आद्यो ब्रह्मा स विज्ञेयो न तु साक्षाद्धरिः स्वयम् । तमसापि समान्हन्तुं रुद्रे च प्राविशद्धरिः ॥ ३,४.
रुद्रे स्थितो रुद्रसंज्ञो न रुद्रस्तु हरिः स्वयम् । विष्णुरेव हरिः साक्षात्तावुभौन हरी स्मृतौ ॥ ३,४.
आविष्टरूपौ विज्ञेयौ ब्रह्मरुद्राभिधायकौ । एवं ज्ञात्वा मोक्षमेति नान्यथा तु कथञ्चन ॥ ३,४.
विष्णुब्रह्मादिरूपाणामैक्यं जानन्ति ये द्विजाः । ते यान्ति नरकं घोरं पुनरावृत्तिवर्जितम् ॥ ३,४.
गुणत्रयं प्रविष्टस्तु पुरुषो हरिरव्ययः । कार्योन्मुखं यथा भूयात्क्षोभयामास वै तथा ॥ ३,४.
जातक्षोभाद्भगवतो महानासीद्गुणत्रयात् । गुणत्रये विद्यमानाद्भागादेव न संशयः ॥ ३,४.
महतो ब्रह्मवायू च जज्ञाते खाभिमानिनौ । तस्य संवत्सरात्पश्चाद्यमलौ संबभूवतुः ॥ ३,४.
रजः प्रधानं यत्तत्वं महत्तत्तवमितीरितम् । सर्गं त्विमं विजानीयाद्गुणवैषम्यनामकम् ॥ ३,४.
गरुड उवाच । महत्तत्तवस्वरूपस्य ज्ञानार्थं देवकीसुत । त्वयोक्ता गुणवैषम्यनामिका सृष्टिरुत्तमा ॥ ३,४.
गुणवैषम्यशब्दार्थं मम ब्रूहि महाप्रभो । श्रीकृष्ण उवाच । गुणवैषम्यशब्दार्थज्ञापनाय खगेश्वर ॥ ३,४.
अपिक्षितं च तत्रादौ गुणसाम्यं न संशयः । सम्यग्ज्ञापयितुं तत्र खादौ तावत्स्वगेश्वर ॥ ३,४.
राशिभूतं गुणानां तु दर्शयिष्ये स्थितिं च वै । राशीभूतस्य तसमः सकाशाद्विनतासुत ॥ ३,४.
राशीभूतं रजो ज्ञेयन्द्विगुणं तत्तु नान्यथा । राशीभूतस्य रजसः सकाशाद्विनतासुत ॥ ३,४.
राशीभूतं तथा सत्त्वं द्विगुणं समुदाहृतम् । मूलप्रकृतिजा ह्येते न मूला प्रकृतिः स्मृता ॥ ३,४.
यतः प्रकृतिरूपाणां परिच्छेदो न विद्यते । अतः प्रकृतिजा ज्ञेया न मूलास्ते खगेश्वर ॥ ३,४.
एवं तव गुणानाञ्च परिमाणं खगेश्वर । उक्तं स्वरूपं तेषां तु तव सम्यक्खगेश्वर ॥ ३,४.
तत्र राशित्रये सत्त्वं केवलं समुदाहृतम् । रजस्तमोभ्यां गरुड ह्यविमिश्रं ह्यतस्तु तत् ॥ ३,४.
केवलं सत्त्वमित्युक्तं न तु श्रेष्ठत्वतः प्रभो । सृष्टिकाले केवलं स्यात्प्रलये मिश्रितं भवेत् ॥ ३,४.
सर्वदाप्यविमिश्रं च सत्त्वराशिं खगेश्वर । सर्वदापि विमिश्रं च सत्त्वराशिं द्विजोत्तम ॥ ३,४.
ये विजानन्ति ते सर्वे विशन्ति ह्यधरं तमः । रजस्तमोगुणौ वीन्द्र इतराभ्यां विमिश्रितौ ॥ ३,४.
सृष्टौ प्रलयकालेपि मिश्रावेव खगेश्वर । राशिभूतेपि रजसि रजोभागाच्छताधिकम् ॥ ३,४.
सत्त्वं च मिश्रितं ज्ञेयं नान्यथा पक्षिसत्तम । रजसः शतभागानां मध्ये तु विनतासुत ॥ ३,४.
य एको भाग उद्दिष्टस्तावत्परिमितं तमः । राशिभूतेपि रजसि मिश्रितं परिकीर्तितम् ॥ ३,४.
रजोराशिस्थितिस्त्वेवं तात व्याप्तं तमोगुणैः । राशिभूतेपि तमसि सत्त्वं च विनतासुत ॥ ३,४.
तमः सकाशाद्गरुड दशभागाधिकेन च । मिश्रितं भवतीत्येवं ज्ञातव्यं नात्र संशयः ॥ ३,४.
तमसो दशभागानां मध्ये तु विनतासुत । य एको भाग उद्दिष्टस्तावत्परिमितं रजः ॥ ३,४.
राशिभूतेपि तमसि मिश्रितं भवति ध्रुवम् । तमोराशिस्थितिस्त्वेवं ज्ञातव्या पक्षिसत्तम ॥ ३,४.
गरुड उवाच । रशिभूतेपि रजसि राशिभूते तमस्यपि । सत्त्वांशा ह्यधिकाः संतीत्येवमुक्तं मयानघ ॥ ३,४.
तत्र मे संशयो ह्यस्ति शृणु त्वं सात्त्वतां पते । यद्राश्यां यद्रा शिभागा ह्यधिकाः संति यावता ॥ ३,४.
तावता व्यवहारः स्यात्क्षीरनीरमिव प्रभो । श्रुत्वा स गरुडेनोक्तं भगवान्पुरुषोत्तमः ॥ ३,४.