षर्ड्शनमहाकूपे पतिताः पशवः खग । परमार्थं न जानन्ति पशुपाशनियन्त्रिताः ॥ २,४९.
वेदशास्त्रार्णवैर्घेरैरुह्यमाना इतस्ततः । षडूर्मिनिग्रहग्रस्तास्तिष्ठन्ति हि कुतार्किकाः ॥ २,४९.
वेदागमपुराणज्ञः परमार्थं न वेत्ति यः । विडम्बकस्य तस्यैव तत्सर्वं काकभाषितम् ॥ २,४९.
इदं ज्ञानमिदं ज्ञेयमिति चिन्तासमाकुलाः । पठन्त्यहर्निशं शास्त्रं परतत्त्वपराङ्मुखाः ॥ २,४९.
वाक्यच्छन्दोनिबन्धेन काव्यालङ्कारशोभिताः । चिन्तया दुःखिता मूढास्तिष्ठन्ति व्याकुलेन्द्रियाः ॥ २,४९.
अन्यथा परमं तत्त्वं जनाः क्लिश्यन्ति चान्यथा । अन्यथा शास्त्रसद्भावो व्याख्यां कुर्वन्ति चान्यथा ॥ २,४९.
कथयन्त्युवन्मनीभावं स्वयं नानुभवन्ति च । अहङ्कारस्ताः केचिदुपदेशादिवार्जिताः ॥ २,४९.
पठन्ति वेदशास्त्राणि बोधयन्ति परस्परम् । न जानन्ति परं तत्त्वं दर्वी पाकरसं यथा ॥ २,४९.
शिरो वहति पुष्पाणि गन्धं जानाति नासिका । पठन्ति वेदशास्त्राणि दुर्लभो भावबोधकः ॥ २,४९.
तत्त्वमात्मस्थमज्ञात्वा मूढः शास्त्रेषु मुह्यति । गोपः कक्षागते च्छागे कूपं पश्यति दुर्मतिः ॥ २,४९.
संसारमोहनाशाय शाब्दबोधो न हि क्षमः । न निवर्तेत तिमिरं कदाचिद्दीपवार्तया ॥ २,४९.
प्रज्ञाहीनस्य पठनं यथान्धस्य च दर्पणम् । अतः प्रज्ञावतां शास्त्रं तत्त्वज्ञानस्य लक्षणम् ॥ २,४९.
इदं ज्ञानमिदं ज्ञेयं सर्वन्तु श्रोतुमिच्छति । दिव्यवर्षसहस्राच्च शास्त्रान्तं नैव गच्छति ॥ २,४९.
अनेकानि च शास्त्राणि स्वल्पायुर्विघ्नकोटयः । तस्मात्सारं विजानीयात्क्षीरं हंस इवाम्भसि ॥ २,४९.
अभ्यस्य वेदशास्त्राणि तत्त्वं ज्ञात्वाथ बुद्भिमान् । पलालमिव धान्यार्थी सर्वशास्त्राणि सन्त्यजेत् ॥ २,४९.
यथामृतेन तृप्तस्य नाहारेण प्रयोजनम् । तत्त्वज्ञस्य तथा तार्क्ष्य न शास्त्रेण प्रयोजनम् ॥ २,४९.
न वेदाध्ययनान्मुक्तिर्न शास्त्रपठनादपि । ज्ञानादेव हि कैवल्यं नान्यथा विनतात्मजः ॥ २,४९.
नाश्रमः कारणं मुक्तेर्दर्शनानि न कारणम् । तथैव सर्वकर्माणि ज्ञानमेव हि कारणम् ॥ २,४९.
मुक्तिदा गुरुवागेका विद्याः सर्वा विडम्बिकाः । शास्त्रभारसहस्रेषु ह्येकं सञ्जीवनं परम् ॥ २,४९.
अद्वैतं हि शिवं प्रोक्तं क्रिययापरिवर्जितम् । गुरुवक्त्रेण लभ्येत नाधीतागमकोटिभिः ॥ २,४९.
आगमोक्तं विवेकोत्थं द्विधा ज्ञानं प्रचक्षते । शब्दव्रह्मागममयं परं ब्रह्म विवेकजम् ॥ २,४९.
अद्वैतं केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे । समं तत्त्वं न जानन्ति द्वैताद्द्वैतविवर्जितम् ॥ २,४९.
द्वे पदे बन्धमोक्षाय नममेति ममेति च । ममेति बध्यते जन्तुर्नममेति प्रमुच्यते ॥ २,४९.
तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तिदा । आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ॥ २,४९.
यावत्कर्माणि दीप्यन्ते यावत्संसारवासना । यावदिन्द्रियचापल्यं तावत्तत्त्वकथा कुतः ॥ २,४९.
यावद्देहाभिमानश्च ममता यावदेव हि । यावत्प्रयत्नवेगोऽस्ति यावत्संकल्पकल्पना ॥ २,४९.
यावन्नो मनसः स्थैर्यं न यावच्छास्त्रचिन्तनम् । यावन्न गुरुकारुण्यं तावत्तत्त्वकथा कुतः ॥ २,४९.
तावत्तपो व्रतं तीर्थं जपहोमार्चनादिकम् । वेदशास्त्रागमकथा यावत्तत्त्वं न विन्दति ॥ २,४९.
तस्मात्सर्वप्रयत्नेन सर्वावस्थासु सर्वदा । तत्त्वनिष्ठो भवेत्तार्क्ष्य यदीच्छेन्मोक्षमात्मनः ॥ २,४९.
धर्मज्ञानप्रसूनस्य स्वर्गमोक्षफलस्य च । तापत्रयादिसन्तप्तश्छायां मोक्षतरोः श्रयेत् ॥ २,४९.