विरुद्धयोश्चानयोः सर्वदैव कथं चैक्यं संवादिष्यन्ति वेदाः । देशे काले सर्वदा द्दुः खहीनो जगत्कर्ता पूर्णशक्तिः सदैव ॥ ३,३.
जीवः सदा स्वल्पकर्तास्ति पूर्णः संसाररूपे दुः खरूपे च नित्यम् । विरुद्धयोश्चानयोरैक्यमाहुरीशस्य मायावशतो मायिनश्च ॥ ३,३.
ये वैष्णवा वैष्णवदासवश्यास्तेषां द्रोहं सर्वदा संचरेद्यः । हरिप्रीतिस्तेन भवेन्न नित्यमानन्दवृद्धिस्तेन भवेन्न मुक्तौ ॥ ३,३.
मायी सदा मायिभृत्यस्तथापि भेदज्ञानान्निन्द्यते कार्यते च । तेनापि तेषां दुः खवृद्धिर्भवेच्च ह्यधं तमः पुनरावृत्तिहीनम् ॥ ३,३.
खगेन्द्रातः प्रकृतिः सूक्ष्मरूपा सा नित्या सा सत्यभूता सदैव । एवं स्वयं कालवाय्वादिकानां परा (रमा)णवः सत्यरूपाश्च सन्ति ॥ ३,३.
परा (माणू)नां लक्षणं वेदितव्यं ज्ञानेच्छुभिर्नान्यथा वेदितव्यम् । पदार्थानां पार्थिवानां खगेन्द्र विशेषाणां चरमाख्यो विशेषः ॥ ३,३.
स एवः स्यात्परमाणुर्द्विजेन्द्र योन्त्योवि (व) शेषोवयवश्च स स्मृतः ॥ ३,३.
गरुड उवाच । हे कृष्ण हे माधव सात्त्वतां पते पदार्थानां चरमांशः पराणु ॥ ३,३.
इति प्रोक्तं तत्र मे संशयोस्ति योन्त्यो विशेषः स तु नांशयुक्तः । यो ह्यंशयुक्तो न तु सोंत्यो विशेष एवं ममाभाति वचस्तु तथ्यम् ॥ ३,३.
श्रीकृष्ण उवाच । य एव लोके संस्थिता मानुषास्तु विशेषाणां दर्शने शक्तियुक्ताः । तथापि ते यस्य चांशित्वमेव विशेषं वै नैव द्रष्टुं समर्थाः ॥ ३,३.
तमेवाहुश्चरमांशं विशेषं ये चैवमाहुर्मुनयस्तेन चान्ये । ये काणादा गौतमाद्याः खगेन्द्र निरंशकं परमाणुं वदन्ति ॥ ३,३.
अनन्तांशैः संयुतत्वेपि तांश्च निरंशिनो भ्रान्तिदृष्ट्या वदन्ति । तस्मात्परा (रमा) णोः परमाणुत्वमस्ति तदंशानां विनतागर्भजात ॥ ३,३.
परा (रमा) णूनामेकदेशे खगेन्द्र तन्नो संति प्राणिनां राशयश्च । प्रत्येकश संति रूपा हरेश्च ह्यतश्च तत्परमाणोरणीयः ॥ ३,३.
यो वा त्वणीयान्परमस्य विष्णोः स एव रूपो महतो महीयान् । तेषामन्योन्यं न विशेषोस्ति कश्चिदचिन्त्यरूपे च विचिन्तनीयः ॥ ३,३.
कालकोटिविहीनत्वं कालानन्त्यं विदुर्बुधाः । देशकोटिविहीनत्वं देशानन्त्यं विदुर्बुधाः ॥ ३,३.
गुणानामप्रमेयत्वे गुणानन्त्यं विदुर्बुधाः । आनन्त्यं त्रिविधं नित्यं हरेर्नान्यस्य कस्यचित् ॥ ३,३.
तस्य सर्वस्वरूपेषु चानन्त्यं तु त्रिलक्षणम् । तथापि देशतस्तस्य परिच्छेदोपि युज्यते ॥ ३,३.
परिच्छेदस्तथा व्याप्तेरेकरूपेपि युज्यते । तस्याचिन्त्याद्भुतैश्वर्यं व्यवहारार्थमेव च ॥ ३,३.
गुणतः कालतश्चैव परिच्छेदो न कुत्रचित् । व्याप्तत्वं देशतो ह्यस्ति सर्वभूतेषु यद्यापि ॥ ३,३.
न च भेदः क्वचित्तस्य ह्यणुमात्रेपि युज्यते । तथापि विद्यतेणुत्वं तस्मादैश्वर्ययोगतः ॥ ३,३.
तस्माद्विद्ध्यवतारार्थं व्याप्तत्वं चापि भण्यते । यत्तस्य व्यापकं रूपं परं नारायणं विदुः ॥ ३,३.
अतश्च परमाणूनां पार्थिवाऽनन्त्यवादिनाम् । भेदः परस्परं ज्ञेयस्तथेशस्य महात्मनः ॥ ३,३.
जडेशयोर्जडानां च जीवानां च परस्परम् । तथैव जडजीवानां नित्यं भेदो जडेशयोः ॥ ३,३.
पञ्च भेदा इमे नित्यं सर्वावस्थासु सर्वशः । एतादृश्यां तु मायायां वीर्यमाधत्त वीर्यवान् ॥ ३,३.
पुरुषाख्यो हरिस्तस्मात्त्रिगुणानसृजत्प्रभुः ॥ ३,३.
श्रीगरुडमहापुराणम् ४ श्रीकृष्ण उवाच । यथा ससर्ज भगवांस्त्रीन् गुणान्प्रकृतेस्तदा । लक्ष्मीस्त्रिरूपा संभूता श्रीर्भूर्दुर्गोति संज्ञिता ॥ ३,४.
सत्त्वाभिमानिनी श्रीस्तु भूर्देवी रजमानिनी । तमोभिमानिनी दुर्गा ह्येवमाहुर्मनीषिणः ॥ ३,४.
अन्तरं न विजानीयाद्रूपाणां च परस्परम् । गुणानां चैव संबन्धाद्दुर्गादीनां खगेश्वर ॥ ३,४.
अन्तरं ये विजानन्ति ते यान्त्यन्धन्तमः परम् । पुरुषस्तु त्रिरूपोभूद्विष्णुर्ब्रह्मा भवेतिसः ॥ ३,४.
सत्त्वेन लोकान्वर्धयितुं विष्णुः साक्षाद्धरिः स्वयम् । सृष्टिं कर्तुं च रजसा ब्रह्मणि प्राविशद्धरिः ॥ ३,४.