श्रीगरुडमहापुराणम् ६ श्रीकृष्ण उवाच । तत्रतत्र स्थितास्तत्त्वे तत्तत्तत्त्वाभिमानिनः । स्वेस्वे ह्यायतने स्वाङ्गे तदर्थं च खगेश्वर ॥ ३,६.
हरिं नारायणं सम्यक्स्तोतुं समुपचक्रिरे । चिन्त्याचिन्त्यगुणे विष्णौ विरुद्धाः संति सद्गुणाः ॥ ३,६.
एकैकशोह्यनन्तास्ते तद्गुणानां स्तुतौ मम । क्व शक्तिरिति बुद्ध्या सा व्रीडयावनताब्रवीत् ॥ ३,६.
श्रीरुवाच । नतास्मि ते नाथ पदारविन्दं न वेद चान्यच्चरणादृते तव । त्वयीश्वरे संति गुणाः श्रुतास्तु तथाश्रुताः संति च देवदेव ॥ ३,६.
सम्यक्सृष्टं स्वायतनं च दत्वा गोविन्द दामोदर मां च पाहि । स्तुत्या मदीयश्च सुखकपूर्णः प्रियो जनो नास्ति तथा त्वदन्यः ॥ ३,६.
ब्रह्मोवाच । लक्ष्मीपते सर्वजगन्निवास त्वं ज्ञानसिंधुः क्व च विश्वमूर्ते । अहं क्व चाज्ञस्तव वै शक्तिरस्ति ह्यज्ञोहं वै ह्यल्पशक्तिर्ममास्ति ॥ ३,६.
लक्ष्म्याश्चैव ज्ञानवैराग्यभक्ति ह्यत्यल्पमद्धा मयि सर्वदैव । तव प्रसादादस्ति जगन्निवास तत्र स्वामित्वं नास्ति विष्णो सदैव ॥ ३,६.
न देहि त्वं सर्वदा मे मुरारे अहंममत्वं प्राप्यमेतावदेव । गम्यज्ञानं योग्यगुणे रमेश प्रमादो वा नास्तिनास्त्यद्य नित्य ॥ ३,६.
तन्मे हृषीकाणि पतन्त्यसत्पथे पदारविन्दे तु पतन्तु सर्वदा । लक्ष्म्या ह्यहं कोटिगुणेन हीनः स्तोतुं सामर्थ्यं नास्ति मे सुप्रसीद ॥ ३,६.
इति स्तवं विष्णुगुणान्विधाता तार्क्ष्यस्थितः प्राञ्जलिस्तस्य चाग्रे । तदा वायुर्देवदेवो महात्मा दृष्ट्वा विष्णु भक्तिसंवर्धितात्मा ॥ ३,६.
स्नहोत्थरावः स्खलिताक्षरस्तं मुञ्चन्कणान्प्राञ्जलिराबभाषे । वायुरुवाच । एते हि देवास्तव भृत्यभूताः पदारविन्दं परमं सुदुर्लभम् ॥ ३,६.
चतुर्विधान्पुरुषार्थान्रमेश संप्रार्थये तच्च सदापि देव । दृष्ट्वा हरेः सैव मायैव तावत्सुकारणं किञ्चिदन्यन्न चास्ति ॥ ३,६.
अतो नाहं प्रदयोपि भूमन् भवत्पदांभोजनिषवणोत्सुकः । लोकस्य कृष्णाद्विमुखस्य कर्मणा अपुण्यशीलस्य सुदुः खितस्य ॥ ३,६.
अनुग्रहार्थं च तवावतारो नान्यश्च किञ्चित्पुरुषार्थस्तवेश । गोभूसुराणां च महीरुहाणां तथा सुराणां प्रवरावतारैः ॥ ३,६.
क्षेमोपकाराणि च वासुदेव क्रीडन्विधत्ते न च किञ्चिदन्यत् । मनो न तृप्यत्यपि शंसतां नः सुकर्ममौलेश्चरितामृतानि ॥ ३,६.
