ब्रह्माण्डलैङ्ग्ये ब्रह्मवैवर्तकं वै मार्कंण्डेयं ब्राह्ममादित्यकं च । एतान्या हुस्तामसानीति विप्रास्तत्रैकदेशः सात्त्विको राजसश्च ॥ ३,१.
श्राव्याणि नैतानि मनुष्यलोके तत्त्वेच्छुभिस्तामसानीत्यतो हि । तेषु स्थिताः सात्त्विकांशा मुनीन्द्रास्तेषां श्रुतिर्गारुडैकाङ्घ्रितुल्या ॥ ३,१.
अल्पान्युपपुराणानि वदन्त्यष्टादशानि च । विष्णुधर्मोतरं चैव तन्त्रं भागवतं तथा ॥ ३,१.
तत्त्वसारं नारसिंहं वायुप्रोक्तं तथैव च । तथा हंसपुराणं च षडेतानि मुनीश्वराः ॥ ३,१.
सात्त्विकान्येव जानीध्वं प्रायशो नात्र संशयः । एतेषां श्रवणादेव गारुडार्धफलं श्रुतम् ॥ ३,१.
भविष्योत्तरनामानं बृहन्नारदमेव च । यमनारदसंवादं लघुनारदमेव च ॥ ३,१.
विनायकपुराणं च बृहद्ब्रह्माण्डमेव च । एतानि राजसान्याहुः श्रवणाद्भुक्तरुत्तमा ॥ ३,१.
गारुडात्पादतुल्यं च फलं चाहुर्मनीषिणः । पुराणं भागवतं शैवं नन्दिप्रोक्तं तथैव च ॥ ३,१.
पाशुपत्यं रैणुकं च भैरवं च तथैव च । एतानि तामसान्याहुर्हरितत्त्वार्थवेदिनः ॥ ३,१.
एतेषां श्रवणाद्विप्रागारुडाङ्घ्यर्ध्मेव च । सर्वेष्वपि पुराणेषु श्रेष्ठं भागवतं स्मृतम् ॥ ३,१.
वेदैस्तुल्य सम पाठे श्रवणे च तदर्धकम् । अर्थतः श्रवणे चास्य पुण्यं दशगुणं स्मृतम् ॥ ३,१.
वक्तुः स्याद्द्विगुणं पुण्यं व्याख्यातुश्च तथाधिकम् । अनन्तवेदैःसाम्यमाहुर्महान्तः भारान्महत्त्वाद्भारतस्यापि विप्राः ॥ ३,१.
वेदोभ्योस्य त्वर्थतश्चाधिकत्वं वदन्ति बै विष्णुरहस्यवेदिनः ॥ ३,१.
तत्र श्रेष्ठां गीतिकामाहुरार्यास्तथैव विष्णोर्नामसाहस्रक च । तयोस्तत्र श्रवणाद्भारतस्य दशाधिकं फलमाहुर्महान्तः ॥ ३,१.
दैत्याः सर्व विप्रकुलेषु भूत्वा कृते युगे भारते षट्सहस्र्याम् । निष्कास्य कांश्चिन्नवनिर्मितानां निवेशनं तत्र कुर्वन्ति नित्यम् ॥ ३,१.
मत्वा हरिं भगवान्व्यासरूपी चक्रे तदा भागवतं पुराणम् । तथा समाख्याय च वैष्णवं तत्ततः परं गारुडाख्यं स चक्रे ॥ ३,१.
अतो हि गारुडं मुख्यं पुराणं शास्त्रसंमतम् । गारुडेन समं नास्ति विष्णुधर्मप्रदर्शने ॥ ३,१.
यथा सुराणां प्रवरो जनार्दनो यथायुधानां प्रवरः सुदर्शनम् । यथाश्वमेधः प्रवरः क्रतूनां छिन्नेषु भक्तेषु तथैव रुद्रः ॥ ३,१.
नदीषु गङ्गा जलजेषु पद्ममच्छिन्नभक्तेषु तथैव वायुः । तथा पुराणेषु च गारुडं च मुख्यं तदाहुर्हरितत्त्वदर्शने ॥ ३,१.
गारुडाख्यपुराणे तु प्रतिपाद्यो हरिः स्मृतः । अतो हरिर्नमस्कार्यो गम्यो योग्यो हरिः स्मृतः ॥ ३,१.
भाग्यात्मकत्वाच्छ्रीदेव्या नमनं नदनु स्मृतम् । परो नरोत्तमो वा स साधकेशोपि च स्मृतः ॥ ३,१.
अतो नम्यो वायुरपि पुराणादौ द्विजोत्तमाः । भारती वाक्यरूपत्वान्नम्या वायोरनन्तरम् ॥ ३,१.
उपसाधको नरः प्रोक्तो यतोतस्तदनन्तरम् । नम्य इत्यच्यते सद्भिस्तारतम्येन सर्वदा ॥ ३,१.
अतो व्यासं नमस्कुर्याद्ग्रन्थकर्तृत्वहेतुतः । शौनक उवाच । व्यासस्य नमनं ह्यन्ते कथं कार्यं महात्मनः ॥ ३,१.
अन्ते च वन्दने तस्य कारणं ब्रूहि सुव्रत । सूत उवाच । विष्णोरनन्तरं व्यासनमनं मुख्यमेव हि ॥ ३,१.
हरिरेव यतो व्यासो वाच्यचक्रस्वरूपकः । व्यासो नैव समत्वेन प्रोक्तो भगवतो हरेः ॥ ३,१.
तत्रापि कारणं वक्ष्ये सादरेण मुनीश्वराः । व्यासस्तु कश्चन ऋषिः पुराणे तामसे स्मृतः ॥ ३,१.
इति ज्ञाना वलंबेन दैत्या दैत्यानुगैः समाः । प्रविशन्ति ह्यन्धतम इति त्वन्ते नमस्कृतः ॥ ३,१.
यदिदं परमं गोप्यं हृदि धार्यं न संशयः । पराणां नम्यमेवोक्तं प्रतिपाद्यं यतोत्र हि ॥ ३,१.
समासव्यासभावाद्धि पराणां तत्प्रतीयते । वास्तवं तं न जानीयुरुपजीव्यो यतो हरिः ॥ ३,१.