अन्यथा ये विजानन्ति ते यान्ति ह्यधरं तमः । गरुड उवाच । राशीकृतगुणानां च त्रयाणां परमेश्वर ॥ ३,४.
विशालानां परं ब्रह्मन्प्रलये गुणसाम्यता । कथं ब्रूहि महाभाग एतत्तत्त्वं समासतः ॥ ३,४.
श्रीकृष्ण उवाच । राशीभूतगुणानां तु त्रयणामपि सत्तम । तदा विमिश्रितत्वेन ह्यवस्थानं विदुर्बुधाः ॥ ३,४.
इदानीं गुणवैषम्यं शृणु सम्यङ्मम प्रिय । सृष्टिकाले तु संप्राप्ते यत्पूर्वं प्रलये खग ॥ ३,४.
दशभागैश्च सत्त्वे तु मिश्रितं यद्र जस्तथा । तमस्यप्येकभागेन प्रविष्टं यत्तु तद्रजः ॥ ३,४.
रजस्यप्येकभागेन प्रविष्टं यच्च तद्रजः । एवं द्वादशभागैश्च प्रविष्टं सर्वशो रजः ॥ ३,४.
सत्त्वस्तैर्दशभागैश्च तथैकेन रजोंशिना । एवमेकादशैर्भागैस्तमस्थांशेन वै व्दिज ॥ ३,४.
मिश्रितं भवति ह्यद्धा महत्तत्त्वं तदा स्मृतम् । एतदन्यो विशेषश्च मन्तध्यो विनतासुत ॥ ३,४.
एकांशस्तामसो ज्ञेयो महत्तत्त्वे न संशयः । एवं त्रयोदशैर्भागैर्मिश्रितं तच्च सत्तम ॥ ३,४.
एवमेतद्विजानीयान्नान्यथा तु कथञ्चन । गरुड उवाच । चतुर्मुखाच्छ्रुतं पूर्वं भगवन्सात्त्वतां पते ॥ ३,४.
चतुर्भागात्समुत्पन्नं महत्तत्त्वमिति प्रभो । तत्रैकांशस्तमः प्रोक्तः त्रिभागो रज एव च ॥ ३,४.
तदाहुर्ब्रह्मणो रूपं गुणवैषम्यनामकम् । चतुर्भागात्मकं प्रोक्तं महत्तत्त्वं श्रुतं मया ॥ ३,४.
त्रयोदशांशैः संभूतमिति प्रोक्तं त्वयानघ । तदेतत्संशयं छिन्धि कृपालो भक्तवत्सल ॥ ३,४.
श्रीकृष्ण उवाच । ब्रह्मोक्तम्य मयोक्तस्य विवादो नास्ति सर्वथा । मूलसत्त्वे मिश्रितं च दशभागेन यद्रजः ॥ ३,४.
तत्सर्वं च मिलित्वैव त्वेको भागस्तु कीर्तितः । मूले रजसि यच्चोक्तो रजोभागः खगेश्वर ॥ ३,४.
भागे द्वितीये विज्ञेयस्तद्रजो नात्र संशयः । मूले तमसि यच्चोक्तो रजोभागस्तथैव च ॥ ३,४.
तृतीयभागो विज्ञेयो नात्र कार्या विचारणा । तथा मूले च तमसि ह्येको भागस्तमः स्मृतः ॥ ३,४.
एवं त्रिभागो रजसः एकांशस्तमसः स्मृतः । तदाहुर्ब्रह्मणो देहं गुणवैषम्यनामकम् ॥ ३,४.
गरुड उवाच । महत्तत्त्वस्य चत्वारो भागास्तेषु रजस्त्रयः । तमसस्त्वेक एवेति त्वयोक्तं गरुडध्वज ॥ ३,४.
रजोभागात्मको देहोः ब्रह्मणः परमेष्ठिनः । इति प्रतीयते ब्रह्मन्वचनात्तव माधव ॥ ३,४.
शुद्धसत्त्वात्मको देहो ब्रह्मणः परमेष्ठिनः । एवं हि श्रूयते कृष्ण संशयो मेत्र बाधते ॥ ३,४.
तमेवं संशयं छिन्धि यद्धि तच्छ्रोतुमर्हति । श्रीकृष्ण उवाच । त्रिभागभूते रजसि तथा द्वादशधापि च ॥ ३,४.
रजसोपेक्षया सत्त्वं दशांशाधिकमेव च । प्रविष्टमस्तीति खग ज्ञातव्यं तच्छणु द्विज ॥ ३,४.
तमसोपेक्षया सत्त्वं दशांशाधिकमेव वै । प्रविष्टमस्तीति खग वक्तव्यं नात्र संशयः ॥ ३,४.
तमसोपेक्षया तत्र तम एकादशं स्मृतम् । एकांशस्तु रजो ज्ञेयमेवमाहुर्मनीषिणः । एवं च मिलितान्भागान्वक्ष्ये शृणु महामते ॥ ३,४.
महत्तत्त्वसमुत्पत्ता उपादानं खगेश्वर । त्रयोदशांशा विज्ञेया द्वादशाशं रजः स्मृतम् ॥ ३,४.
एकांशस्तमसो ज्ञेयस्तत्र भागाञ्छृणु द्विजा । आदौ तु द्वादशांशेषु भागान्वक्ष्यामि तच्छृणु ॥ ३,४.
एकांशस्तमसो ज्ञेयस्तद्दशां शाधिकं रजः । तच्छतांशाधिकं सत्त्वमेवमाहुर्मनीषिणः ॥ ३,४.
एकांशतमसि ह्येवं विभागाञ्छृणु सत्तम । एकांशस्तु रजो ज्ञेयस्तमो ह्येका दशाधिकम् ॥ ३,४.
तमोभागास्तु विज्ञेयास्तद्दशांशाधिकः स्मृतः । सत्त्वभाग इति ज्ञेयो महत्तत्त्वे खगेश्वर ॥ ३,४.