अपिक्षितं च तत्रादौ गुणसाम्यं न संशयः । सम्यग्ज्ञापयितुं तत्र खादौ तावत्स्वगेश्वर ॥ ३,४.
राशिभूतं गुणानां तु दर्शयिष्ये स्थितिं च वै । राशीभूतस्य तसमः सकाशाद्विनतासुत ॥ ३,४.
राशीभूतं रजो ज्ञेयन्द्विगुणं तत्तु नान्यथा । राशीभूतस्य रजसः सकाशाद्विनतासुत ॥ ३,४.
राशीभूतं तथा सत्त्वं द्विगुणं समुदाहृतम् । मूलप्रकृतिजा ह्येते न मूला प्रकृतिः स्मृता ॥ ३,४.
यतः प्रकृतिरूपाणां परिच्छेदो न विद्यते । अतः प्रकृतिजा ज्ञेया न मूलास्ते खगेश्वर ॥ ३,४.
एवं तव गुणानाञ्च परिमाणं खगेश्वर । उक्तं स्वरूपं तेषां तु तव सम्यक्खगेश्वर ॥ ३,४.
तत्र राशित्रये सत्त्वं केवलं समुदाहृतम् । रजस्तमोभ्यां गरुड ह्यविमिश्रं ह्यतस्तु तत् ॥ ३,४.
केवलं सत्त्वमित्युक्तं न तु श्रेष्ठत्वतः प्रभो । सृष्टिकाले केवलं स्यात्प्रलये मिश्रितं भवेत् ॥ ३,४.
सर्वदाप्यविमिश्रं च सत्त्वराशिं खगेश्वर । सर्वदापि विमिश्रं च सत्त्वराशिं द्विजोत्तम ॥ ३,४.
ये विजानन्ति ते सर्वे विशन्ति ह्यधरं तमः । रजस्तमोगुणौ वीन्द्र इतराभ्यां विमिश्रितौ ॥ ३,४.
सृष्टौ प्रलयकालेपि मिश्रावेव खगेश्वर । राशिभूतेपि रजसि रजोभागाच्छताधिकम् ॥ ३,४.
सत्त्वं च मिश्रितं ज्ञेयं नान्यथा पक्षिसत्तम । रजसः शतभागानां मध्ये तु विनतासुत ॥ ३,४.
य एको भाग उद्दिष्टस्तावत्परिमितं तमः । राशिभूतेपि रजसि मिश्रितं परिकीर्तितम् ॥ ३,४.
रजोराशिस्थितिस्त्वेवं तात व्याप्तं तमोगुणैः । राशिभूतेपि तमसि सत्त्वं च विनतासुत ॥ ३,४.
तमः सकाशाद्गरुड दशभागाधिकेन च । मिश्रितं भवतीत्येवं ज्ञातव्यं नात्र संशयः ॥ ३,४.
तमसो दशभागानां मध्ये तु विनतासुत । य एको भाग उद्दिष्टस्तावत्परिमितं रजः ॥ ३,४.
राशिभूतेपि तमसि मिश्रितं भवति ध्रुवम् । तमोराशिस्थितिस्त्वेवं ज्ञातव्या पक्षिसत्तम ॥ ३,४.
गरुड उवाच । रशिभूतेपि रजसि राशिभूते तमस्यपि । सत्त्वांशा ह्यधिकाः संतीत्येवमुक्तं मयानघ ॥ ३,४.
तत्र मे संशयो ह्यस्ति शृणु त्वं सात्त्वतां पते । यद्राश्यां यद्रा शिभागा ह्यधिकाः संति यावता ॥ ३,४.
तावता व्यवहारः स्यात्क्षीरनीरमिव प्रभो । श्रुत्वा स गरुडेनोक्तं भगवान्पुरुषोत्तमः ॥ ३,४.
उवाच पर मप्रीत्या संस्तुवन् गरुडं हरिः । श्रीकृष्ण उवाच । रजोराश्या तमोराश्या सत्त्वराश्यधिका सदा ॥ ३,४.
मिश्रितं चापि पक्षीन्द्र न सत्तवमिति कीर्त्यते । रजोराशिस्तमोराशिरित्येवं विबुधा विदुः ॥ ३,४.
विषं तु चरुदुग्धस्थं विषमित्युच्यते यथा । एवं मयोक्ता गरुड गुणानां निजसंस्थितिः ॥ ३,४.
साम्यावस्थां गुणानां च शृण्विदानीं खगेश्वर । राशीकृताच्च रजसः जन्यं यच्च कगेश्वर ॥ ३,४.
महत्तत्त्वे प्रविष्टं च यद्रजः परिकीर्तितम् । प्रलये समनुप्राप्ते महत्तत्त्वे स्थितं रजः ॥ ३,४.
द्वादशांशेन तु ह्यद्धा विभक्तं भवतिं प्रभो । राशीभूते हि सत्त्वे तु दशभागेन मिश्रितम् ॥ ३,४.
सम्यक्भवति पक्षीन्द्र तथैकांशेन चाण्डज । तमोराश्या मिश्रितं च भवत्येव न संशयः ॥ ३,४.
अन्येनैकेन भागेन रजोराश्या खगेश्वर । मिश्रितं भवतीत्येवं ज्ञातव्यं नान्यथा क्वचित् ॥ ३,४.
गुणत्रयेपि भगवान्महत्तत्त्वस्य चाण्डज । एवं लयस्तु ज्ञातव्यो हृदि तत्त्वार्थवोदिभिः ॥ ३,४.
एवं गुणत्रयाणां च मिश्रितत्त्वात्खगेश्वर । गुणसाम्यमिति प्राहुरेवं जानीहि वै खग ॥ ३,४.