भारत्युवाच । ब्रह्मेश लक्ष्मीश हरे मुरारे गुणांस्तव श्रद्दधानस्य नित्यम् । तथा स्तुवन्तोस्य विवर्धमानां मतिं च नित्यं विषयेष्वसत्सु ॥ ३,६.
कुर्वन्ति वैराग्यममुत्र लोके ततः परं भक्तिदृढां तथैव । ततः परं चैव हरेः प्रसन्नतां कुर्वन्ति नित्यं तव देवदेव ॥ ३,६.
तेनापरोक्षं च भवेच्च तस्य अतो गुणानां स्तवने च मे रतिः । सा तु प्रजाता पुरुषस्य नित्यं संसारदुःखं तु तदाच्छिनत्ति ॥ ३,६.
विच्छिन्नदुःखस्य तदाधिकारिण आनन्दरूपाख्यफलं ददाति । हरेर्गुणानस्तुवतां च पापं तेषां हि पुण्यं च तथा क्षिणोति ॥ ३,६.
एवं विदित्वा परमो गुरुर्मम वायुर्दयालुर्मम वल्लभश्च । हरेर्गुणान्सर्वगुणप्रसारान्ममैव योग्यान्सुखमुख्यभूतान् ॥ ३,६.
उद्धृत्य पुण्येभ्य इवार्तबन्धुः शिवश्च नो द्रुह्यति पुण्यकीर्तिम् । तव प्रसादाच्च श्रियः प्रसादाद्वायोः प्रसादाच्च ममास्ति नित्यम् ॥ ३,६.
यद्यत्करोत्येव सदैव वायुस्तत्तत्करोत्येव सदैव नित्यम् । वायोर्विरोधं न करोति देवः स तद्विरोधं च करोति नित्यम् ॥ ३,६.
हरेर्विरोधं न करोति वायुर्वायोर्विरोधं न करोति विष्णुः । वायोः प्रसादान्मम नास्ति किञ्चिदतानभावश्च तव प्रसादात् ॥ ३,६.
यथैव मूलं च तथावतारे दुःखादिकं नास्ति समीरणस्य । वायुस्तथान्ये च उभौ मुकुन्दस्तथावतारेषु न दुःखरूपौ ॥ ३,६.
अशक्तवद्दृश्यते वायुदेवः युगानुसारांल्लोकधर्मांस्तु रक्षन् । नरावतारे तत्र देवे मुरारे ह्यशक्तता नेति विचिंतनीयम् ॥ ३,६.
अवताररूपे यमदुःखादिकं च न चिन्तनीयं ज्ञानिभिर्देवदेव । अहं कदाचित्सुखनाशप्रदेशे दैत्यांस्तथा मारयितुं गतोस्मि ॥ ३,६.
नैतावता मम वायोश्च नित्यं दुः खातनं नैव संचितनीयम् । एतादृशोहं स्तवनेनु कास्ति शक्तिर्गुणानां मधुसूदन प्रभो । वायोः सकाशाच्च गुणेन हीना संसाररूपे मुक्तरूपे च देव ॥ ३,६.
एवं स्तुत्वा भारती तु तूष्णीमास खगेश्वर । तदनन्तरजः शेषः प्राञ्जलिः प्राह केशवम् ॥ ३,६.
शेष उवाच । नाहं च जाने तव पादमूलं रुद्रो न वेत्ति गरुडो न वेद । अहं वाण्याः शतगुणांशहीनो दत्त्वा ह्यायतनं पाहि मां वासुदेव ॥ ३,६.
एवं स्तुत्वा सशेषस्तु तूष्णीमास खगेश्वर । तदनन्तरजो वीशः स्तोतुं समुपचक्रमे ॥ ३,६.
गरुड उवाच । तव पदोः स्तुतिं किं करोम्यहं मम पदांबुजे ह्यर्पितं मनः । कथमहं मुखे पक्षियोनिजः कथमेवङ्गुणानीडितुं क्षमः ॥ ३,६.
एवं स्तुत्वा तु गरुडस्तूष्णीमास नयान्वितः । तदनन्तरजो रुद्रस्तोतुं समुपचक्रमे ॥ ३,६.
रुद्र उवाच । या वै तवेश भगवन्न विदाम भूमन् भक्तिर्ममास्तु शिवपादसरोजमूले । छन्नापि सा ननु सदा न ममास्ति देव तेनाद्रुहं तव विरुद्धमतः करोमि ॥ ३,६.
सर्वान्न बुद्धिसहितस्य हरे मुरारे का शक्तिरस्ति वचने मम मूढबुद्धेः । वाण्या सदा शतगुणेन विहीनमेनं मां पाहि चेश मम चायतनं च दत्त्वा ॥ ३,६.
एवं स्तुत्वा स रुद्रस्तु तूष्णीमास द्विजोत्तमः । शेषानन्तरजा देवी वारुणी वाक्यमब्रवीत् ॥ ३,६.
वारुण्युवाच । लक्ष्मीपते ब्रह्मपते मनोः पते गिरःपते रुद्रपते नृणां पते । गुणांस्तव स्तोतुमहं समर्था न पार्वती नापि सुपर्णपत्नी ॥ ३,६.
शेषादहं दशगुणैर्विहीना मां पाहि नित्यं जगतामधीश ॥ ३,६.
एवं स्तुत्वा वारुणी तु तूष्णीमास खगेश्वर । तदनन्तरजा ब्राह्मी सौपर्णी ह्युपचक्रमे ॥ ३,६.
सौपर्ण्युवाच । स्तोतुं गुणांस्तव हरे जगदीशवाचा श्रोतुं हरे तव कथां श्रवणे न शक्तिः । यस्तत्त्वनुं स्मरति देव तव स्वरूपं को वै नु वेद भुवि तं भगवत्पदार्थम् ॥ ३,६.
अतो गुणस्तवने नास्ति शक्तिर्वीन्द्रादहं दशगुणैरवरा च नित्यम् ॥ ३,६.
एवं स्तुत्वा तु सौपर्णी तूष्णीमास खगेश्वर । रुद्रानन्तरजा स्तोतुं गिरिजा तूपचक्रमे ॥ ३,६.
पार्वत्युवाच गोविन्द नारायण वासुदेव त्वया हि मे किञ्चिदपि प्रयोजनम् । नास्त्येव स्वामिन्न च नाम वाचा सौभाग्यरूपः सर्वदा एक एव ॥ ३,६.
नारायणेति तव नाम च एकमेव वैराग्यभक्तिविभवे परमं समर्थाम् । असंख्यब्रह्मादिकहत्यनाशाने गुर्वङ्गनाकोटिविनाशने च ॥ ३,६.
नामाधिकारिणी चाहं गुणानां च महाप्रभो । स्तवने नास्ति मे शक्ती रुद्राद्दशगुणैरहम् ॥ ३,६.
अवरा च सदास्म्येव नात्र कार्या विचारणा । एवं स्तुत्वा सा गिरिजास्तूष्णीमास खगेश्वर ॥ ३,६.