विश्वामित्र उवाच । न ध्याते चरणांबुजे भगवतो संध्यापि नानुष्ठिता ज्ञानद्वारकपाटपाटनपटुर्धर्मोपि नोपार्जितः । अन्तर्व्याप्तमलाभिघातकरणे पट्वी श्रुता ते कथा नो देव श्रवणेन पाहि भगवन्मामत्रितुल्यं सदा ॥ ३,७.
विश्वामित्रऋषिस्त्वेवं स्तुत्वा तूष्णीं बभूव ह । भृगुनारदक्षांश्च विहाय ब्रह्मपुत्रकाः ॥ ३,७.
सप्तसंख्या वसिष्ठाद्या विश्वामित्रस्तथैव च । वैवस्वतमनुस्त्वेते परस्परसमाः स्मृताः ॥ ३,७.
वह्नेरप्यवरा नित्यं किञ्चिन्मित्राद्गुणाधिकाः । तदनन्तजस्तोत्रं वक्ष्ये शृणु खगेश्वर ॥ ३,७.
श्रीगरुडमहापुराणम् ८ क्रतोरनन्तरं जातो मित्रो (श्रो) नाम खगेश्वर । नारायणं जगद्योनिं स्तोतुं समुपचक्रमे ॥ ३,८.
मित्र उवाच । नतोस्म्यज्ञस्त्वच्चरणारविन्दं भवच्छिदं स्वस्त्ययनं भवच्छिदे । वेद स्वयं भगवान्वासुदेवो नाहं नाग्निर्न त्रिदेवा मुनीन्द्राः ॥ ३,८.
अथापरे भागवतप्रधाना यदा न जानीयुरथापरे कुतः । मां पाहि नित्यं परतोप्यधीश विश्वामित्रान्न्यून एवेति नित्यम् । अहं पर्जन्यार्द्विगुण एव नित्यमतो मम स्तवने नास्ति शक्तिः ॥ ३,८.
एवं स्तुत्वा हरिं मित्रस्तूष्णीमास तदा खग । तदनन्तरजा तारा स्तोतुं समुपचक्रमे ॥ ३,८.
तारोवाच अनन्येन तु भावेन भक्तिं कुर्वन्ति ये दृढाम् । त्वत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः ॥ ३,८.
त्वदाश्रयां कथां श्रुत्वा (दृष्ट्वा) शृण्वन्ति कथयन्ति च । तथैते साधवो विष्णो सर्वसंगविवर्जिताः ॥ ३,८.
तन्मध्ये पतितां पाहि सदा मित्रसमां प्रभो । तारानन्तरजः प्राह निरृतिश्च खगेश्वर ॥ ३,८.
निरृतिरुवाच । योगेन त्वय्यर्पितया च भक्त्या संयान्ति लोकाः परमां गतिं च । आसेवया सर्वगुणाधिकानां ज्ञानेन वैराग्ययुतेनदवे ॥ ३,८.
चित्तस्य निग्रहेणैव विष्णोर्यान्ति परं पदम् । अतो मां पाहि दयया सदा तारासमं प्रभो । तदनन्तरजा स्तोतुं प्रावही तं प्रचक्रमे ॥ ३,८.
प्रवाह्युवाच । सुताः प्रसंगेन भवन्ति वीर्यात्तव प्रसादात्परमाः सम्पदश्च । या ह्युत्तमश्लोकरसायनाः कथास्तत्सेवनादास्त्वपवर्गवर्त्मनि ॥ ३,८.
भक्तिर्भवेत्सर्वदा देवदेव सदाप्यहं निरृतेः साम्यमेव । सहर्भाष्यकोमित्रः त्कयीतारः प्रकीर्तिताः ॥ ३,८.
कोणाधिपो निरृतिश्च प्रावही प्रवहप्रिया । चत्वार एते पर्जन्यात्त्रिगुणाः परिकीर्तिताः ॥ ३,८.
तदनन्तरजान्वक्ष्ये ताञ्छृणु त्वं खगेश्वर । प्रवाहभार्यानन्तरजो विष्वक्सेनोथपार्षदः । वायुपुत्रो महाभागः हरिं स्तोतुं प्रचक्रमे ॥ ३,८.
विष्वक्सेन उवाच । भगवान्मोक्षदः कृष्णः पूर्णानन्दो सदायदि । यदि स्यात्परमा भक्तिर्ह्य परोक्षत्वसाधना ॥ ३,८.
तथा स्वगुरुमारभ्य ब्रह्मान्तेषु च साधुषु । तद्योग्यतानुसारेण भक्तिर्निष्कपटा यदि ॥ ३,८.
तुलस्यादिषु जीवेषु यदि स्यात्प्रीतिरण्डज । संस्मृतिश्च तदा नाशी भूयादेव न संशयः ॥ ३,८.
एवं स्तुत्त्वा महाभागो विष्वक्से नो महाप्रभो । तूष्णीं बभूव गरुड प्राञ्जलिर्नम्रकन्धरः । मित्रादहं न्यून एव नात्र कार्या विचारणा ॥ ३,८.
श्रीगरुड उवाच । अजानजस्वरूपं च ब्रूहि कृष्ण महामते । तदन्यांश्च क्रमेणेव वक्तुं कृष्ण त्वमर्हसि ॥ ३,९.
श्रीकृष्ण उवाच । अजानाख्या देवतास्तु तत्तद्देवकुले भवाः । अजानदेवतास्ता हि तेभ्योग्र्याः कर्मदेवताः ॥ ३,९.
विराधश्चारुदेष्णश्च तथा चित्ररथस्तथा । धृतराष्ट्रः किशोरश्च हूहूर्हाहास्तथैव च ॥ ३,९.
विद्याधरश्चोग्रसेनो विश्वावसुपरावसू । चित्रसेनश्च गोपालो बलः पञ्चदश स्मृताः ॥ ३,९.
एवमाद्याश्च गन्धर्वाः शतसंख्याः खगेश्वर । अजानजसमा ज्ञेया मुक्तौ संसार एव च ॥ ३,९.
अज्ञानजास्तु मे देवाः कर्मजेभ्यः शतावराः । घृताची मेनका रंभा उर्वशी च तिलोत्तमा ॥ ३,९.
सुकेतुः शबरी चैव मञ्जुघोषा च पिङ्गला । इत्यादिकं यक्षरत्नं सह संपरिकीर्तितम् ॥ ३,९.
अजानजसमा ह्येते कर्मजेभ्यः शतावराः । विश्वामित्रो वसिष्ठश्च नारदश्च्यवनस्तथा ॥ ३,९.
उतथ्यश्च मुनिश्चैतान्द्राजपित्वा खगेश्वर । ऋषयश्च महात्मानो ह्यजानजसमाः स्मृताः ॥ ३,९.