एवं स्तुत्वा मरीचिस्तु तूष्णीमास तदा खग । तदतन्तरजोह्यत्रिरस्तावीत्प्राञ्जलिर्हरिम् ॥ ३,७.
आविर्भवज्जगत्प्रभवायावतीर्णं तद्रक्षणार्थमनवद्यञ्च तथाव्ययाय । तत्त्वार्थमूलमविकारि तव स्वरूपं ह्यानन्दसारमत एव विकारशून्यम् ॥ ३,७.
त्रैगुण्यशून्यमखिलेषु च संविभक्तं तत्र प्रविश्य भगवन्न हि पश्यतीव । अतो मुरारेस्तव सद्गुणांश्च स्तोतुं न शक्नोमि मरीचितुल्यः ॥ ३,७.
एवं स्तुत्वा ह्यत्रिरपितूष्णीमास तदा खग । तदनन्तरजः स्तोतुमङ्गिरा वाक्यमब्रवीत् ॥ ३,७.
अङ्गिरा उवाच । द्रष्टुं न शक्नोमि तव स्वरूपं ह्यनन्तबाहूदरमस्तकं च । अनन्तसाहस्रकिरीटजुष्टं महार्हनानाभरणैश्च शोभितम् । एतादृशं रूपमनन्तपारं स्तोतुं ह्यशक्तस्तु समोस्मि चात्रेः ॥ ३,७.
एवं स्तुत्वा ह्यङ्गिराश्च तूष्णीमास खगेश्वर । तदनन्तरजः स्तोतुं पुलस्त्यो वाक्यमब्रवीत् ॥ ३,७.
पुलस्त्य उवाच । यो वा हरिस्तु भगवान्स (स्व) उपासकानां संदर्शयेद्भुवनमङ्गलमङ्गलं च । (लश्च) यस्मै नमो भगवते पुरुषाय तुभ्यं यो वाविता निरयभागगमप्रसङ्गे ॥ ३,७.
एतादृशांस्तव गुणान्नवितुं न शक्तं मां पाहि भगवन्सदृशो ह्यङ्गिरसा च ॥ ३,७.
एवं स्तुत्वा पुलस्त्योपि स्तूष्णीमेव बभूव ह । तदनन्तरजः स्तोतुं पुलहो वाक्यमब्रवीत् ॥ ३,७.
पुलह उवाच । निष्कामरूपरिहितस्य समर्पितं च स्नानावरोत्तमपयः फलपुष्पभोज्यम् । आराधनं भगवतस्तव सत्क्रियाश्च व्यर्थं भवेदिति वदन्ति महानुभावाः ॥ ३,७.
तस्मै सदा भगवते प्रणमामि नित्यं निष्कामया तव समर्पणमात्रबुद्ध्या । वैकुण्ठनाथ भगवन्स्तवने न शक्तिः सोहं पुलस्त्यसदृशोस्मि न संशयोत्र ॥ ३,७.
एवं स्तुत्वा तु पुलहस्तूष्णीमास तदा खग । तदनन्तरजः स्तोतुं क्रतुः समुपचक्रमे ॥ ३,७.
क्रतुरुवाच । प्राणप्रयाणसमये भगवंस्तवैव नामानि संसृतिजदुःखविनाशकानि । येनैकजन्मशमलं सहसैव हित्वा संयाति मुक्तिममलां तमहं प्रपद्ये ॥ ३,७.
ये भक्त्या विवशा विष्णो नाममात्रैकजल्पकाः । तेपि मुक्तिं प्रयान्त्याशु किमुत ध्यायिनः सदा ॥ ३,७.
एवं स्तुत्वा क्रतुरपि तूष्णीमास खगेश्वर । तदनन्तरजः स्तोतुं मनुर्वैवस्वतोब्रवीत् ॥ ३,७.
वैवस्वत उवाच । सोहं हि कर्मकरणे निरतः सदैव स्त्रीणां भोगे च निरतश्च गुदे प्रमत्तः । जिह्वेन्द्रिये च निरतस्तव दर्शने च सम्यग्विरागसहितः परमोदरेण ॥ ३,७.
मांसास्थिमज्जरुधिरैः सहिते च देहे भक्तिं सदैव भगवन्नपि तस्करे च । गुर्वग्निबाडबगवादिषु सत्सु दुःखात्सम्यग्विरक्तिमुपयामि सहस्व नित्यम् ॥ ३,७.
लोकानुवादश्रवणे परमा च शक्तिर्नारायणस्य नमने न च मेस्ति शक्तिः । लोकानुयानकरणे परमा च शक्तिः क्षेत्रादिमार्गगमने परमा ह्यशक्तिः ॥ ३,७.
वैश्यादिकेषु धनिकेषु परा च शक्तिः सद्ब्राह्मणेष्वपि न शक्तिरहो मुरारे ॥ ३,७.
वैवस्वतमनुर्देवं स्तुत्वा तूष्णीं बभूव ह । तदनन्तरजः स्तोतुं विश्वामित्रोपचक्रमे ॥ ३,७.
विश्वामित्र उवाच । न ध्याते चरणांबुजे भगवतो संध्यापि नानुष्ठिता ज्ञानद्वारकपाटपाटनपटुर्धर्मोपि नोपार्जितः । अन्तर्व्याप्तमलाभिघातकरणे पट्वी श्रुता ते कथा नो देव श्रवणेन पाहि भगवन्मामत्रितुल्यं सदा ॥ ३,७.
विश्वामित्रऋषिस्त्वेवं स्तुत्वा तूष्णीं बभूव ह । भृगुनारदक्षांश्च विहाय ब्रह्मपुत्रकाः ॥ ३,७.
सप्तसंख्या वसिष्ठाद्या विश्वामित्रस्तथैव च । वैवस्वतमनुस्त्वेते परस्परसमाः स्मृताः ॥ ३,७.
वह्नेरप्यवरा नित्यं किञ्चिन्मित्राद्गुणाधिकाः । तदनन्तजस्तोत्रं वक्ष्ये शृणु खगेश्वर ॥ ३,७.
श्रीगरुडमहापुराणम् ८ क्रतोरनन्तरं जातो मित्रो (श्रो) नाम खगेश्वर । नारायणं जगद्योनिं स्तोतुं समुपचक्रमे ॥ ३,८.
मित्र उवाच । नतोस्म्यज्ञस्त्वच्चरणारविन्दं भवच्छिदं स्वस्त्ययनं भवच्छिदे । वेद स्वयं भगवान्वासुदेवो नाहं नाग्निर्न त्रिदेवा मुनीन्द्राः ॥ ३,८.
अथापरे भागवतप्रधाना यदा न जानीयुरथापरे कुतः । मां पाहि नित्यं परतोप्यधीश विश्वामित्रान्न्यून एवेति नित्यम् । अहं पर्जन्यार्द्विगुण एव नित्यमतो मम स्तवने नास्ति शक्तिः ॥ ३,८.
एवं स्तुत्वा हरिं मित्रस्तूष्णीमास तदा खग । तदनन्तरजा तारा स्तोतुं समुपचक्रमे ॥ ३,८.
तारोवाच अनन्येन तु भावेन भक्तिं कुर्वन्ति ये दृढाम् । त्वत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः ॥ ३,८.
त्वदाश्रयां कथां श्रुत्वा (दृष्ट्वा) शृण्वन्ति कथयन्ति च । तथैते साधवो विष्णो सर्वसंगविवर्जिताः ॥ ३,८.