शुद्धसत्त्वात्मको देहो ब्रह्मणः परमेष्ठिनः । एवं हि श्रूयते कृष्ण संशयो मेत्र बाधते ॥ ३,४.
तमेवं संशयं छिन्धि यद्धि तच्छ्रोतुमर्हति । श्रीकृष्ण उवाच । त्रिभागभूते रजसि तथा द्वादशधापि च ॥ ३,४.
रजसोपेक्षया सत्त्वं दशांशाधिकमेव च । प्रविष्टमस्तीति खग ज्ञातव्यं तच्छणु द्विज ॥ ३,४.
तमसोपेक्षया सत्त्वं दशांशाधिकमेव वै । प्रविष्टमस्तीति खग वक्तव्यं नात्र संशयः ॥ ३,४.
तमसोपेक्षया तत्र तम एकादशं स्मृतम् । एकांशस्तु रजो ज्ञेयमेवमाहुर्मनीषिणः । एवं च मिलितान्भागान्वक्ष्ये शृणु महामते ॥ ३,४.
महत्तत्त्वसमुत्पत्ता उपादानं खगेश्वर । त्रयोदशांशा विज्ञेया द्वादशाशं रजः स्मृतम् ॥ ३,४.
एकांशस्तमसो ज्ञेयस्तत्र भागाञ्छृणु द्विजा । आदौ तु द्वादशांशेषु भागान्वक्ष्यामि तच्छृणु ॥ ३,४.
एकांशस्तमसो ज्ञेयस्तद्दशां शाधिकं रजः । तच्छतांशाधिकं सत्त्वमेवमाहुर्मनीषिणः ॥ ३,४.
एकांशतमसि ह्येवं विभागाञ्छृणु सत्तम । एकांशस्तु रजो ज्ञेयस्तमो ह्येका दशाधिकम् ॥ ३,४.
तमोभागास्तु विज्ञेयास्तद्दशांशाधिकः स्मृतः । सत्त्वभाग इति ज्ञेयो महत्तत्त्वे खगेश्वर ॥ ३,४.
सत्त्वांशो बहुलो यस्माच्छुद्धसत्त्वं चतुर्मुखः । उत्पत्तिर्महतश्चोक्ता एवं च विनतासुत ॥ ३,४.
तज्ज्ञानान्मोक्षमाप्नोति नान्यथा तु कथञ्चन ॥ ३,४.
श्रीगरुडमहापुराणम् ५ एतादृशे महत्तत्त्वे लक्ष्म्या सह हरिः स्वयम् । प्रविवेश महाभाग क्षोभयामास वै हरिः ॥ ३,५.
अहन्तत्त्वमभूत्तस्माज्ज्ञानद्रव्यक्रियात्मकम् । अहङ्कारसमुत्पत्तावेकांशस्तमसि स्मृतः ॥ ३,५.
तद्दशांशाधिकरजस्तद्दशांशाधिकं प्रभो । सत्त्वमित्युच्यते सद्भिर्ह्येतदात्मा त्वहं स्मृतम् ॥ ३,५.
अहन्तत्त्वाभिमानी तु आदौ शेषो बभूवह । सहस्राब्दाच्च पश्चात्तौ जातौ खगहरौ द्विज ॥ ३,५.
अहन्तत्त्वे खग ह्येषु प्रविष्टो हरिरव्ययः । क्षोभयामास भगवाल्लङ्क्ष्म्या सह हरिः स्वयम् ॥ ३,५.
वैकारिकस्तामसश्च तैजसश्चेत्यहं त्रिधा । त्रिधा बभूव रुद्रोपि यतस्तेषां नियामकः ॥ ३,५.
वैकारिकस्थितो रुद्रो वैकारिक इति स्मृतः । तामसे तु स्थितो रुद्रस्तामसो ह्यभिधीयते ॥ ३,५.
तैजसे तु स्थितो रुद्रो लोके वै तैजसः स्मृतः । तैजसे तु ह्यहन्तत्त्वे लक्ष्म्या सह हरिः स्वयम् ॥ ३,५.
विशित्वा क्षोभयामास तदासौ दशधा त्वभूत् । श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ॥ ३,५.
वाक्पाणिपादं पायुश्च उपस्थेति दश स्मृताः । वैकारिके ह्यहन्तत्त्वे प्रविश्य क्षोभयद्धरिः ॥ ३,५.
महत्तत्त्वादिमा अदाविन्द्रियाणां च देवताः । एकादशविधा आसन्क्रमेण तु खगेश्वर ॥ ३,५.
मनोभिमानि नी ह्यादौ वारुणी त्वभवत्तदा । अनन्तरं च सौपर्णी गौरोजापि तथैव च ॥ ३,५.
शेषादनन्तरास्तासां दशवर्षादनंरम् । उत्पत्तिरिति विज्ञेयं क्रमेण तु खगेश्वर ॥ ३,५.
मनोभिमानिनावन्याविन्द्रकामौ प्रजज्ञतुः । तार्क्ष्य ह्यनन्तरौ ज्ञेयौ मुक्तौ संसार एव च ॥ ३,५.
ततस्त्वगात्मा ह्यभवत्सोहं कारिक ईरितः । ततः पाण्यात्मकाश्चैव जज्ञिरे पक्षिसत्तम ॥ ३,५.
शची रतिश्चानिरुद्धस्तथा स्वायंभुवो मनुः । बृहस्पतिस्तथा दक्ष एते पाण्यात्मकाः स्मृताः ॥ ३,५.
दक्षस्यानन्तरं जज्ञे प्रवाहो नाम चाण्डज । स एवोक्तश्चातिंवाहो यापयत्यात्मचोदितः ॥ ३,५.
हस्तादनन्तरं ज्ञेयो न तु शच्यादिवत्स्मृतः । ततोभवन्महाभाग चक्षुरिद्रियमात्मनः ॥ ३,५.