वेदैस्तुल्य सम पाठे श्रवणे च तदर्धकम् । अर्थतः श्रवणे चास्य पुण्यं दशगुणं स्मृतम् ॥ ३,१.
वक्तुः स्याद्द्विगुणं पुण्यं व्याख्यातुश्च तथाधिकम् । अनन्तवेदैःसाम्यमाहुर्महान्तः भारान्महत्त्वाद्भारतस्यापि विप्राः ॥ ३,१.
वेदोभ्योस्य त्वर्थतश्चाधिकत्वं वदन्ति बै विष्णुरहस्यवेदिनः ॥ ३,१.
तत्र श्रेष्ठां गीतिकामाहुरार्यास्तथैव विष्णोर्नामसाहस्रक च । तयोस्तत्र श्रवणाद्भारतस्य दशाधिकं फलमाहुर्महान्तः ॥ ३,१.
दैत्याः सर्व विप्रकुलेषु भूत्वा कृते युगे भारते षट्सहस्र्याम् । निष्कास्य कांश्चिन्नवनिर्मितानां निवेशनं तत्र कुर्वन्ति नित्यम् ॥ ३,१.
मत्वा हरिं भगवान्व्यासरूपी चक्रे तदा भागवतं पुराणम् । तथा समाख्याय च वैष्णवं तत्ततः परं गारुडाख्यं स चक्रे ॥ ३,१.
अतो हि गारुडं मुख्यं पुराणं शास्त्रसंमतम् । गारुडेन समं नास्ति विष्णुधर्मप्रदर्शने ॥ ३,१.
यथा सुराणां प्रवरो जनार्दनो यथायुधानां प्रवरः सुदर्शनम् । यथाश्वमेधः प्रवरः क्रतूनां छिन्नेषु भक्तेषु तथैव रुद्रः ॥ ३,१.
नदीषु गङ्गा जलजेषु पद्ममच्छिन्नभक्तेषु तथैव वायुः । तथा पुराणेषु च गारुडं च मुख्यं तदाहुर्हरितत्त्वदर्शने ॥ ३,१.
गारुडाख्यपुराणे तु प्रतिपाद्यो हरिः स्मृतः । अतो हरिर्नमस्कार्यो गम्यो योग्यो हरिः स्मृतः ॥ ३,१.
भाग्यात्मकत्वाच्छ्रीदेव्या नमनं नदनु स्मृतम् । परो नरोत्तमो वा स साधकेशोपि च स्मृतः ॥ ३,१.
अतो नम्यो वायुरपि पुराणादौ द्विजोत्तमाः । भारती वाक्यरूपत्वान्नम्या वायोरनन्तरम् ॥ ३,१.
उपसाधको नरः प्रोक्तो यतोतस्तदनन्तरम् । नम्य इत्यच्यते सद्भिस्तारतम्येन सर्वदा ॥ ३,१.
अतो व्यासं नमस्कुर्याद्ग्रन्थकर्तृत्वहेतुतः । शौनक उवाच । व्यासस्य नमनं ह्यन्ते कथं कार्यं महात्मनः ॥ ३,१.
अन्ते च वन्दने तस्य कारणं ब्रूहि सुव्रत । सूत उवाच । विष्णोरनन्तरं व्यासनमनं मुख्यमेव हि ॥ ३,१.
हरिरेव यतो व्यासो वाच्यचक्रस्वरूपकः । व्यासो नैव समत्वेन प्रोक्तो भगवतो हरेः ॥ ३,१.
तत्रापि कारणं वक्ष्ये सादरेण मुनीश्वराः । व्यासस्तु कश्चन ऋषिः पुराणे तामसे स्मृतः ॥ ३,१.
इति ज्ञाना वलंबेन दैत्या दैत्यानुगैः समाः । प्रविशन्ति ह्यन्धतम इति त्वन्ते नमस्कृतः ॥ ३,१.
यदिदं परमं गोप्यं हृदि धार्यं न संशयः । पराणां नम्यमेवोक्तं प्रतिपाद्यं यतोत्र हि ॥ ३,१.
समासव्यासभावाद्धि पराणां तत्प्रतीयते । वास्तवं तं न जानीयुरुपजीव्यो यतो हरिः ॥ ३,१.
हरिर्व्यासस्त्वेक एव व्यासस्तु हरिवत्स्मृतः । उपजीव्यतदीशत्वे तयोरेव न संशयः ॥ ३,१.
ईशकोटिप्रविष्टत्वाच्छ्रियः स्वामित्वमीरितम् । त्रयाणामुपजीव्यत्वात्सेव्यत्वात्स्वामिता स्मृताः ॥ ३,१.
वाय्वादीनां त्रयाणां च सेव्यत्वात्सेव्यता स्मृता । भूभारहरणे विष्णोः प्रधानाङ्गं हि मारुतिः ॥ ३,१.
वाक्यरूपा भारती तु द्वितीयाङ्गं हि सा स्मृता । तृतीयाङ्ग हरेः शेषो न नम्याः साम्यतो हरेः ॥ ३,१.
प्रतिपाद्या मुख्यतया नम्या एव समीरिताः । अवान्तराश्च वाय्वाद्या न नम्यास्तेन ते स्मृताः ॥ ३,१.
भीष्मद्रोणादिनामानि भीमादिष्वेव मुख्यतः । वाचकानि यतो नित्यं तन्नम्यास्ते मुनीश्वराः ॥ ३,१.
पराणामेव नम्यत्वं प्रतिपाद्यत्वमेव हि । एतत्सर्वं मयाख्यातं किमन्यच्छ्रोतुमिच्छथ ॥ ३,१.
श्रीगरुडमहापुराणम् २ श्रीशौनक उवाच । कथं ससर्ज भगवांस्तत्तत्तत्त्वाभिमानिनः । सृष्टिक्रमं न जानामि देवानां ह्यन्तरं मुने ॥ ३,२.
शौनकेनैव मुक्तस्तु सूतो वचनमब्रवीत् । शूत उवाच । सम्यग्व्यवसिता बुद्धिस्तव ब्रह्मर्षिसत्तम ॥ ३,२.
एवमेव कृतः प्रश्रो हरौ तु गरुडेन वै । यदुक्तवान्हरिस्तस्मैतद्वक्ष्यामि तवानघ । गरुड उवाच । सृष्टिं व्रूहि महाभाग सच्चिदानन्दविग्रह ॥ ३,२.