त्वमुत्कृष्टः सर्वदेवोत्तमत्वान्न त्वत्समः कश्चिदेवाधिको वा । त्वं ब्रह्म एको न चतुर्मुखश्च नाहं रुद्रो न बृहस्पतिश्च ॥ ३,२.
विष्णावेव ब्रह्मशब्दो हि मुख्यो ह्यन्येष्वमुख्यो ब्रह्मरुद्रादिकेषु । अनन्तगुणपूर्णत्वाद्ब्रह्मेति हरिरुच्यते ॥ ३,२.
गुणादिपूर्णताभावान्नान्ये ब्रह्मेत्युदाहृताः । देशानन्त्यं गुणतः कालतो वा नास्त्यानन्त्यं क्वापि देशे च काले ॥ ३,२.
यदा नन्त्यं किमु वक्तव्यमत्र गुणानन्त्यं नास्ति ब्रह्मादिकेषु । यद्यप्यहं देशतः कालतश्च समस्तदा वासुदेवेन सार्धम् ॥ ३,२.
तथापि मे गुणतो नास्त्यनन्तं ततो धर्मा गुणतोनन्ततश्च । संति श्रुतावविरुद्धाश्च देवे चिन्त्या ह्यचिन्त्या बहुधा ते ह्यनन्ताः ॥ ३,२.
अतो गुणांस्तव देवस्य विष्णो स्तोतुं सदा स्मो न हरेः कदापि । नाहं न केशौ न च गीर्न रुद्रो न दक्षकन्या न च मेनकासुता ॥ ३,२.
न वै बिडौजा न च वा पुलोमजा न चेध्मवाहो न यमो न चान्यः । न नारदो नापि भृगुर्वसिष्ठो न विघ्नपो नापि बल्यादयश्च ॥ ३,२.
न वै विराटो नापि भीमः शनिश्च न पुष्करो न कशेरुस्तथैव । न किन्नराः पितरो नैव देवा गन्धर्वमुख्या नापि वा तुष्यसंज्ञाः ॥ ३,२.
न वै क्षितीशा न च मानुषाश्च विष्णोर्न जानन्ति किमत्र चान्ये । मत्तोधमः कोचिगुणेन ब्रह्मा समो हि तस्य ब्रह्मणो मातरिश्व ॥ ३,२.
तौ वै विरागे हरिभक्तिभावे धृतिस्तितिप्राणबलेषुयोगे । बुद्धौ समानौ संसृतौ मोक्षकाले परस्पराधारसमन्वितौ च ॥ ३,२.
अन्नाभिमानं ब्रह्म चाहुर्मुरारिं जीवाभिमानं वायुमाहुर्महान्तः । न शक्तोसौ ब्रह्मदेवो विवस्तुं वायुं विना संसृतावेव नित्यम् ॥ ३,२.
न तं विना मातरिश्वा च वस्तुमन्योन्यमाप्तिः कालतो न्यूनता च । यदा महत्तत्त्वनि यामकोभूद्ब्रह्माण्डान्तस्थूलसृष्टौ महात्मा ॥ ३,२.
तदा वायुर्नाशकद्वै महात्मा बाह्ये सृष्टौ कालभेदेन चास्ति । सरस्वती भारती ब्रह्मणस्तु संवत्सरानन्तरं संबभूव ॥ ३,२.
यदा दशाब्दाः समतीता महात्मा तदा वायुः समभूल्लोकपूज्यः । किञ्चिन्न्यूनत्वं स्थूलसृष्टौ महात्मन्नैतावता वानयोः सौम्यहानिः ॥ ३,२.
सरस्वती वत्सरात्संबभूव ह्यनन्तरं ब्रह्मणो जन्मकालात् । गिरः सकाशात्कालतो न्यूनतास्ति वायोस्तदा ह्यधमत्त्वे क्षतिः का ॥ ३,२.
वायोरनन्तरं वाणी ह्यभूत्संवत्सरात्परम् । यावत्पश्चाज्जनिस्तावत्पूर्वदेहक्षयो भवेत् ॥ ३,२.
शेषस्त्विन्द्रो रुद्र एते त्रयश्च समा ह्येते ज्ञानबलादिकेष्वपि तथापि तेषां कालतो न्यूनतास्ति कालोपि तेषां द्विव्येसहस्रवर्षम् ॥ ३,२.
अनन्तरुद्रो ब्रह्मवायू यथा वा तथा ज्ञेयो नैव हानिः स्वरूपे । स्थूलस्य सृष्टौ बाह्यसृष्टौ महात्मन्कालान्न्यूनत्वं स मया नैव चिन्त्यः ॥ ३,२.
तेषां सकाशाद्वारुणी पार्वती च सौपर्णीनाम्नी तिस्त्र एता महात्मन् । दशाब्देभ्योनन्तरं संबभूवुः सरस्वती भारतीवच्च बोध्या ॥ ३,२.
इन्द्रो वरो रुद्रभार्यादिकेभ्य एवं ज्ञानं सर्वदा देह्यमन्दम् । एवं ज्ञानं यस्य भवेच्च लोके स वै ज्ञानी वेदवेद्यः स एव ॥ ३,२.
न वै ज्ञानीत्यन्तरं यो न वेद स वेदवादी न च वेदपाठकः ॥ ३,२.
वेदाक्षराणि यावन्ति पठितानि द्विजातिभिः । तावन्ति हरिनामानि प्रियाणि च हरेः सदा ॥ ३,२.
मम स्वामी हरिर्नित्यं दासोहं सर्वदा हरेः । ब्रह्माद्या देवताः सर्वा गुरवो मे यथाक्रमम् ॥ ३,२.
एतेषां च हरिः स्वामी वेदे सर्वत्र गीयते । एवं जानंस्तु यो वेदान्संपठेत्स द्विजोत्तमः ॥ ३,२.
स वेदपाठको ज्ञेयस्तदन्ये वेदवादिनः । वेदभारभराक्रान्तः स वै ब्राह्मणगर्दभः ॥ ३,२.
ज्ञानाभिमानी वेदमानी उभौ तु परस्परं ह्यूचतुः सर्वदैव । जलं वेदो यत्र वासो मुरारेराचार्याणां संगदोषाद्द्विजानाम् ॥ ३,२.
महापराधाः संति लोके महात्मन्सहस्रशः शतशः कोटिशश्च । हरिश्च तान्क्षमते सर्वदैव नामत्रयस्मरणाद्वै कुपालुः ॥ ३,२.
सर्वापराधाद्रहितं दानमानैर्युक्तं सदा तारतम्याच्च हीनम् । दृष्ट्वापराधं तस्य विष्णुर्महात्मा हाहाकारं कुरुते क्रोधबुद्ध्या ॥ ३,२.
उत्तिष्ठ गोविन्द सुवेदवेद्य सोव्यात्कृताख्यो मयि सम्यक्प्रसीद । भो केशवोत्तिष्ठ सुखस्वरूप सृष्टौ व्यये वर्तयितुं समर्थः ॥ ३,२.
सृष्ट्वा ब्रह्माणं प्रेरयेत्पूज्यसृष्टौ सृष्ट्वा रुद्रं प्रेरयेत्संहृतौ च । प्राप्तव्ययोग्यान्ब्रह्मशेषादिदेवान्दृष्ट्वादृष्ट्वा देहि मोक्षं च सम्यक् ॥ ३,२.