रतिरुवाच । संचिन्तयामि नृहरेर्वदनारविन्दं भृत्यानुकंपितधिया हि गृहीतमूर्तिम् । यच्छ्रीनिकेतमजरुद्ररमादिकैश्च संलालितं कुटिलङ्कुन्तलवृन्दजुष्टम् ॥ ३,७.
एतादृशं तव मुखं नुवितुं न शक्तिः शच्या समापि भगवन्परिपाहि नित्यम् । कृत्वा स्तुतिं रतिरियं परमादरेण तूष्णीं स्थिता भगवतश्च समीप एव ॥ ३,७.
रत्यनन्तरजो दक्षः स्तोतुं समुपचक्रमे ॥ ३,७.
दक्ष उवाच । संचिन्तये भगवतश्चरणोदतीर्थं भक्त्या ह्यजेन परिषिक्तमजादिवन्द्यम् । यच्छौचनिःसृतमजप्रवरावतारं गङ्गाख्यतीर्थमभवत्सरितां वरिष्ठम् ॥ ३,७.
रुद्रोपि तेन विधृतेन जटाकलापपूतेन पादरजसा ह्यशिवः शिवोभूत् । एतादृशं ते चरणं करुणेश विष्णो स्तोतुं शक्तिर्मम नास्ति कृपावतार । रत्या समः श्रुतिगतो न गतोस्मि मोक्षमेतादृशं च परिपाहि निदानमूर्ते ॥ ३,७.
एवं स्तुत्वा स दक्षस्तु तूष्णीमेव बभूव ह । तदनन्तरजः स्तोतुं बृहस्पतिरुपाक्रमीत् ॥ ३,७.
बृहस्पतिरुवाच । संचिन्तयामि सततं तव चाननाब्जं त्वं देहि दुष्टविषयेषु विरक्तिमीश ॥ ३,७.
एतेषु शक्तिर्यदि वै स जीवो कर्ता च भोक्ता च सदा च दाता । योषां च पुत्रसुहृदौ च पशूंश्च सर्वमेवं विनश्यति यतो हि तदाशु छिन्धि ॥ ३,७.
संसारचक्रभ्रमणेनैव देव संसारदुःखमनुभूयेहागतोस्मि । शक्तिर्न चास्ति नवने मम देवदेव सत्या समं च सततं परिपाहि नित्यम् ॥ ३,७.
एवं श्रुत्वा च परमं तूष्णीमेव स्थितो मुनिः । तदनन्तरजस्तोतुं ह्यनिरुद्धोपचक्रमे ॥ ३,७.
अनिरुद्ध उवाच । एवं हरेस्तव कथां रसिकां विहाय स्त्रीणां भगे च वदने परिमुह्य नित्यम् । विष्ठान्त्रपूरितबिले रसिको हि नित्यं स्थायी च सूकरवदेव विमूढबुद्धिः ॥ ३,७.
मज्जास्थिपित्तकफरक्तमलादिपूर्णे चर्मान्त्रवेष्टितमुखे पतितं ह पीतम् । आस्वादने मम च पापगतेर्मुरारे मायाबलं तव विभो परमं निमित्तम् ॥ ३,७.
संसारचक्रे भ्रमतश्च नित्यं सुदुःखरूपे सुखलेशवर्जिते । मलं वमन्तं नवभिश्च द्वारैः शरीरमारुह्य सुमूढबुद्धिः ॥ ३,७.
नमामि नित्यं तव तत्कथामृतं विहाय देव श्रुतिमूलनाशनम् । कुटुंबपोषं च सदा च कुर्वन्दानाद्यकुर्वन्निवसन् गृहे च ॥ ३,७.
दूरे च संसारमलं त्विदं कुरु देहि ह्यदो दिव्यकथामृतं सदा । एतादृशोहं तव सद्गुणौघं स्तोतुं समर्थो नास्मि शचीसमश्च ॥ ३,७.
एवं स्तुत्वानिरुद्धस्तु तूष्णीमास खगेश्वर । तदनन्तरजः स्तोत्रं मनः स्वायंभुवोब्रवीत् ॥ ३,७.
स्वायंभुव उवाच । स्तोतुं ह्यनुप्रविशतोपि न गर्भदुःखं तस्मादहं परमपूज्यपदं गतस्ते ॥ ३,७.
मनोर्भार्या मानवी च यमः संयमिनीपतिः । दिशाभिमानी चन्द्रस्तु सूर्यश्चक्षुर्नियामकः । परस्परसमा ह्येते मुक्त्वा संसारमेव च ॥ ३,७.
प्रवाहाद्विगुणोनश्चेत्येवं जानीहि चाण्डज । सूर्यानन्तरजः स्तोतुं वरुणः संप्रचक्रमे ॥ ३,७.
वरुण उवाच । त्वद्विच्छया रचिते देहगेहे पुत्त्रे कलत्रेपि धने द्रव्यजातौ । ममाहमित्यल्पधिया च मूढा संसारदुःखे विनिमज्जन्ति सर्वे ॥ ३,७.
अतो हरे तादृशीं मे कुबुद्धिं विनाश्य मे देहि ते पाददास्यम् । अहं मनोः पादपादार्धभूतगुणेन हीनः सर्वदा वै मुरारे ॥ ३,७.
एवं स्तुत्वा तु वरुणः प्राञ्जलिः समुपस्थितः । वरुणानन्तरोत्पन्नो नारदो ह्यस्तुवद्धरिम् ॥ ३,७.
नारद उवाच । यन्नामधेयश्रवणानुकीर्तनात्स्वाद्वन्यतत्त्वं मम नास्ति विष्णो । पुनीह्यतश्चैव परोवरायान्यज्जिह्वाग्रे वर्तते नाम तस्य ॥ ३,७.
यज्जिह्वाग्रे हरिनामैव नास्ति स ब्राह्मणो नैव स एव गोखरः । अहं न जाने च तव स्वरूपं न्यूनो ह्यहं वरुणात्सर्वदैव ॥ ३,७.
एवं स्तुत्वा नारदो वै खगेन्द्रस्तूष्णीमभूद्देवदेवस्य चाग्रे । यो नारदानन्तरं संबभूव भृगुर्महात्मा स्तोतुमुपप्रचक्रमे ॥ ३,७.
भृगुरुवाच । किमासनं ते गरुडासनाय किं भूषणं कौस्तुभभूषणाय । लक्ष्मीकलत्राय किमस्ति देयं वागीश किं ते वचनीयमस्ति । अतो न जाने तव सद्गुणांश्च ह्यहं सदा वरुणात्पादहीनः ॥ ३,७.
एवं स्तुत्वा हरिं देवं भृगुस्तूष्णीं बभूव ह । तदनन्तरजो ह्यग्निरस्तावीत्पुरुषोत्तमम् ॥ ३,७.
अग्निरुवाच । यत्तेजसाहं सुसमिद्धतेजा हव्यं वहाम्यध्वरे आज्यसिक्तम् ॥ ३,७.
यत्तेजसाहं जठरे संप्रविश्य पचन्नन्नं सर्वदा पूर्णशक्तिः । अतो न जाने तव सद्गुणांश्च भृगोरहं सर्वदैवं समोस्मि ॥ ३,७.
तदनन्तरजा स्तोतुं प्रसूतिरुपचक्रमे ॥ ३,७.