वारुण्युवाच । लक्ष्मीपते ब्रह्मपते मनोः पते गिरःपते रुद्रपते नृणां पते । गुणांस्तव स्तोतुमहं समर्था न पार्वती नापि सुपर्णपत्नी ॥ ३,६.
शेषादहं दशगुणैर्विहीना मां पाहि नित्यं जगतामधीश ॥ ३,६.
एवं स्तुत्वा वारुणी तु तूष्णीमास खगेश्वर । तदनन्तरजा ब्राह्मी सौपर्णी ह्युपचक्रमे ॥ ३,६.
सौपर्ण्युवाच । स्तोतुं गुणांस्तव हरे जगदीशवाचा श्रोतुं हरे तव कथां श्रवणे न शक्तिः । यस्तत्त्वनुं स्मरति देव तव स्वरूपं को वै नु वेद भुवि तं भगवत्पदार्थम् ॥ ३,६.
अतो गुणस्तवने नास्ति शक्तिर्वीन्द्रादहं दशगुणैरवरा च नित्यम् ॥ ३,६.
एवं स्तुत्वा तु सौपर्णी तूष्णीमास खगेश्वर । रुद्रानन्तरजा स्तोतुं गिरिजा तूपचक्रमे ॥ ३,६.
पार्वत्युवाच गोविन्द नारायण वासुदेव त्वया हि मे किञ्चिदपि प्रयोजनम् । नास्त्येव स्वामिन्न च नाम वाचा सौभाग्यरूपः सर्वदा एक एव ॥ ३,६.
नारायणेति तव नाम च एकमेव वैराग्यभक्तिविभवे परमं समर्थाम् । असंख्यब्रह्मादिकहत्यनाशाने गुर्वङ्गनाकोटिविनाशने च ॥ ३,६.
नामाधिकारिणी चाहं गुणानां च महाप्रभो । स्तवने नास्ति मे शक्ती रुद्राद्दशगुणैरहम् ॥ ३,६.
अवरा च सदास्म्येव नात्र कार्या विचारणा । एवं स्तुत्वा सा गिरिजास्तूष्णीमास खगेश्वर ॥ ३,६.
श्रीगरुडमहापुराणम् ७ श्रीकृष्ण उवाच । पार्वत्यानन्तरोत्पन्न इन्द्रो वचनमब्रवीत् । इन्द्र उवाच । तव स्वरूपं हृदि संविजानन् समुत्सुकः स्यात्स्तवने यस्तु मूढः । अजानतः स्तवनं देवदेव तदेवाहुर्हेलनं चक्रपाणे ॥ ३,७.
तथापि तद्वै तव नाम पूर्वं भवेत्तदा पुण्यकरं भवेदिति । रुद्रादिकानां स्तवने नास्ति शक्तिस्तदा वक्तव्यं मम नास्तीति किं वा ॥ ३,७.
गुणांशतो दशभी रुद्रतो वै सदा न्यूनो मत्समः कामदेवः । ज्ञाने बले समता सर्वदास्ति तथाः कामः किं च दूतः सदैव ॥ ३,७.
एवं स्तुत्वा देवदेवो हरिं च तूष्णीं स्थितः प्राञ्जलिर्नम्रभूर्धां । तदनन्तरजो ब्रह्मा अहङ्कारिक ऊचिवान् ॥ ३,७.
अहङ्कारिक उवाच । नमस्ते गणपूर्णाय नमस्ते ज्ञानमूर्तये । नमोऽज्ञानविदूराय ब्रह्मणेनंतमूर्तये ॥ ३,७.
इन्द्रादहं दशगुणैः सर्वदा न्यून उक्तो न जनि त्वां सर्वदा ह्यप्रमेय । तथापि मां पाहि जगद्गुरो त्वं दत्त्वा दिव्यं ह्यायतनं च विष्णो ॥ ३,७.
आहङ्कारिक एवं तु स्तुत्वा तूष्णीं बभूव ह । तदनन्तरजा स्तोतुं शची वचनमब्रवीत् ॥ ३,७.
शच्युवाच । संचिन्तयामि अनिशं तव पादपद्मं वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् । वागीश्वरैरपि सदा मनसापि धर्तुं नो शक्यमीश तव पादरजः स्मरामि ॥ ३,७.
आहङ्कारिकप्राणाच्च गुणैश्च दशभिः सदा । न्यूनभूतां च मां पाहि कृपालो भक्तवत्सल ॥ ३,७.
एवं स्तुत्वा शची देवी तूष्णीं भगवती ह्यभूत् । तदनन्तरजा स्तोतुं रतिः समुपचक्रमे ॥ ३,७.
रतिरुवाच । संचिन्तयामि नृहरेर्वदनारविन्दं भृत्यानुकंपितधिया हि गृहीतमूर्तिम् । यच्छ्रीनिकेतमजरुद्ररमादिकैश्च संलालितं कुटिलङ्कुन्तलवृन्दजुष्टम् ॥ ३,७.
एतादृशं तव मुखं नुवितुं न शक्तिः शच्या समापि भगवन्परिपाहि नित्यम् । कृत्वा स्तुतिं रतिरियं परमादरेण तूष्णीं स्थिता भगवतश्च समीप एव ॥ ३,७.
रत्यनन्तरजो दक्षः स्तोतुं समुपचक्रमे ॥ ३,७.
दक्ष उवाच । संचिन्तये भगवतश्चरणोदतीर्थं भक्त्या ह्यजेन परिषिक्तमजादिवन्द्यम् । यच्छौचनिःसृतमजप्रवरावतारं गङ्गाख्यतीर्थमभवत्सरितां वरिष्ठम् ॥ ३,७.
रुद्रोपि तेन विधृतेन जटाकलापपूतेन पादरजसा ह्यशिवः शिवोभूत् । एतादृशं ते चरणं करुणेश विष्णो स्तोतुं शक्तिर्मम नास्ति कृपावतार । रत्या समः श्रुतिगतो न गतोस्मि मोक्षमेतादृशं च परिपाहि निदानमूर्ते ॥ ३,७.
एवं स्तुत्वा स दक्षस्तु तूष्णीमेव बभूव ह । तदनन्तरजः स्तोतुं बृहस्पतिरुपाक्रमीत् ॥ ३,७.
बृहस्पतिरुवाच । संचिन्तयामि सततं तव चाननाब्जं त्वं देहि दुष्टविषयेषु विरक्तिमीश ॥ ३,७.
एतेषु शक्तिर्यदि वै स जीवो कर्ता च भोक्ता च सदा च दाता । योषां च पुत्रसुहृदौ च पशूंश्च सर्वमेवं विनश्यति यतो हि तदाशु छिन्धि ॥ ३,७.
संसारचक्रभ्रमणेनैव देव संसारदुःखमनुभूयेहागतोस्मि । शक्तिर्न चास्ति नवने मम देवदेव सत्या समं च सततं परिपाहि नित्यम् ॥ ३,७.
एवं श्रुत्वा च परमं तूष्णीमेव स्थितो मुनिः । तदनन्तरजस्तोतुं ह्यनिरुद्धोपचक्रमे ॥ ३,७.