अपाकृतस्तु सन्देहो ब्राह्मणा भवतां मया । उक्तं सुपर्णसंज्ञन्तु पुराणं परमाद्भुतम् ॥ २,४९.
इदमाप हरेस्तार्क्ष्यस्तार्क्ष्यादाप ततो भृगुः । भृगोर्वसिष्ठः संप्राप वामदेवस्ततः पुनः ॥ २,४९.
पराशरमुनिः प्राप तस्माद्व्यासस्ततो ह्यहम् । मया तु भवतां प्रोक्तं परं गुह्यं हरेरिदम् ॥ २,४९.
य इदं शृणुयान्मर्त्यो यो वाप्यभिदधाति च । इहामुत्र च लोके स सर्वत्र सुखमाप्नुयात् ॥ २,४९.
व्रजतः संयमन्यां यद्दुः खमत्र निरूपितम् । अस्य श्रवणतः पुण्यं तन्मुक्तो जायते ततः ॥ २,४९.
अत्रोक्तकर्मपाकादिश्रवणाच्च नृणामिह । वैराग्यमावहेद्यस्मात्तस्माच्छ्रोतव्यमेव च ॥ २,४९.
भजत जितहृषीकाः कृष्णमेनं मुनीशं समजनि बत यस्माद्गीः सुधासारधारा । पृषतमपि यदीयं वर्णरूपं निपीय श्रुतिपुटचुलुकेन प्राप्नुयादात्मनैक्यम् ॥ २,४९.
व्यास उवाच । इति सूतमुखोद्गीर्णांसर्वशास्त्रार्थमण्डिताम् । वैष्णवीं वाक्सुधां पीत्वा ऋषयस्तुष्टिमाययुः ॥ २,४९.
प्रशशंसुस्तथान्योन्यं सूतं सर्वार्थदर्शिनम् । प्रहर्षमतुलं प्रापुर्मुनयः शौनकादयः ॥ २,४९.
इति हरिवचनानि सूतवाचा खगपतिसंशयभेदकानि यानि । स मुनिरपि निशम्य शौनकेन्द्रो बहुतरमानयति स्म चात्मनि स्वम् ॥ २,४९.
अपूजयंस्ते मुनयस्तदानीमुदाखाग्भिर्मुहुरेव सूतम् । धन्योऽसि सूत त्वमिहेत्युदैरयन्व्यसर्जयंस्तं च निवर्तितेऽध्वरे ॥ २,४९.
पुराणं गारुडं पुण्यं पवित्रं पापनाशनम् २,४९.
श्रुत्वा दानानि देयानि वाचकायाखिलानि च । पूर्वोक्तशयनादीनि नान्यथा सफलं भवेत् ॥ २,४९.
पुराणं पूजयेत्पूर्वं वाचकं तदनन्तरम् । वस्त्रालङ्कारगोदानैर्दक्षिणाभिश्च सादरम् ॥ २,४९.
अन्नदानैर्हेमदानैर्भमिदानैश्च भूरिभिः । पूजयेद्वाचकं भक्त्या बहुपुण्यफलाप्तये ॥ २,४९.
यश्चेदं शृणुयान्मर्त्यो यथापि परिकीर्तयेत् । विहाय यातनां घोरां धूतपापो दिवं व्रजेत् ॥ २,४९.
अथ गारुडे ब्रह्मकाण्डस्तृतीय आरभ्यते । ओं मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान् गोपानां स्वजनोऽसतां क्षितिभृतां शास्ता स्वपित्रोः शिशुः । मृत्युर्भोजपतेर्विधातृविहित स्तत्त्वं परं योगिनां वृष्णीनां च पतिः सदैव शुशुभे रङ्गेऽच्युतः साग्रजः ॥ ३,१.
नमो नारायणायेति तस्मै वै मूलरूपिणे । नमस्कृत्य प्रवक्ष्यामि नारायणकथामिमाम् ॥ ३,१.
शौनकाद्या महात्मानो ह्यृषयो ब्रह्मवादिनः । नैमिषाख्ये महापुण्ये तपस्तेपुर्महत्तरम् ॥ ३,१.
जितेन्द्रिया जिताहाराः संतः सत्यपरायणाः । यजन्तः परया भक्त्या विष्णुमाद्यं जगद्गुरुम् ॥ ३,१.
गृणन्तः परमं ब्रह्म जगच्चक्षुर्महौजसः । सर्वशास्त्रार्थतत्त्वज्ञास्तेपुर्नैमिष कानने ॥ ३,१.
यज्ञैर्यज्ञपतिं केचिज्ज्ञानैर्ज्ञानात्मकं परम् । केचित्परमया भक्त्या नारायणमपूजयन् ॥ ३,१.
एकदा तु महात्मानः समाजं चक्रुरुत्तमाः । धर्मार्थकाममोक्षाणामुपायं ज्ञातुमिच्छवः ॥ ३,१.
षद्विंशतिसहस्राणि मुनीनामूर्ध्वरेतसाम् । तेषां शिष्यप्रशिष्याणां संख्या वक्तुं न शङ्क्यते ॥ ३,१.
मुनयो भावितात्मानो मिलितास्ते महोजसः । लोकानुग्रहकर्तारो वीतरागा विमत्सराः ॥ ३,१.
कथं हरौ मनुष्याणां भक्तिरव्यभिचारिणी । केन सिध्येत्तु सकलं कर्म त्रिविधमात्मनः ॥ ३,१.
इत्येवं प्रष्टुमात्मानमुद्यतान्प्रेक्ष्य शौनकः । सांज लिर्वाक्यमाह स्म विनयावनतः सुधीः ॥ ३,१.
शौनक उवाच । आस्ते सिद्धाश्रमे पुण्ये सूतः पौराणिकोत्तमः । स एतदखिलं वेत्ति व्यासशिष्यो यतीश्वरः ॥ ३,१.
तस्मात्तमेव पृच्छाम इत्येवं शौनको मुनिः । अथ ते ऋषयो जग्मुः पुण्यं सिद्धाश्रमं ततः ॥ ३,१.
पप्रच्छुस्ते सुखासीनं नैमिषारण्यवासिनः । ऋषय ऊचुः । वयं त्वतिथयः प्राप्तास्त्वातिथेयोसि सुव्रत ॥ ३,१.