तं त्रिगुणावरणं प्रभो ॥ ३,१०.