ॐ विश्वावसुर्नाम गन्धर्वः कन्यानामधिपतिर्लभामि ते कन्यां समुत्पाद्य तस्मै विश्ववासवे स्वाहा 41.
ॐ नमो भगवति ऋक्षकर्णि चतुर्भुजे ऊर्द्ध्वकेशि त्रिनयने कालरात्रि मानुषाणां वसारुधिरभोजने अमुकस्य प्राप्तकालस्य मृत्युप्रदे हुं फट् हनहन दहदह मांसरुधिरं पचपच ऋक्षपत्नि स्वाहा । न तिथिर्न च नक्षत्रं नोपवासो विधीयते ।। 41.
क्रुद्धो रक्तेन संमार्ज्य करौ ताभ्यां प्रगृह्य च ॐ नमः सर्वतोयन्त्राण्येतद्यथा जम्भनि मोहनि सर्वशत्रुविदारिणि रक्षरक्ष माममुकं सर्वभयोपद्रवेभ्यः स्वाहा 41.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वश्यादिसाधिकमन्त्रनिरूपणं नामैकचत्वारिंशोऽध्यायः
पवित्रारोपणं वक्ष्ये शिवस्याशिवनाशनम् 42.
संवत्सरकृतां पूजां विघ्नेशो हरतेऽन्यथा 42.
सौवर्णरौप्यताम्रं च सूत्रं कार्पासिकं क्रमात् 42.
त्रिगुणं त्रिगुणीकृत्य ततः कुर्य्यात्पवित्रकम् 42.
अघोरेण तु संशोध्य बद्धस्तत्पुरुषाद्भवेत् 42.
ॐ कारश्चन्द्रमा वह्निर्ब्रह्मा नागः शिखिध्वजः 42.
अष्टोत्तरशतं कुर्य्यात्पञ्चाशत्पञ्चविंशतिम् 42.
चतुरङ्गुलान्तराः स्युर्ग्रन्थिनामानि च क्रमात् 42.
जया च विजया रुद्रा अजिता च सदाशिवा 42.
रञ्जयेत्कुंकुमाद्यैस्तु कुर्य्याद्गन्धैः पवित्रकम् 42.
क्षीरादिभिश्च संस्थाप्य लिङ्गं गन्धादिभिर्यजेत् 42.
पुष्पं गन्धयुतं दद्यान्मूलेनेशानगोचरे 42.
मृत्तिकां पश्चिमे दद्याद्दक्षिणे भस्म भूतयः 42.
वायव्यां सर्षपं दद्यात्कवचेन वृषध्वज 42.
होमं कृत्वाग्नये दत्त्वा दद्याद्भूतबलिं तथा 42.
प्रातस्त्वां पूजयिष्यामि अत्र सन्निहितो भव 42.16 मन्त्रितानि पवित्राणि स्थापयेद्देवपार्श्वतः 42.
ललाटस्थं विश्वरूपं ध्यात्वात्मानं प्रपूजयेत् 42.
संहितामन्त्रितान्येव धूपितानि समर्पयेत् 42.
आत्मतत्त्वात्मकं पश्चाद्देवकाख्यं ततोऽर्चयेत् ॐ हीं(हीः) विद्यातत्त्वाय नमः ।। 42.
ॐ हां (हौः) आत्मतत्त्वाय नमः कालात्मना त्वया देव यदॄष्टं मामके विधौ ।। 42.
कृतं क्लिष्टं समुत्सृष्टं हुतं गुप्तं च यत्कृतम् 42.
पूरयपूरय मखव्रतं तन्नियमेश्वराय सर्वतत्त्वात्मकाय सर्वकारणपालिताय ॐ हां हीं हूं हैं हौं शिवाय नमः ।। 42.
पूर्वैरनेन यो दद्यात्पवित्राणां चतुष्टयम् 42.
बलिं दत्त्वा द्विजान् भोज्य चण्डं प्राच्यै विसर्जयेत् ।। 42.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवपवित्रारोपणं नाम द्विचत्वारिंशोऽध्यायः
पवित्रारोपणं वक्ष्ये भुक्तिमुक्तिप्रदं हरेः 43.