न वै ज्ञानीत्यन्तरं यो न वेद स वेदवादी न च वेदपाठकः ॥ ३,२.
वेदाक्षराणि यावन्ति पठितानि द्विजातिभिः । तावन्ति हरिनामानि प्रियाणि च हरेः सदा ॥ ३,२.
मम स्वामी हरिर्नित्यं दासोहं सर्वदा हरेः । ब्रह्माद्या देवताः सर्वा गुरवो मे यथाक्रमम् ॥ ३,२.
एतेषां च हरिः स्वामी वेदे सर्वत्र गीयते । एवं जानंस्तु यो वेदान्संपठेत्स द्विजोत्तमः ॥ ३,२.
स वेदपाठको ज्ञेयस्तदन्ये वेदवादिनः । वेदभारभराक्रान्तः स वै ब्राह्मणगर्दभः ॥ ३,२.
ज्ञानाभिमानी वेदमानी उभौ तु परस्परं ह्यूचतुः सर्वदैव । जलं वेदो यत्र वासो मुरारेराचार्याणां संगदोषाद्द्विजानाम् ॥ ३,२.
महापराधाः संति लोके महात्मन्सहस्रशः शतशः कोटिशश्च । हरिश्च तान्क्षमते सर्वदैव नामत्रयस्मरणाद्वै कुपालुः ॥ ३,२.
सर्वापराधाद्रहितं दानमानैर्युक्तं सदा तारतम्याच्च हीनम् । दृष्ट्वापराधं तस्य विष्णुर्महात्मा हाहाकारं कुरुते क्रोधबुद्ध्या ॥ ३,२.
उत्तिष्ठ गोविन्द सुवेदवेद्य सोव्यात्कृताख्यो मयि सम्यक्प्रसीद । भो केशवोत्तिष्ठ सुखस्वरूप सृष्टौ व्यये वर्तयितुं समर्थः ॥ ३,२.
सृष्ट्वा ब्रह्माणं प्रेरयेत्पूज्यसृष्टौ सृष्ट्वा रुद्रं प्रेरयेत्संहृतौ च । प्राप्तव्ययोग्यान्ब्रह्मशेषादिदेवान्दृष्ट्वादृष्ट्वा देहि मोक्षं च सम्यक् ॥ ३,२.
हरे मुरारे स्वापहीनाद्य तिष्ठ कल्पा दिकानन्तरज्ञान (रं बुद्धि) (जान) हीनात् । सम्यग्दृष्ट्वा कर्मदृष्ट्या महात्मल्लंब्धं तमो दाहि दुः खस्वरूपम् ॥ ३,२.
दैत्यादिकान्दुः खमतीन्ह यस्मात्तमस्यन्धेसर्वदा चित्स्वरूपी । तस्मादाहुर्दुः स्वरूपी हरिस्त्वं दुः खस्वरूपात्त्वं च दुः खी हरे त्वम् ॥ ३,२.
उत्तिष्ठ नारायण वासुदेव ह्युत्तिष्ठ कृष्णाच्युत माधवेति । उत्तिष्ठ वैकुण्ठ दयार्द्रमूर्ते उत्तिष्ठ लक्ष्मीश नमोनमस्ते ॥ ३,२.
उत्तिष्ठ मध्वेश सरस्वतीश उत्तिष्ठ रुद्रेश तथांबिकेश । उत्तिष्ठ चन्द्रेश तथा शचीश विप्रेश भक्तेश गवेश नित्यम् ॥ ३,२.
शास्त्रप्रियोत्तिष्ठ ऋचि प्रियस्त्वं यजुः प्रियोत्तिष्ठ निदानमूर्ते । सामप्रियस्त्वं च तथा मुरारे अथर्ववेदप्रिय सर्वदा त्वम् ॥ ३,२.
गद्यप्रियस्त्वं च पुराणमूर्ते स्तुतिप्रियोत्तिष्ठ विचित्रमूर्ते । सुगायनप्रीतिकरस्त्वमेव ह्युतिष्ठ शीघ्रं कमला पतिस्त्वम् ॥ ३,२.
एवं स्तुतो विष्णुरजः पुराणो ह्यतित्वरावानुत्थितो नित्यबद्धः ॥ ३,२.
श्रीगरुडमहापुराणम् ३ श्रीकृष्ण उवाच । बभूवेच्छा मम देवस्य विष्णोः स्रष्टुं सृज्यान्मोक्षयोग्यांश्च मोक्तुम् । इच्छाशक्तिः सर्वदैवास्ति विष्णोस्तथापि तद्व्याहरणं च लौकिकम् ॥ ३,३.
तदा हरिर्जगृहे लौकिकं च तमः पानं तेन रूपेण चक्रे । तद्रूपमाहुः प्राकृतं वै तदज्ञा ह्यन्धं तमः प्रविशन्त्येव सर्वे ॥ ३,३.
अवतारा महाविष्णोः सर्वे पूर्णाः प्रकीर्तिताः । पूर्णं च तत्परं रूपं पूर्णात्पूर्णाः समुद्गताः ॥ ३,३.
परावरत्वं तेषां तु व्यक्तिमात्रविशेषतः । न देशकालसामर्थ्यात्पारावर्यं कथञ्चन ॥ ३,३.
पूर्वरूपं च पूर्णं च पूर्णं पदवितारगम्? । रूपं तदात्मन्यादाय पूर्णमेवावशिष्यते ॥ ३,३.
लौकिकव्यवहारोयं भूभारक्षपणादिकः । तस्य दृर्ष्टि विना नान्यो लयः कृष्णादिना क्वचित् ॥ ३,३.
तत्त्वे पीडा न कर्तव्या तया दुः खानि विन्दति । अत्यन्तपीडनात्तस्य रोगस्तस्य न संशयः ॥ ३,३.
ज्ञातव्यांशे तु पीडा तु कर्तव्या गुरुणा सह । तमन्तेवासिनं चाहुः स एव चु गुरुः स्मृतः ॥ ३,३.
ये कुर्वन्ति हरेस्तत्त्वविचारं तु परस्परम् । तावेव गुरुशिष्यौ तु विनतानन्दसंयुत ॥ ३,३.
गुरुणापि समं हास्यं कर्तव्यं कुटिलं विना । हर्षामर्षयुतः शिष्यो गुरुः कौटिल्यसंयुतः ॥ ३,३.
उभौ तौ निरयं यातो यावदाचन्द्रतारकम् । साक्षाद्धरिः पुरुषः पिङ्गलाक्षः स्वमायायां गुणमय्यां महात्मा । स्वपौरुषेणैव सुमङ्गलेन अधात्तु वीर्यं भगवान्वीर्यवांश्च ॥ ३,३.
गरुड उवाच । वीर्यस्वरूपं ब्रूहि मे वासुदेव वीर्ये त्वदीये संशयो मे विभाति । किं वीर्यमीशस्य स्वरूपभूतं किं वा विभिन्नं वद साधु वेत्सि ॥ ३,३.
श्रीकृष्ण उवाच । यद्वीर्यमाधत्त हरिः स्वयं प्रभुर्मायाभिधायां विनतातनूज । तद्वीर्यमाहुर्नृहरेः स्वरूपं विपश्चितो निश्चिततत्त्वदर्शिनः ॥ ३,३.