अतो हरे तादृशीं मे कुबुद्धिं विनाश्य मे देहि ते पाददास्यम् । अहं मनोः पादपादार्धभूतगुणेन हीनः सर्वदा वै मुरारे ॥ ३,७.
एवं स्तुत्वा तु वरुणः प्राञ्जलिः समुपस्थितः । वरुणानन्तरोत्पन्नो नारदो ह्यस्तुवद्धरिम् ॥ ३,७.
नारद उवाच । यन्नामधेयश्रवणानुकीर्तनात्स्वाद्वन्यतत्त्वं मम नास्ति विष्णो । पुनीह्यतश्चैव परोवरायान्यज्जिह्वाग्रे वर्तते नाम तस्य ॥ ३,७.
यज्जिह्वाग्रे हरिनामैव नास्ति स ब्राह्मणो नैव स एव गोखरः । अहं न जाने च तव स्वरूपं न्यूनो ह्यहं वरुणात्सर्वदैव ॥ ३,७.
एवं स्तुत्वा नारदो वै खगेन्द्रस्तूष्णीमभूद्देवदेवस्य चाग्रे । यो नारदानन्तरं संबभूव भृगुर्महात्मा स्तोतुमुपप्रचक्रमे ॥ ३,७.
भृगुरुवाच । किमासनं ते गरुडासनाय किं भूषणं कौस्तुभभूषणाय । लक्ष्मीकलत्राय किमस्ति देयं वागीश किं ते वचनीयमस्ति । अतो न जाने तव सद्गुणांश्च ह्यहं सदा वरुणात्पादहीनः ॥ ३,७.
एवं स्तुत्वा हरिं देवं भृगुस्तूष्णीं बभूव ह । तदनन्तरजो ह्यग्निरस्तावीत्पुरुषोत्तमम् ॥ ३,७.
अग्निरुवाच । यत्तेजसाहं सुसमिद्धतेजा हव्यं वहाम्यध्वरे आज्यसिक्तम् ॥ ३,७.
यत्तेजसाहं जठरे संप्रविश्य पचन्नन्नं सर्वदा पूर्णशक्तिः । अतो न जाने तव सद्गुणांश्च भृगोरहं सर्वदैवं समोस्मि ॥ ३,७.
तदनन्तरजा स्तोतुं प्रसूतिरुपचक्रमे ॥ ३,७.
प्रसूतिरुवाच । यन्नामार्थविचारणेपि मुनयो मुह्यंति वै सर्वदा त्वद्भीता अपि देवता ह्यविरतं स्त्रीभिः सहैव स्थिताः । मान्धातृध्रुवनारदाश्च भृगवो वैवस्वताद्याखिलाः प्रेम्णा वै प्रणमाम्यहं हितकृते तस्मै नमो विष्णवे ॥ ३,७.
अतो न जाने तव सद्गुणान्सदा एवं विधा का मम शक्तिरस्ति । स्तुत्वा ह्येवं प्रसूतिस्तु तूष्णीमासीत्खगेश्वर ॥ ३,७.
अग्निर्वागात्मको ब्रह्मपुत्रो भृगु ऋषिस्तथा । तद्भार्या वै प्रसूतिस्तु त्रय एते समाः स्मृताः ॥ ३,७.
वरुणात्पादहीनाश्च प्रवहाद्विगुणाधमाः । दक्षाच्छतावरा ज्ञेया मित्रात्तु द्विगुणाधिकाः ॥ ३,७.
प्रसूत्यनन्तरं जातो वसिष्ठो ब्रह्मनन्दनः । विनयावनतो भूत्वा स्तोतुं समुपचक्रमे ॥ ३,७.
वसिष्ठ उवाच । नमोस्तु तस्मै पुरुषाय वेधसे नमोनमोऽसद्वृजिनच्छिदे नमः । नमोनमो स्वाङ्गभवाय नित्यं नतोस्मि हे नाथ तवाङ्घ्रिपङ्कजम् ॥ ३,७.
मां पाहि नित्यं भगवन्वासुदेव ह्यग्नेरहं सर्वदा न्यून एव । मित्रादहं सर्वदा किञ्चिदूनः स्तुत्वा देव सोभवत्तत्र तूष्णीम् ॥ ३,७.
यो वसिष्ठानन्तरजो मरीचिर्ब्रह्मनन्दनः । हरिन्तुष्टाव परया भक्त्या नारायणं गुरुम् ॥ ३,७.
मरीचिरुवाच । देवेन चाहं हतधीर्भवनप्रसङ्गात्सर्वाशुभोपगमनाद्विमुखेंद्रियश्च । कुर्वे च नित्यं सुखलेशलवादिना त्वद्दूरं मनस्त्वशुभकर्म समाचरिष्ये ॥ ३,७.
एतादृशोहं भगवाननन्तः सदा वसिष्ठस्य समान एव ॥ ३,७.
एवं स्तुत्वा मरीचिस्तु तूष्णीमास तदा खग । तदतन्तरजोह्यत्रिरस्तावीत्प्राञ्जलिर्हरिम् ॥ ३,७.
आविर्भवज्जगत्प्रभवायावतीर्णं तद्रक्षणार्थमनवद्यञ्च तथाव्ययाय । तत्त्वार्थमूलमविकारि तव स्वरूपं ह्यानन्दसारमत एव विकारशून्यम् ॥ ३,७.
त्रैगुण्यशून्यमखिलेषु च संविभक्तं तत्र प्रविश्य भगवन्न हि पश्यतीव । अतो मुरारेस्तव सद्गुणांश्च स्तोतुं न शक्नोमि मरीचितुल्यः ॥ ३,७.
एवं स्तुत्वा ह्यत्रिरपितूष्णीमास तदा खग । तदनन्तरजः स्तोतुमङ्गिरा वाक्यमब्रवीत् ॥ ३,७.
अङ्गिरा उवाच । द्रष्टुं न शक्नोमि तव स्वरूपं ह्यनन्तबाहूदरमस्तकं च । अनन्तसाहस्रकिरीटजुष्टं महार्हनानाभरणैश्च शोभितम् । एतादृशं रूपमनन्तपारं स्तोतुं ह्यशक्तस्तु समोस्मि चात्रेः ॥ ३,७.
एवं स्तुत्वा ह्यङ्गिराश्च तूष्णीमास खगेश्वर । तदनन्तरजः स्तोतुं पुलस्त्यो वाक्यमब्रवीत् ॥ ३,७.
पुलस्त्य उवाच । यो वा हरिस्तु भगवान्स (स्व) उपासकानां संदर्शयेद्भुवनमङ्गलमङ्गलं च । (लश्च) यस्मै नमो भगवते पुरुषाय तुभ्यं यो वाविता निरयभागगमप्रसङ्गे ॥ ३,७.
एतादृशांस्तव गुणान्नवितुं न शक्तं मां पाहि भगवन्सदृशो ह्यङ्गिरसा च ॥ ३,७.
एवं स्तुत्वा पुलस्त्योपि स्तूष्णीमेव बभूव ह । तदनन्तरजः स्तोतुं पुलहो वाक्यमब्रवीत् ॥ ३,७.
पुलह उवाच । निष्कामरूपरिहितस्य समर्पितं च स्नानावरोत्तमपयः फलपुष्पभोज्यम् । आराधनं भगवतस्तव सत्क्रियाश्च व्यर्थं भवेदिति वदन्ति महानुभावाः ॥ ३,७.