द्यावा पृथिव्यौ विज्ञेयौ एते च षडशीतयः । देवाः प्रजज्ञिरे सर्वे नासिकद्रियमानिनः ॥ ३,५.
आकाशस्याभिमानी तु गणपः सुदाहृतः । उभयत्राभि मानीति ज्ञेयं तत्त्वार्थवेदिभिः ॥ ३,५.
विष्वक्सेनं विना सर्वे जयाद्या विष्णुपार्षदाः । अभवन्समहीनाश्च विष्वक्सेनादनन्तरम् ॥ ३,५.
एतेपि नासिकायाश्च अवान्तरनियामकाः । अतस्ते तत्त्वमानिभ्यो ह्यवरास्ते प्रकीर्तिताः ॥ ३,५.
स्पर्शतत्त्वाभिमानी तु अपानश्चेत्युदाहृतः । रूपाभिमानी संजज्ञे व्यानो नाम महान्प्रभो ॥ ३,५.
रसात्मक उदानश्च समानो गन्धनामकः । अपां नाथाश्च चत्वारो मरुतः परिकीर्तिताः ॥ ३,५.
जयाद्यनन्तरान्वक्ष्ये समुत्पन्नान्खगेश्वर । प्रधानाग्रे प्रथमजः पावकः समुदाहृतः ॥ ३,५.
भृगोर्महर्षेः पुत्रश्च च्यवनः समुदाहृतः । बृहस्पतेश्च पुत्रस्तु उतथ्यः परिकीर्तितः ॥ ३,५.
रैवतश्चाक्षुषश्चैव तथा स्वारोचिषः स्मृतः । उत्तमो ब्रह्मसावर्णी रुद्रसावर्णिरेव च ॥ ३,५.
देवसावर्णिसावर्णिरिन्द्रसावर्णिरेवच । तथैव दक्षसावर्णिर्धर्मभावर्णिरेव च ॥ ३,५.
एकादशविधा ह्येवं मनवः परिकीर्तिताः । पितॄणां सप्तकं चैवेत्याद्याः संजज्ञिरे खग ॥ ३,५.
तदनन्तरमुत्पन्नास्तेभ्यो नीचाः शृणु द्विज । वरुणस्य पत्नी गङ्गा पर्जन्याख्यो विभावसुः ॥ ३,५.
यमभार्या श्यामला तु ह्यनिरुद्धप्रिया विराट् । ब्रह्माण्डमानिनी सैव ह्युषानाम्ना सुशब्दिता ॥ ३,५.
रोहिणी चन्द्रभार्योक्ता सूर्यभार्या तु संज्ञका । एता गङ्गादिषटूसंख्या जज्ञिरे विनतासुत ॥ ३,५.
गङ्गाद्यनन्तरं जज्ञे स्वाहा वै मन्त्रदेवता । स्वाहानामाग्निभार्योक्ता गङ्गादिभ्योधमा श्रुता ॥ ३,५.
स्वाहानन्तरजो ज्ञेयो ज्ञानात्मा बुधनामकः । बुधस्तु चन्द्रपुत्रो यः स्वाहाया अधमः स्मृतः ॥ ३,५.
उषा नाम तथा जज्ञे बुधस्यानन्तरं खग । उषानामा भिमानी तु ह्यश्विभार्या प्रकीर्तिता ॥ ३,५.
बुधाधमा सा विज्ञेया नात्र कार्या विचारणा । ततः शनैश्चरो जज्ञे पृथिव्यात्मेति विश्रुतः ॥ ३,५.
उषाधमस्तु विज्ञेयस्ततो जज्ञेथ पुष्करः । कर्माभिमानी विज्ञेयः शनैश्चर इतीरितः ॥ ३,५.
तत्त्वाभिमानिनो देवानेवं सृष्ट्वा हरिः स्वयम् । प्रविवेश स देवेशस्तत्त्वेषु रमया सहा ॥ ३,५.
श्रीगरुडमहापुराणम् ६ श्रीकृष्ण उवाच । तत्रतत्र स्थितास्तत्त्वे तत्तत्तत्त्वाभिमानिनः । स्वेस्वे ह्यायतने स्वाङ्गे तदर्थं च खगेश्वर ॥ ३,६.
हरिं नारायणं सम्यक्स्तोतुं समुपचक्रिरे । चिन्त्याचिन्त्यगुणे विष्णौ विरुद्धाः संति सद्गुणाः ॥ ३,६.
एकैकशोह्यनन्तास्ते तद्गुणानां स्तुतौ मम । क्व शक्तिरिति बुद्ध्या सा व्रीडयावनताब्रवीत् ॥ ३,६.
श्रीरुवाच । नतास्मि ते नाथ पदारविन्दं न वेद चान्यच्चरणादृते तव । त्वयीश्वरे संति गुणाः श्रुतास्तु तथाश्रुताः संति च देवदेव ॥ ३,६.
सम्यक्सृष्टं स्वायतनं च दत्वा गोविन्द दामोदर मां च पाहि । स्तुत्या मदीयश्च सुखकपूर्णः प्रियो जनो नास्ति तथा त्वदन्यः ॥ ३,६.
ब्रह्मोवाच । लक्ष्मीपते सर्वजगन्निवास त्वं ज्ञानसिंधुः क्व च विश्वमूर्ते । अहं क्व चाज्ञस्तव वै शक्तिरस्ति ह्यज्ञोहं वै ह्यल्पशक्तिर्ममास्ति ॥ ३,६.
लक्ष्म्याश्चैव ज्ञानवैराग्यभक्ति ह्यत्यल्पमद्धा मयि सर्वदैव । तव प्रसादादस्ति जगन्निवास तत्र स्वामित्वं नास्ति विष्णो सदैव ॥ ३,६.
न देहि त्वं सर्वदा मे मुरारे अहंममत्वं प्राप्यमेतावदेव । गम्यज्ञानं योग्यगुणे रमेश प्रमादो वा नास्तिनास्त्यद्य नित्य ॥ ३,६.
तन्मे हृषीकाणि पतन्त्यसत्पथे पदारविन्दे तु पतन्तु सर्वदा । लक्ष्म्या ह्यहं कोटिगुणेन हीनः स्तोतुं सामर्थ्यं नास्ति मे सुप्रसीद ॥ ३,६.
इति स्तवं विष्णुगुणान्विधाता तार्क्ष्यस्थितः प्राञ्जलिस्तस्य चाग्रे । तदा वायुर्देवदेवो महात्मा दृष्ट्वा विष्णु भक्तिसंवर्धितात्मा ॥ ३,६.