आगमोक्तं विवेकोत्थं द्विधा ज्ञानं प्रचक्षते । शब्दव्रह्मागममयं परं ब्रह्म विवेकजम् ॥ २,४९.
अद्वैतं केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे । समं तत्त्वं न जानन्ति द्वैताद्द्वैतविवर्जितम् ॥ २,४९.
द्वे पदे बन्धमोक्षाय नममेति ममेति च । ममेति बध्यते जन्तुर्नममेति प्रमुच्यते ॥ २,४९.
तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तिदा । आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ॥ २,४९.
यावत्कर्माणि दीप्यन्ते यावत्संसारवासना । यावदिन्द्रियचापल्यं तावत्तत्त्वकथा कुतः ॥ २,४९.
यावद्देहाभिमानश्च ममता यावदेव हि । यावत्प्रयत्नवेगोऽस्ति यावत्संकल्पकल्पना ॥ २,४९.
यावन्नो मनसः स्थैर्यं न यावच्छास्त्रचिन्तनम् । यावन्न गुरुकारुण्यं तावत्तत्त्वकथा कुतः ॥ २,४९.
तावत्तपो व्रतं तीर्थं जपहोमार्चनादिकम् । वेदशास्त्रागमकथा यावत्तत्त्वं न विन्दति ॥ २,४९.
तस्मात्सर्वप्रयत्नेन सर्वावस्थासु सर्वदा । तत्त्वनिष्ठो भवेत्तार्क्ष्य यदीच्छेन्मोक्षमात्मनः ॥ २,४९.
धर्मज्ञानप्रसूनस्य स्वर्गमोक्षफलस्य च । तापत्रयादिसन्तप्तश्छायां मोक्षतरोः श्रयेत् ॥ २,४९.
तस्माज्ज्ञानेनात्मतत्त्वं विज्ञेयं श्रीगुरोर्मुखात् । सुखेन मुच्यते जन्तुर्घोरसंसारबन्धनात् ॥ २,४९.
तत्त्वज्ञस्यान्तिमं कृत्यं शृणु वक्ष्यामि तेऽधुना । येन मोक्षमवाप्नोति ब्रह्म निर्वाणसंज्ञकम् ॥ २,४९.
अन्तकाले तु पुरुष आगते गतसाध्वसः । छिन्द्यादसंगशस्त्रेण स्पृहां देहेऽनु या च तम् ॥ २,४९.
गृहात्प्रव्राजितो धीरः पुण्यतीर्थजलाप्लुतः । शुचौ विविक्त आसीनो विधिवत्कल्पितासने ॥ २,४९.
अभ्यसेन्मनसा शुद्धं त्रिवृद्ब्रह्माक्षरं परम् । मनो यष्छेज्जितश्वासो ब्रह्म बीजमविस्मरन् ॥ २,४९.
नियच्छेद्विषयेभ्योऽक्षान्मनसा बुद्धि सारथिः । मनः कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया ॥ २,४९.
अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् । एवं समीक्ष्य चात्मानमात्मन्याधाय निष्कले ॥ २,४९.
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ २,४९.
न यत्र दाम्भिका यान्ति ज्ञानवैराग्यवर्जिताः । सुधियस्तां गतिं यान्ति तानहं कथयामि ते ॥ २,४९.
निर्मानमोहा जितसंगदोषा अध्यात्मनित्या विनिवृत्तकामाः । द्वन्द्वैर्विमुक्ताः सुखदुः खसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ॥ २,४९.
ज्ञानह्रदे सत्यजले रागद्वेषमलापहे । यः स्नाति मानसे तीर्थे स वै मोक्षमवाप्नुयात् ॥ २,४९.
प्रौढवैराग्यमास्थाय भजते मामनन्यभाक् । पूर्णदृष्टिः प्रसन्नात्मा स वै मोक्षमवाप्नुयात् ॥ २,४९.
त्यक्त्वा गृहं च यस्तीर्थे निवसेन्मरणोत्सुकः । मुक्तिक्षेत्रेषु म्रियते स वै मोक्षमवाप्नुयात् ॥ २,४९.
अयोध्या मथुरा माया काशी काञ्ची अवन्तिक । पुरी द्वारवती ज्ञेयाः सप्तैता मोक्षदायिकाः ॥ २,४९.
इति ते कथितं तार्क्ष्य मोक्षधर्मं सनातनम् । ज्ञानवैराग्यसहितं श्रुत्वा मोक्षमवाप्नुयात् ॥ २,४९.
मोक्षं गच्छन्ति तत्त्वज्ञा धार्मिकाः स्वर्गतिं नराः । पापिनो दुर्गतिं यान्ति संसरन्ति खगादयः ॥ २,४९.
सूत उवाच । स्वप्रश्रोत्तरराद्धान्तमेवं भगवतो मुखात् । श्रुत्वा हृष्टतनुस्तार्क्ष्यो ननाम जगदीश्वरम् ॥ २,४९.
सन्देहो मे महान्नष्टो भवद्वाक्यविरोचनात् । इत्युक्त्वा विष्णुमामन्त्र्य स गतः कश्यपाश्रमम् ॥ २,४९.
सद्यो देहान्तरं याति यथा याति विलम्बतः । अनयोरुभयोश्चैव न विरोधस्तथैव वः ॥ २,४९.
सर्वमाख्यातवांस्तात श्रुतो भगवतो यथा । मारीचोऽपि मुदं लेभे श्रुत्वा वाक्यं रमापतेः ॥ २,४९.