गुरुर्हि मुख्यो हनुमज्जनिर्महान्रामाङ्घ्रिभक्तो हनुमान्सदैव । एवं विदित्वा परमं हरिं च पुत्रं पुनर्मुख्यदेवस्य वायोः ॥ ३,१.
नमस्कारो नान्यथा विप्रवर्या आधीयतां हृदि सर्वै रहस्यमम् । ये वैष्णवा वैष्ण वदासभृत्याः सर्वेपि ते सर्वदा विष्णुमेव ॥ ३,१.
नमन्ति ये वै प्रतिपादयन्ति तथैव पुण्यानि च सात्त्विकानि । नमन्ति ये वासुदेवं हरिं च सम्यक्स्वशक्त्या प्रतिपादयन्ति ॥ ३,१.
प्रवृत्तिमार्गेण न पूजयन्ति ह्यापत्काले परदैवं तदन्यम् । ते वैष्णवा वैष्णवदासभृत्या अन्ये च सर्वेऽवैष्णवमात्रकाः स्मृताः ॥ ३,१.
उपक्रमैरुपसंहारस्य लिङ्गैर्हरिं गुरुं ह्यन्तरेणैव यान्ति । तानेवाहुः सत्पुराणानि विप्राः कलौ युगे नाभ्यसूयन्ति सर्वे ॥ ३,१.
यतो हितान्ये प्रतिपादयन्ति प्रवृत्तिधर्मान्स्वस्ववर्णानुरूपान् । अतो ह्यसूयन्ति सदा विमूढाः कलौ हि विप्राः प्रचुरा हि तेपि ॥ ३,१.
न चास्ति विष्णोः सदृशं च दैवतं न चास्ति वायोः सदृशो गुरुश्च । न चास्ति तीर्थं सदृशं विष्णुपद्याः न विष्णुभक्तेन समोस्ति भक्तः ॥ ३,१.
अन्यानि विष्णोः प्रतिपादकानि सर्वाणि ते सात्त्विकानीति चाहुः । श्राव्याणि तान्येव मनुष्यलोके श्राव्याणि नान्यानि च दुःखदानि ॥ ३,१.
कलौ युगे सर्व पुराणमध्ये त्रीण्येव मुख्यानि हरिप्रियाणि । मुख्यं पुराणं हि कलौ नृणां च श्रेयस्करं भागवतं पुराणम् ॥ ३,१.
पूर्वं हि सृष्टिः प्रतिपाद्यते त्र यतो ह्यतो भागवतं परं स्मृतम् । यस्मिन्पुराणे कथयन्ति सृष्टिं ह्यादौ विष्णोर्ब्रह्मरुद्रादिकानाम् ॥ ३,१.
नानार्थमेवं कथयन्ति विप्र नीचोच्चरूपं ज्ञानमाहुर्महान्तः । तेनैव सिद्धं प्रवदन्ति सर्वं ह्यतः परं भागवतं पुराणम् ॥ ३,१.
ततः परं विष्णुपुराणमाहुस्ततः परं गारुडसंज्ञकं च । त्रीण्येव मुख्या नि कलौ नृणां तु तथा विशेषो गारुडे किञ्चिदस्ति ॥ ३,१.
शृणुध्वं वै तं विशेषं च विप्रास्त्र्यंशैर्युक्तं गारुडाख्यं पुराणम् । आद्यांशं वै कर्मकाण्डं वदन्ति द्वितीयांशं धर्मकाण्डं तमाहुः ॥ ३,१.
तृतीयांशं ब्रह्मकाण्डं वदन्ति तेषां मध्ये त्वन्तिमोयं वरिष्ठः । तृतीयांशश्रवणात्पुण्यमाहुस्तुल्यं पुण्यं भागवतस्य विप्राः ॥ ३,१.
तृतीयांशे पठिते वेदतुल्यं फलं भवेन्नात्र विचार्यमस्ति । तृतीयांशश्रवणादेव विप्राः फलं प्रोक्तं पठतोप्यर्थमेवम् ॥ ३,१.
तृतीयांशश्रवणादर्थतश्च पुण्यं चाहुः पठतो वै दशांशम् । ततो वरं मत्स्यपुराणमाहुस्ततो वरं कूर्मपूराणमाहुः ॥ ३,१.
तथैव वै वायुपुराणमाहुस्त्रीण्येव चाहुः सात्त्विकानीति लोके । तत्रापि किञ्चिद्वेदितव्यं भवेच्च पुराणषट्के सत्त्वरूपे मुनीन्द्राः ॥ ३,१.
सत्त्वाधमे मात्स्यकौर्मे तथाहुर्वायु चाहुः सात्त्विकं मध्यमं च । विष्णोः पुराणं भागवतं पुराणं सत्त्वोत्तमं गारुडं चाहुरार्याः ॥ ३,१.
स्कान्दं पाद्मं वामनं वै वराहं तथाग्रेयं भविष्यं पर्वसृष्टौ । एतान्याहू राजसानीति विप्रास्तत्रैकदेशः सात्त्विकस्तामसश्च ॥ ३,१.
रजः प्राचुर्याद्राजसानीति च हुः श्राव्याणि नैतानि मुमुक्षुभिः सदा । तेषां मध्ये सात्त्विकांशाश्च संति तेषां श्रुतेर्गारुडीयं फलं च ॥ ३,१.
ब्रह्माण्डलैङ्ग्ये ब्रह्मवैवर्तकं वै मार्कंण्डेयं ब्राह्ममादित्यकं च । एतान्या हुस्तामसानीति विप्रास्तत्रैकदेशः सात्त्विको राजसश्च ॥ ३,१.
श्राव्याणि नैतानि मनुष्यलोके तत्त्वेच्छुभिस्तामसानीत्यतो हि । तेषु स्थिताः सात्त्विकांशा मुनीन्द्रास्तेषां श्रुतिर्गारुडैकाङ्घ्रितुल्या ॥ ३,१.
अल्पान्युपपुराणानि वदन्त्यष्टादशानि च । विष्णुधर्मोतरं चैव तन्त्रं भागवतं तथा ॥ ३,१.
तत्त्वसारं नारसिंहं वायुप्रोक्तं तथैव च । तथा हंसपुराणं च षडेतानि मुनीश्वराः ॥ ३,१.
सात्त्विकान्येव जानीध्वं प्रायशो नात्र संशयः । एतेषां श्रवणादेव गारुडार्धफलं श्रुतम् ॥ ३,१.
भविष्योत्तरनामानं बृहन्नारदमेव च । यमनारदसंवादं लघुनारदमेव च ॥ ३,१.
विनायकपुराणं च बृहद्ब्रह्माण्डमेव च । एतानि राजसान्याहुः श्रवणाद्भुक्तरुत्तमा ॥ ३,१.
गारुडात्पादतुल्यं च फलं चाहुर्मनीषिणः । पुराणं भागवतं शैवं नन्दिप्रोक्तं तथैव च ॥ ३,१.
पाशुपत्यं रैणुकं च भैरवं च तथैव च । एतानि तामसान्याहुर्हरितत्त्वार्थवेदिनः ॥ ३,१.
एतेषां श्रवणाद्विप्रागारुडाङ्घ्यर्ध्मेव च । सर्वेष्वपि पुराणेषु श्रेष्ठं भागवतं स्मृतम् ॥ ३,१.