सृष्टौ ज्ञाते तवोत्कर्षो ज्ञातप्रायो भविष्यति । ब्रह्मादीनां तारतम्यज्ञानं मम भविष्यति ॥ ३,२.
मोक्षोपायम्यः स वोक्त मिततरत्तस्य साधनम् । गरुडेनैव मुक्तस्तु कृष्णो वचनमब्रवीत् ॥ ३,२.
शृकृष्ण उवाच मूलरूपे ह्यतो ज्ञेयो विष्णुत्वाद्विष्णुरव्ययः ॥ ३,२.
अवतारमिदं प्रोक्तं पूर्णत्वादेव सुव्रत । अनेको ह्येकतां प्राप्य संशेते प्रलयाय वै ॥ ३,२.
तत्रापि च विशेषोस्ति ज्ञातव्यं तत्वमेव सः ॥ ३,२.
भेदेन दर्शनाद्वापि भेदाभेदेन दर्शनात् । विष्णोर्गुणानां रूपाणां तदङ्गानां सुखादिनाम् । तत्रैव दशनाद्वापि क्षिप्रमेव तमो व्रजेत् ॥ ३,२.
पुरुषान्तरमारभ्य कल्पिता ये द्विजोत्तम । हरिरूपास्तु ते ज्ञेया एकीभूता हि तेन ते ॥ ३,२.
प्रलये समनुप्राप्ते जीवाः स यान्ति मामकाः । विराड्रूपे हरेः संति तदा ते च ह्यनेकधा ॥ ३,२.
एकीभावं प्राप्नुवन्ति मूलेन प्रलये द्विज । बिंबेन तु स्वयं विष्णुरेकीभावं व्रजेद्यदि ॥ ३,२.
प्रतिबिंबः कथं जीवो भवेन्नारायणस्य च । तदधीनस्तत्सदृशो हरेर्जीवो न संशयः ॥ ३,२.
प्रतिबिंबस्य शब्दार्थो ह्ययमेवमुदाहृतः । तस्माच्च बिंबरूपाणामेकीभावं न चिन्तयेत् ॥ ३,२.
कृष्णरामादिवच्चैव त्वेकीभावो विवक्षितः । बिंबानां मूलरूपस्य भेदो नात्र विवक्षितः ॥ ३,२.
तत्रापि च विशेषोस्ति ज्ञातव्यस्तत्त्वमिच्छुभिः । एकांशेन तु बिंबैस्तु चैकीभावं व्रजन्ति ते ॥ ३,२.
एकांशेन तु जीवत्वे संस्थिता नात्र संशयः । बिंबमूलं न जानन्ति ते जना ह्यसुराः स्मृताः ॥ ३,२.
एक एव हरिः पूर्वं ह्यविद्यावशतः स्वयम् । अनेको भवति ह्यारादादर्शप्रतिबिंबवत् ॥ ३,२.
एवं वदन्ति ये मूढास्तेपि यान्त्यधरं तमः । उपाधिर्द्विविधः प्रोक्तः स्वरूपो बाह्य एव च ॥ ३,२.
बाह्योपाधिर्लये याति मुक्तावन्यस्य संस्थितिः । सर्वोपाधिविनाशे हि प्रतिबिंबः कथं भवेत् ॥ ३,२.
चिद्रूपाख्यो ह्युपाधिस्तु मोक्षे येप्यधिकारिणः । दुःखरूपो ह्युपाधिस्तु तमसो येधिकारिणः ॥ ३,२.
मिश्ररूपो ह्युपाधिस्तु नित्यसंसारिणां मतः । बाह्योपाधिर्लिङ्गदेहः सर्वेषां नात्र संशयः ॥ ३,२.
दैत्याः दुःखायते यस्मात्तस्मादुःखी हरिः स्वयम् । तत्तद्दुःखस्वरूपत्वाद्दैत्यानां बिंबरूपकः ॥ ३,२.
दैत्यस्थितानां बिंबानां मूलरूपस्य वै प्रभोः । परस्परं तथा भेदं ह्यन्तरं वा न चिन्तयेत् ॥ ३,२.
श्रीभूदुर्गादिरूपाणां तथा सीतादिरूपिणाम् । अन्योन्यं नाणुमात्रं च भेदो बाह्यान्तरेपि च ॥ ३,२.
चिन्तनीयः कथमपि ज्ञात्वा यान्त्यधरं तमः । प्रतिबिंबस्थितो बिंबः स्त्रीरूपो ह्यस्ति सर्वदा ॥ ३,२.
प्रलये समनुप्राप्ते लक्ष्म्या सह खगोत्तम । एकीभावं नाप्नुवन्ति बिंबेन सह संस्थिताः ॥ ३,२.
बिंबस्थितानां रूपाणां लक्ष्म्याश्च विनतासुत । भेदस्तु नाणुमात्रं च शङ्कनीयः कथञ्चन ॥ ३,२.
यदा हि शेते प्रलयार्णवे विभुर्जीवांश्च सर्वानुदरे निवेश्य । मुक्तांश्च ब्रह्मेन्द्रमरुद्गणादीन्प्रात्पव्यमुक्तींश्च सुतौ? च संस्थितान् ॥ ३,२.
प्राप्तान्धकूपादिसमस्तजीवांस्तथैव प्राप्तव्यकलीनथापरान् । तथैव नित्यं सृतिसंस्थिताञ्जनानचेतनानृक्षरूपादिजीवान् ॥ ३,२.
एवं जनाञ्जठरे संनिधाय सम्यक्शेते ह्यंभसि वै स कल्पे । लक्ष्मीस्तु सा सर्ववेदात्मिका च भक्त्या हरौ नित्यसंवर्धितापि ॥ ३,२.
अत्यादरं दर्शयतीव सा तु ईडे विष्णुं भक्तिसंवर्धितापि । चेष्टादिरूपेण तदा न किञ्चिदासीद्विना विष्णुमथ श्रियं च ॥ ३,२.
पर्यङ्करूपेण बभूव देवी वासस्वरूपेण रमा विरेजे । सर्वं रमा सैव तदैव चासीत्सैका देवी बहुरूपा बभाषे ॥ ३,२.