माहेश्वरीं च मे पूजां वद शङ्खगदाधर 40.
श्रृणु माहेश्वरीं पूजां कथ्यमानां वृषध्वज 40.
न्यासं कृत्वा मण्डले वै पूजयच्चे महेश्वरम् 40.
ॐ हां शिवासनदेवता आगच्छतेति 40.
ॐ हां गणपतये नमः ॐ हां नन्दिने नमः ॐ हां गङ्गायै नमः ॐ हां महाकलायै नमः 40.
एते द्वारे प्रपूज्या वै स्नानगन्धादिभिर्हर ॐ हां गुरुभ्यो नमः ॐ हां अनन्ताय नमः ॐ हां ज्ञानाय नमः ॐ हां ऐश्वर्याय नमः ॐ हां अज्ञानाय नमः ॐ हां अनैश्वर्य्याय नमः ॐ हां अधश्छन्दाय नमः ॐ हां कर्णिकायै नमः ॐ हां ज्येष्ठायै नमः ॐ काल्यै नमः ॐ बलप्रमथिन्यै नमः ॐ हां मनोन्मन्यै नमः ॐ हां हौं हं शिवमूर्त्तये नमः ॐ हां हीं हौं शिवाय नमः ॐ शिरसे नमः ॐ हैं कवचाय नमः ॐ हः अस्त्राय नमः 40.
ॐ हां सिद्ध्यै नमः ॐ हां विद्युतायै नमः ॐ हां बोधायै नमः ॐ हां स्वधायै नमः 40.
सत्यस्याष्टौ कला ज्ञेयाः पूज्याः पूर्वादिषु स्थिताः ।। 40.
ॐ हां वामदेवाय नमः ॐ हां रक्षायै नमः ॐ हां कन्यायै नमः ॐ हां जनन्यै नमः ॐ हां वृद्ध्यै नमः ॐ रा(धा) त्र्यै नमः ॐ हां मोहिन्यै नमः वामदेवकला ज्ञेयास्त्रयो दश वृषध्वज ।। 40.
ॐ हां तत्पुरुषाय नमः ॐ हां प्रतिष्ठायै नमः ॐ हां शान्त्यै नमः 40.
ॐ हां तृष्णायै नमः 40.
ॐ हां ईशानाय नमः ॐ हां अङ्गदायै नमः ॐ हां मरीच्यै नमः ईशानस्य कलाः पञ्च जानीहि वृषभध्वज ।। 40.
ॐ हां शिवपरिवारेभ्यो नमः ॐ हां अग्नये तेजोऽधिपतये नमः ॐ हां निर्ऋतये रक्षोऽधिपतये नमः ॐ हां वायवे प्राणाधिपतये नमः ॐ हां ईशानाय सर्वविद्याधिपतये नमः ॐ हां ब्रह्मणे सर्वलोकाधिपतये नमः 40.
आवाहनं स्थापनं सन्निधानं च शङ्कर 40.
तत्त्वन्यासं च मुद्राया दर्शनं ह्यानमेव च 40.
तत उद्वर्त्तनं स्नानं सुगन्धं चानुलेपनम् 40.
दीपं नैवेद्यदानं च हस्तोद्वर्त्तनमेव च 40.
नृत्यं छत्रादिकरणं मुद्राणां दर्शनं तता 40.
मूलमन्त्रेण वै कुर्य्याज्जपपूजासमर्पणम् 40.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे महेश्वरपूजाविधिर्नाम चत्वारिंशोऽध्यायः
ॐ विश्वावसुर्नाम गन्धर्वः कन्यानामधिपतिर्लभामि ते कन्यां समुत्पाद्य तस्मै विश्ववासवे स्वाहा 41.
ॐ नमो भगवति ऋक्षकर्णि चतुर्भुजे ऊर्द्ध्वकेशि त्रिनयने कालरात्रि मानुषाणां वसारुधिरभोजने अमुकस्य प्राप्तकालस्य मृत्युप्रदे हुं फट् हनहन दहदह मांसरुधिरं पचपच ऋक्षपत्नि स्वाहा । न तिथिर्न च नक्षत्रं नोपवासो विधीयते ।। 41.
क्रुद्धो रक्तेन संमार्ज्य करौ ताभ्यां प्रगृह्य च ॐ नमः सर्वतोयन्त्राण्येतद्यथा जम्भनि मोहनि सर्वशत्रुविदारिणि रक्षरक्ष माममुकं सर्वभयोपद्रवेभ्यः स्वाहा 41.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वश्यादिसाधिकमन्त्रनिरूपणं नामैकचत्वारिंशोऽध्यायः
पवित्रारोपणं वक्ष्ये शिवस्याशिवनाशनम् 42.
संवत्सरकृतां पूजां विघ्नेशो हरतेऽन्यथा 42.
सौवर्णरौप्यताम्रं च सूत्रं कार्पासिकं क्रमात् 42.
त्रिगुणं त्रिगुणीकृत्य ततः कुर्य्यात्पवित्रकम् 42.
अघोरेण तु संशोध्य बद्धस्तत्पुरुषाद्भवेत् 42.
ॐ कारश्चन्द्रमा वह्निर्ब्रह्मा नागः शिखिध्वजः 42.