स्वायंभुवमनोर्भार्या शतरूपा यमस्तथा । चन्द्रसूर्यौ तु चत्त्वारश्चक्षुरिन्द्रियमानिनः ॥ ३,५.
चन्द्रः श्रोत्राभिमानीति तथा ज्ञेयः खगेश्वर । जिह्वेन्द्रियात्मा वरुणः सूर्यस्यानन्तरोभवत् ॥ ३,५.
वागिन्द्रियाभिमानिन्यो ह्यभवन्वरुणादनु । दक्षपत्नी प्रसूतिश्च भृगुरग्निस्तर्थव च ॥ ३,५.
तत्र वैते महात्मानो वागिन्द्रियनियामकाः । ये क्रव्यादादयश्चोक्तास्तेनन्तत्त्वनियामकाः ॥ ३,५.
साम्यत्वाच्च तथैवोक्तिर्न तु तत्त्वाभिमानितः । उपस्थमानिनो वीन्द्र बभूवुस्तदनन्तरम् ॥ ३,५.
विश्वामित्रो वसिष्टोत्रिर्मरीचिः पुलहः क्रतुः । पुलस्त्योङ्गिरसश्चैव तथा वैवस्वतो मनुः ॥ ३,५.
मन्वादयोनन्तसंख्या उपस्थात्मान ईरिताः । पायोश्च मानिनो वीन्द्र जज्ञिरे तदनन्तरम् ॥ ३,५.
सूर्येषु द्वादशस्वेको मित्रस्तारा गुरोः प्रिया । कोणाधिपो निरृतिश्च प्रवहप्रिया ॥ ३,५.
चत्त्वार एते पक्षीन्द्र वायुतत्त्वाभिमानिनः । घ्राणाभिमानिनः सर्वे जज्ञिरे द्विजसत्तम ॥ ३,५.
विष्ववसेनो वायुपुत्रौ ह्यश्विनौ गणपस्तथा । वित्तपः सप्त वसव उक्तो ह्याग्निस्तथाष्टमः ॥ ३,५.
सत्यानां शृणु नामानि द्रोणः प्राणो ध्रुवस्तथा । अर्के दोषस्तथा वस्कः सप्तमस्तु विभावसुः ॥ ३,५.
दशरुद्रास्तथा ज्ञेया मूलरुद्रो भवः स्मृतः । दश रुद्रस्य नामानि शृणुष्व द्विजसत्तम ॥ ३,५.
रैवन्तेयस्तथा भीमो वामदेवो वृषाकपिः । अजैकपादहिर्वुध्न्यो बहुरूपो महानिति ॥ ३,५.
दश रुद्रा इति प्रोक्ताः षडादित्याञ्छृणु द्विज । उरुक्रमस्तथा शक्रो विवस्वान्वरुणस्तथा ॥ ३,५.
पर्जन्योतिबाहुरेत उक्ताः पूर्वं द्विजोत्तम । पर्जन्यव्यतिरिक्तास्तु पञ्चैवोक्ता न संशयः ॥ ३,५.
गङ्गासमस्तु पर्जन्य इति चोक्तः खगेश्वर । सविता ह्यर्यमा धाता पूषा त्वष्टा तथा भगः ॥ ३,५.
चत्वारिंशत्तथा सप्त महतः परिकीर्तिताः । द्वावुक्ताविति विज्ञेयो प्रवहोतिवहस्तथा ॥ ३,५.
तथा दशविधा ज्ञेया विश्वेदेवाः खगेश्वर । शृणु नामानि तेषां तु पुरूरवार्द्रवसंज्ञकौ ॥ ३,५.
धूरिलोचनसंज्ञौ द्वौ क्रतुदक्षेतिसंज्ञकौ । द्वौ सत्यवसुसंज्ञौ च कामकालकसंज्ञकौ ॥ ३,५.
एवं दशविधा ज्ञेया विश्वेदेवाः प्रकीर्तिताः । तथा ऋभुगणश्चोक्तस्तथा च पितरस्त्रयः ॥ ३,५.
द्यावा पृथिव्यौ विज्ञेयौ एते च षडशीतयः । देवाः प्रजज्ञिरे सर्वे नासिकद्रियमानिनः ॥ ३,५.
आकाशस्याभिमानी तु गणपः सुदाहृतः । उभयत्राभि मानीति ज्ञेयं तत्त्वार्थवेदिभिः ॥ ३,५.
विष्वक्सेनं विना सर्वे जयाद्या विष्णुपार्षदाः । अभवन्समहीनाश्च विष्वक्सेनादनन्तरम् ॥ ३,५.
एतेपि नासिकायाश्च अवान्तरनियामकाः । अतस्ते तत्त्वमानिभ्यो ह्यवरास्ते प्रकीर्तिताः ॥ ३,५.
स्पर्शतत्त्वाभिमानी तु अपानश्चेत्युदाहृतः । रूपाभिमानी संजज्ञे व्यानो नाम महान्प्रभो ॥ ३,५.
रसात्मक उदानश्च समानो गन्धनामकः । अपां नाथाश्च चत्वारो मरुतः परिकीर्तिताः ॥ ३,५.
जयाद्यनन्तरान्वक्ष्ये समुत्पन्नान्खगेश्वर । प्रधानाग्रे प्रथमजः पावकः समुदाहृतः ॥ ३,५.
भृगोर्महर्षेः पुत्रश्च च्यवनः समुदाहृतः । बृहस्पतेश्च पुत्रस्तु उतथ्यः परिकीर्तितः ॥ ३,५.
रैवतश्चाक्षुषश्चैव तथा स्वारोचिषः स्मृतः । उत्तमो ब्रह्मसावर्णी रुद्रसावर्णिरेव च ॥ ३,५.
देवसावर्णिसावर्णिरिन्द्रसावर्णिरेवच । तथैव दक्षसावर्णिर्धर्मभावर्णिरेव च ॥ ३,५.