अच्छिन्नभक्तस्य हि मे मुकुन्द सदा भक्तिं देहि पादारविन्दे । सदा तदेवास्तु न किञ्चिदन्यद्यत्र त्वमासीः पुरुषे देवदेव ॥ ३,६.
अहं च तत्रास्मि तव प्रसादाद्यत्रास्म्यहं तत्र भवान्महाप्रभो । व्यंसिर्ममेयं च शरीरमध्ये चतुर्मुखश्चैव न चैततदन्यैः ॥ ३,६.
मदीयनिद्रा तव वन्दनं प्रभो मदीययामाचरणं प्रदक्षिणम् । मदीयव्याख्याहरणं स्तुतिः स्यादेवं विदित्वा च समर्पयामि ॥ ३,६.
मद्वृद्धियोग्यं च पदार्थजातं दृष्ट्वा हरेः प्रतिमा एव तच्च । इत्थं मत्वाहं सर्वदा देवदेव तत्रस्थितान्हरिरूपान् भजिष्ये ॥ ३,६.
यच्चन्दनं यत्तु पुष्पं च धूपं वस्त्रं च यद्भक्ष्यभोज्यादिकं च । एतत्सर्वं विष्णुप्रीत्यर्थमेवेत्येतद्व्रतं सर्वदा वै करिष्ये ॥ ३,६.
अवैष्णवान्दूषयिष्ये सदाहं सद्वैष्णवान्पा(ल्लां)लयिष्ये मुरारे । विष्णुद्रुहां छेदयिष्ये च जिह्वां तच्छृण्वतां पूरयिष्ये त्रपूल्काः ॥ ३,६.
एतादृशी शक्तिर्ममास्ति देव तव प्रसादाद्बलिनोपि विष्णो । अथापि नाहं स्तवने समर्थः लक्ष्म्या ह्यहं कोटिगुणैर्विहीनः ॥ ३,६.
एतत्स्तोत्रं ह्यर्थयेच्चैव या नः तत्र प्रीतिर्ह्यक्षया मे सदा स्यात् । स्तोत्रं ह्येतत्पाठयन्तीह लोके ते वैष्णवास्ते च हरिप्रियाश्च ॥ ३,६.
कुर्वन्ति ये पठनं नित्यमेव समर्पयिष्यति सदा हरौ च । तेषां हरिः प्रीयते केशवोलं हरौ प्रसन्ने किमलभ्यमस्ति ॥ ३,६.
एवं स्तुत्वा वलदेवो महात्मा तूष्णीं स्थितः प्राञ्जलिरग्रतो हरेः । सरस्वत्युवाच । को वा रसज्ञो भगवन्मुरारे हरे गुणस्तवनात्कीर्तनाद्वा ॥ ३,६.
अलंबुद्धिं प्राप्नुयाद्देवदेव ब्रह्मादिभिः सर्वदा स्तूयमान । यः कर्णनाडीं पुरुषस्य यातो भवप्रदां देहरतिं छिनत्ति ॥ ३,६.
न केवलं देहरतिं छिनत्त्यसद्गृहक्षेत्रभार्यासुतेषु नित्यम् । पश्वादिरूपेषु धनादिकेषु अनर्घ्यरत्नेषु प्रियं छिनत्ति ॥ ३,६.
अनंतवेदप्रतिपादितोपि लक्ष्मीर्न वै वेद तव स्वरूपम् । चतुर्मुखो नैव वेद न वायुरसौ न वेत्तीति किमत्र चित्रम् ॥ ३,६.
एतादृशस्य स्तवने क्वास्ति शक्तिर्मम प्रभो ब्रह्मवाय्वोः सकाशात् । शतैर्गुणैः सर्वदा न्यूनतास्ति अतो हरे दयया मां च पाहि ॥ ३,६.
एवं स्तुत्वा हरिं सा तु तूष्णीमास खगेश्वर । भारती तु तदा स्तोतुं हरिं समुपचक्रमे ॥ ३,६.