भिन्नं तदाहुः प्राकृतमेव चाहुः स्वनाभिपद्मादिकवच्च बोध्यम् । नैतावता ज्ञानरूपस्य विष्णोर्न वीर्यहानिरिति चिन्तनीयम् ॥ ३,३.
वीर्यस्वरूपी भगवान्वा सुदेवः सर्वत्र देशेपि च सर्वकाले । सर्वार्थवान्यदि न स्यात्खगेन्द्र तर्हीश्वरः पुरुषो नैव स स्यात् ॥ ३,३.
अचिन्त्यवीर्यैश्चिन्त्यवीर्यैर्द्विरूपः स्त्रीरूपमेकं पुरुषं तथा परम् । उभे रूपे वीर्यवती खगेन्द्र तयोरभेदश्चिन्तनीयो हि सम्यकू ॥ ३,३.
स्त्रीरूपवान्यदि न स्यात्खर्गेद्रस्त्रीणां कथं प्रतिबिंबत्वमेव ॥ ३,३.
स्त्रीरूपमस्माद्ब्रह्मजं (द्वास्तवं) चिन्तनीयं स्वरूपमेतन्नान्यथा चिन्तनीयम् । स्त्रीरूपवन्नैव विचिन्तनीयं नपुंसकं त्बस्य जन्यं हि विद्धि ॥ ३,३.
नपुंसकं नवैव स्वरूपभूतमतो हरौ नास्ति विचिन्तनीयम् । स्त्रीबिंबभूते हरिरूपे खगेन्द्र श्रीरूपमस्तीति विचिन्तनीयम् ॥ ३,३.
गरुड उवाच । स्त्रिया स्त्रियश्च संयोगं व्यर्थमहुर्मनीषिणः । स्त्रीरूपभूते विंबे तु स्त्रीरूपाः सन्ति सर्वदा ॥ ३,३.
स्थितौ तत्र निमित्तं च ब्रूहि कृष्ण मम प्रभो ॥ ३,३.
श्रीकृष्ण उवाच । स्त्रीबिंबभूतस्त्रीरूपे लक्ष्मीर्न स्यात्खगेश्वर । नित्यावियोगिनी देवी कथं स्यात्परमात्मनः ॥ ३,३.
हरेरनन्तरूपाणां स्त्रीरूपाणां खगेश्वर । अनन्तानन्तरूपेण नित्यं शुश्रूषणे रता ॥ ३,३.
अतो लक्ष्म्या वियोगस्तु शङ्कनीयः कथञ्चन । नारायणो नाम हरिः स्वतन्त्रः श्रिया विना नास्ति कदापि तार्क्ष्य । हरेर्मुकुन्दस्य पदारविन्दे शुश्रूषमाणा परमादरेण ॥ ३,३.
हरिं विना श्रीरपि देशकाले नास्तीति मोक्षेच्छुभिरेव वेद्यम् । यस्यामधाद्वीर्यमनुक्षणं च सा मामिका चेन्द्रजाला त्मिकेति ॥ ३,३.
वदन्ति ये असुरा मूढरूपा अधंमतः प्रविशन्त्येव सर्वे । माया नाम प्रकृतिस्त्वेमाहुः सुसूक्ष्मरूपा न तु चेन्द्रजालिका ॥ ३,३.
तस्याभिमानः श्रीरिति वेदितव्यो वीर्याधानं तत्र तेषां च मेलः । कार्योन्मुखं मेलनं चाहुरार्या इतो रूपं नाहुराय्याश्च विष्णोः ॥ ३,३.
सानादि नित्या सत्यरूपा च विष्णोर्मिथ्या रूपा सा कथं स्यात्खगेन्द्र । सत्या तनुः प्रकृतेस्तन्निगूढा सत्यत्वमाहुर्व्यवहारार्थरूपम् ॥ ३,३.
व्यवहाररूपा सत्यता चेत्प्रकृत्यास्तदा कथं स्याद्यदनादिभूता । अनादिनित्या यदि न स्यात्खगेन्द्र सुशूक्ष्मरूपेण न कारणं स्यात् ॥ ३,३.
सूक्ष्मेण रूपेण च कारणं स्यात्तर्हि प्रपञ्चस्य च कारणं वद । अविद्याया वशतो विष्णुरेव नानारूपैर्दृश्यते विष्णुरेव ॥ ३,३.
शास्त्रज्ञानान्नाशमेति ह्यविद्या न संशयो हरिणा चैक्यमेति । एवं ब्रूषे यदि वादत्खगेन्द्र वक्ष्येहं ते तत्र युक्तिं शृणु त्वम् ॥ ३,३.
सर्वज्ञरूपस्य हि मे मुरारेः कथं हरेर्घटते ह्यज्ञता च । सूर्ये यथा तमो नास्ति तथा नारायणे हरौ । अज्ञानं नास्ति पक्षीद्र कथं तत्वं ब्रवीष्यहो ॥ ३,३.
अतो नाहं ब्राह्मणस्त्वादिकालादुपाधिसंबन्धवशादज्ञताचेत् । सर्वज्ञोसौ कुत्र पक्षीन्द्र विष्णुरल्पज्ञजीवो ज्ञानशून्यश्च कुत्र ॥ ३,३.
विरुद्धयोश्चानयोः सर्वदैव कथं चैक्यं संवादिष्यन्ति वेदाः । देशे काले सर्वदा द्दुः खहीनो जगत्कर्ता पूर्णशक्तिः सदैव ॥ ३,३.
जीवः सदा स्वल्पकर्तास्ति पूर्णः संसाररूपे दुः खरूपे च नित्यम् । विरुद्धयोश्चानयोरैक्यमाहुरीशस्य मायावशतो मायिनश्च ॥ ३,३.
ये वैष्णवा वैष्णवदासवश्यास्तेषां द्रोहं सर्वदा संचरेद्यः । हरिप्रीतिस्तेन भवेन्न नित्यमानन्दवृद्धिस्तेन भवेन्न मुक्तौ ॥ ३,३.
मायी सदा मायिभृत्यस्तथापि भेदज्ञानान्निन्द्यते कार्यते च । तेनापि तेषां दुः खवृद्धिर्भवेच्च ह्यधं तमः पुनरावृत्तिहीनम् ॥ ३,३.
खगेन्द्रातः प्रकृतिः सूक्ष्मरूपा सा नित्या सा सत्यभूता सदैव । एवं स्वयं कालवाय्वादिकानां परा (रमा)णवः सत्यरूपाश्च सन्ति ॥ ३,३.
परा (माणू)नां लक्षणं वेदितव्यं ज्ञानेच्छुभिर्नान्यथा वेदितव्यम् । पदार्थानां पार्थिवानां खगेन्द्र विशेषाणां चरमाख्यो विशेषः ॥ ३,३.
स एवः स्यात्परमाणुर्द्विजेन्द्र योन्त्योवि (व) शेषोवयवश्च स स्मृतः ॥ ३,३.
गरुड उवाच । हे कृष्ण हे माधव सात्त्वतां पते पदार्थानां चरमांशः पराणु ॥ ३,३.
इति प्रोक्तं तत्र मे संशयोस्ति योन्त्यो विशेषः स तु नांशयुक्तः । यो ह्यंशयुक्तो न तु सोंत्यो विशेष एवं ममाभाति वचस्तु तथ्यम् ॥ ३,३.
श्रीकृष्ण उवाच । य एव लोके संस्थिता मानुषास्तु विशेषाणां दर्शने शक्तियुक्ताः । तथापि ते यस्य चांशित्वमेव विशेषं वै नैव द्रष्टुं समर्थाः ॥ ३,३.