चतुर्भागात्समुत्पन्नं महत्तत्त्वमिति प्रभो । तत्रैकांशस्तमः प्रोक्तः त्रिभागो रज एव च ॥ ३,४.
तदाहुर्ब्रह्मणो रूपं गुणवैषम्यनामकम् । चतुर्भागात्मकं प्रोक्तं महत्तत्त्वं श्रुतं मया ॥ ३,४.
त्रयोदशांशैः संभूतमिति प्रोक्तं त्वयानघ । तदेतत्संशयं छिन्धि कृपालो भक्तवत्सल ॥ ३,४.
श्रीकृष्ण उवाच । ब्रह्मोक्तम्य मयोक्तस्य विवादो नास्ति सर्वथा । मूलसत्त्वे मिश्रितं च दशभागेन यद्रजः ॥ ३,४.
तत्सर्वं च मिलित्वैव त्वेको भागस्तु कीर्तितः । मूले रजसि यच्चोक्तो रजोभागः खगेश्वर ॥ ३,४.
भागे द्वितीये विज्ञेयस्तद्रजो नात्र संशयः । मूले तमसि यच्चोक्तो रजोभागस्तथैव च ॥ ३,४.
तृतीयभागो विज्ञेयो नात्र कार्या विचारणा । तथा मूले च तमसि ह्येको भागस्तमः स्मृतः ॥ ३,४.
एवं त्रिभागो रजसः एकांशस्तमसः स्मृतः । तदाहुर्ब्रह्मणो देहं गुणवैषम्यनामकम् ॥ ३,४.
गरुड उवाच । महत्तत्त्वस्य चत्वारो भागास्तेषु रजस्त्रयः । तमसस्त्वेक एवेति त्वयोक्तं गरुडध्वज ॥ ३,४.
रजोभागात्मको देहोः ब्रह्मणः परमेष्ठिनः । इति प्रतीयते ब्रह्मन्वचनात्तव माधव ॥ ३,४.
शुद्धसत्त्वात्मको देहो ब्रह्मणः परमेष्ठिनः । एवं हि श्रूयते कृष्ण संशयो मेत्र बाधते ॥ ३,४.
तमेवं संशयं छिन्धि यद्धि तच्छ्रोतुमर्हति । श्रीकृष्ण उवाच । त्रिभागभूते रजसि तथा द्वादशधापि च ॥ ३,४.
रजसोपेक्षया सत्त्वं दशांशाधिकमेव च । प्रविष्टमस्तीति खग ज्ञातव्यं तच्छणु द्विज ॥ ३,४.
तमसोपेक्षया सत्त्वं दशांशाधिकमेव वै । प्रविष्टमस्तीति खग वक्तव्यं नात्र संशयः ॥ ३,४.
तमसोपेक्षया तत्र तम एकादशं स्मृतम् । एकांशस्तु रजो ज्ञेयमेवमाहुर्मनीषिणः । एवं च मिलितान्भागान्वक्ष्ये शृणु महामते ॥ ३,४.
महत्तत्त्वसमुत्पत्ता उपादानं खगेश्वर । त्रयोदशांशा विज्ञेया द्वादशाशं रजः स्मृतम् ॥ ३,४.
एकांशस्तमसो ज्ञेयस्तत्र भागाञ्छृणु द्विजा । आदौ तु द्वादशांशेषु भागान्वक्ष्यामि तच्छृणु ॥ ३,४.
एकांशस्तमसो ज्ञेयस्तद्दशां शाधिकं रजः । तच्छतांशाधिकं सत्त्वमेवमाहुर्मनीषिणः ॥ ३,४.
एकांशतमसि ह्येवं विभागाञ्छृणु सत्तम । एकांशस्तु रजो ज्ञेयस्तमो ह्येका दशाधिकम् ॥ ३,४.
तमोभागास्तु विज्ञेयास्तद्दशांशाधिकः स्मृतः । सत्त्वभाग इति ज्ञेयो महत्तत्त्वे खगेश्वर ॥ ३,४.
सत्त्वांशो बहुलो यस्माच्छुद्धसत्त्वं चतुर्मुखः । उत्पत्तिर्महतश्चोक्ता एवं च विनतासुत ॥ ३,४.
तज्ज्ञानान्मोक्षमाप्नोति नान्यथा तु कथञ्चन ॥ ३,४.
श्रीगरुडमहापुराणम् ५ एतादृशे महत्तत्त्वे लक्ष्म्या सह हरिः स्वयम् । प्रविवेश महाभाग क्षोभयामास वै हरिः ॥ ३,५.
अहन्तत्त्वमभूत्तस्माज्ज्ञानद्रव्यक्रियात्मकम् । अहङ्कारसमुत्पत्तावेकांशस्तमसि स्मृतः ॥ ३,५.
तद्दशांशाधिकरजस्तद्दशांशाधिकं प्रभो । सत्त्वमित्युच्यते सद्भिर्ह्येतदात्मा त्वहं स्मृतम् ॥ ३,५.
अहन्तत्त्वाभिमानी तु आदौ शेषो बभूवह । सहस्राब्दाच्च पश्चात्तौ जातौ खगहरौ द्विज ॥ ३,५.
अहन्तत्त्वे खग ह्येषु प्रविष्टो हरिरव्ययः । क्षोभयामास भगवाल्लङ्क्ष्म्या सह हरिः स्वयम् ॥ ३,५.
वैकारिकस्तामसश्च तैजसश्चेत्यहं त्रिधा । त्रिधा बभूव रुद्रोपि यतस्तेषां नियामकः ॥ ३,५.
वैकारिकस्थितो रुद्रो वैकारिक इति स्मृतः । तामसे तु स्थितो रुद्रस्तामसो ह्यभिधीयते ॥ ३,५.
तैजसे तु स्थितो रुद्रो लोके वै तैजसः स्मृतः । तैजसे तु ह्यहन्तत्त्वे लक्ष्म्या सह हरिः स्वयम् ॥ ३,५.