गृणन्तः परमं ब्रह्म जगच्चक्षुर्महौजसः । सर्वशास्त्रार्थतत्त्वज्ञास्तेपुर्नैमिष कानने ॥ ३,१.
यज्ञैर्यज्ञपतिं केचिज्ज्ञानैर्ज्ञानात्मकं परम् । केचित्परमया भक्त्या नारायणमपूजयन् ॥ ३,१.
एकदा तु महात्मानः समाजं चक्रुरुत्तमाः । धर्मार्थकाममोक्षाणामुपायं ज्ञातुमिच्छवः ॥ ३,१.
षद्विंशतिसहस्राणि मुनीनामूर्ध्वरेतसाम् । तेषां शिष्यप्रशिष्याणां संख्या वक्तुं न शङ्क्यते ॥ ३,१.
मुनयो भावितात्मानो मिलितास्ते महोजसः । लोकानुग्रहकर्तारो वीतरागा विमत्सराः ॥ ३,१.
कथं हरौ मनुष्याणां भक्तिरव्यभिचारिणी । केन सिध्येत्तु सकलं कर्म त्रिविधमात्मनः ॥ ३,१.
इत्येवं प्रष्टुमात्मानमुद्यतान्प्रेक्ष्य शौनकः । सांज लिर्वाक्यमाह स्म विनयावनतः सुधीः ॥ ३,१.
शौनक उवाच । आस्ते सिद्धाश्रमे पुण्ये सूतः पौराणिकोत्तमः । स एतदखिलं वेत्ति व्यासशिष्यो यतीश्वरः ॥ ३,१.
तस्मात्तमेव पृच्छाम इत्येवं शौनको मुनिः । अथ ते ऋषयो जग्मुः पुण्यं सिद्धाश्रमं ततः ॥ ३,१.
पप्रच्छुस्ते सुखासीनं नैमिषारण्यवासिनः । ऋषय ऊचुः । वयं त्वतिथयः प्राप्तास्त्वातिथेयोसि सुव्रत ॥ ३,१.
स्नानदानोपचारेण पूजयित्वा यथाविधि । केन विष्णुः प्रसन्नः स्यात्स कथं पूज्यते नरैः ॥ ३,१.
मुक्तिसाधनभूतं च ब्रूहि तत्त्वविनिर्णयम् । सूत उवाच । शृणुध्वमृषयः सर्वे हरिं तत्त्वविनिर्णयम् ॥ ३,१.
नत्वा विष्णुं श्रियं वायुं भारतीं शेषसंज्ञकम् । द्वैपायनं गुरुं कृष्णं प्रवक्ष्यामि यथामति ॥ ३,१.
नास्ति नारायणसमं न भूतं न भविष्यति । एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम् ॥ ३,१.
शौनक उवाच । किमर्थं नमनं विष्णोर्ग्रन्थादौ मुनिसत्तम । कर्तव्यं ब्रूहि मे ब्रह्मन्कृपया मम सुव्रत ॥ ३,१.
ततः श्रियं ततो वायुं भारतीं च ततः परम् । अन्ते व्यासं किमर्थं च त्वं नमस्कृतवानसि । सूतसूत महाभाग ब्रूहि कारणमत्र च ॥ ३,१.
सूत उवाच । आदौ वन्द्यः सर्ववेदैकवेद्यो वेदे शास्त्रे सेतिहासे पुराणे । सत्तां प्रायो विष्णुरेवैक एव प्रकाशतेऽतो नम्य एको हरिर्हि ॥ ३,१.
सर्वत्र मुख्यस्त्वधिकोन्यतोपि स एव नम्यो न च शङ्कराद्याः । नमन्ति येऽविनयाच्छङ्करं तु विनायकं चण्डिकां रेणुकां च ॥ ३,१.
तथा सूर्यं भैरवं मातारश्व तथा वाणीं गिरिजां वै श्रियं च । सर्वेपि ते वैष्णवा नैव लोके न तद्भक्ता वेति चार्या वदन्ति ॥ ३,१.
न पार्थिक्यान्नमनं कार्यमेव प्रीणन्ति नैता देवताः पूजनेन । पूजां गृहीत्वा देवताश्चैव सर्वाः किञ्चिद्दत्वा फलदानेन तांश्च ॥ ३,१.
संतर्प्य तुष्टैः स्वमनोनु सारात्तैः कारितां काम्यपूजां तथैव । निवेदयित्वा परदेवतायां विष्णौ हरौ श्रीपुरुषादिवन्द्ये ॥ ३,१.
इहापरत्रापि सुखेतराणि दास्यन्ति पश्चादधरं वै तमश्च । अतो ह्येते नैव पूज्या न नम्या मोक्षेच्छुभिर्ब्राह्मणाद्यैर्द्विजेन्द्र ॥ ३,१.
तथैव सर्वाश्रमिभिश्च नित्यं महाविपत्तावपि विप्रवर्याः । श्रीकाम्य या ये तु भजन्ति नित्यं श्रीब्रह्मरुद्रेद्रयमादिदेवान् ॥ ३,१.
इहेव भुञ्जन्ति महच्च दुः खं महापदः कुष्ठभगन्दरादीन् । नमन्ति येऽवैष्णवान्ब्रह्मरुद्रवायु प्रतीकान्नैव ते विष्णुभक्ताः ॥ ३,१.
अभिप्रायं त्वत्र वक्ष्ये मुनीन्द्राः परं गोप्यं हृदि धार्यं हि तद्धि । वायोः प्रतीकं पूज्यमेवेह विप्रा न ब्रह्मरुद्रादिप्रतीकमेव ॥ ३,१.
पूजाकाले देवदेवस्य विष्णोर्वायोः प्रतीकं योग्यभागे निधाय । अन्तर्गतं तस्य वायोर्हरिं च लक्ष्मीपतिं पूजयित्वा हि सम्यक् ॥ ३,१.
पश्चाद्वायोः सुप्रतीकं च सम्यङ्निर्माल्यशेषेण हरेः समर्चयेत् । पृथक्च स्रग्धूपविलेपनादिपूजां प्रकुर्वन्ति च ये विमूढः ॥ ३,१.
तेषां दुः खमिह लोके परत्र भविष्यते नात्र विचार्यमस्ति । प्रायश्चित्तं स्वस्ति विप्राः कथञ्चित्तत्कुर्वन्तु स्मरणं नाम विष्णोः ॥ ३,१.
पाषण्डरुद्रादिकसं प्रतिष्ठितान्हरेर्वायोः शङ्करस्य प्रतीकान् । नमन्ति ये फलबुद्ध्या विभूढास्तेषां फलं शाश्वतं दुः खमेव ॥ ३,१.
वायोः प्रतीकं यदि विप्रवर्यैः प्रतिष्ठितं चेन्नमनं हि कार्यम् । नैवेद्यशेषेण हरेश्च विष्णोः पूजा कृता चेन्न हि दोषलेशः ॥ ३,१.