ॐ पद्माय नमः मघ्ये तु पूजयेद्रुद्र पूर्वादिषु तथैव च ॐ वां(रां) दीप्तायै नमः ॐ वूं (रूं भद्रायै नमः ॐ वौं (रौं) विभूत्यै नमः ॐ वं (रं) वैद्युतायै नमः ॐ रो सर्वतोमुख्यै नमः ।। 39.
ॐ अर्कासनाय नमः एतास्तु पूजयेन्मध्ये ह्रन्मंत्राञ्छृणु शङ्कर अनेनावाहनं कुर्य्यात्स्थापनं सन्निधापनम् 39.
मुद्राया दर्शनं रुद्र मूलमन्त्रेण वा हर एकचक्ररथारूढं द्विबाहुं धृतपङ्कजम् ।। 39.
एवं ध्यायेत्सदा सूर्य्यं मूलमन्त्रं श्रृणुष्व च 39.
वारत्रयं पद्ममुद्रां बिम्बमुद्रां च दर्शयेत् ॐ अर्काय शिरसे स्वाहा ॐ हुं कवचाय हुं ॐ वः अस्त्राय फडिति ।। 39.
आग्नेय्यामथवैशान्यां नैर्ऋत्यामर्चयेद्धर 39.
दिस्वस्त्रं पूजयेद्रुद्र सोमं तु श्वेतवर्णकम् 39.
दक्षिणे पूजयेद्रुद्र पतिवर्णं गुरुं यजेत् 39.
रक्तमङ्गारकं चैव आग्नेये पूजयेद्धर 39.
राहुं वायव्यदेशे तु नन्द्यावर्त्तनिभिं हर 39.
एभिर्मन्त्रैर्महादेव तच्छृणुष्व च शङ्कर ।। 39.
ॐ सों सोमाय नमः ॐ बृं बृहस्पतये नमः ॐ अं अंगारकाय नमः ॐ रं राहवे नमः 39.
पाद्यादीन्मूलमन्त्रेण दत्त्वा सूर्य्याय शङ्कर 39.
जप्त्वा चाष्टसहस्त्रं तु तच्च तस्मै समर्पयेत् 39.
ॐ तेजश्चण्डाय हुं फट् स्वधा स्वाहा पौषट् 39.
तिलतण्डुलसंयुक्तं रक्तचन्दनचर्चितम् 39.
कृत्वा शिरसि तत्पात्रं जानुभ्यामवनिं गतः 39.
गणं गुरून्प्रपूज्याथ सर्वान्देवानन्प्रपूजयेत् ॐ अं गुरुभ्यो नमः ।। 39.
सूर्य्यस्य कथिता पूजा कृत्वैतां विष्णुलोकभाक् ।। 39.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सूर्यार्चनप्रकारो नामैकोनचत्वारिंशोऽध्यायः
माहेश्वरीं च मे पूजां वद शङ्खगदाधर 40.
श्रृणु माहेश्वरीं पूजां कथ्यमानां वृषध्वज 40.
न्यासं कृत्वा मण्डले वै पूजयच्चे महेश्वरम् 40.
ॐ हां शिवासनदेवता आगच्छतेति 40.
ॐ हां गणपतये नमः ॐ हां नन्दिने नमः ॐ हां गङ्गायै नमः ॐ हां महाकलायै नमः 40.
एते द्वारे प्रपूज्या वै स्नानगन्धादिभिर्हर ॐ हां गुरुभ्यो नमः ॐ हां अनन्ताय नमः ॐ हां ज्ञानाय नमः ॐ हां ऐश्वर्याय नमः ॐ हां अज्ञानाय नमः ॐ हां अनैश्वर्य्याय नमः ॐ हां अधश्छन्दाय नमः ॐ हां कर्णिकायै नमः ॐ हां ज्येष्ठायै नमः ॐ काल्यै नमः ॐ बलप्रमथिन्यै नमः ॐ हां मनोन्मन्यै नमः ॐ हां हौं हं शिवमूर्त्तये नमः ॐ हां हीं हौं शिवाय नमः ॐ शिरसे नमः ॐ हैं कवचाय नमः ॐ हः अस्त्राय नमः 40.
ॐ हां सिद्ध्यै नमः ॐ हां विद्युतायै नमः ॐ हां बोधायै नमः ॐ हां स्वधायै नमः 40.
सत्यस्याष्टौ कला ज्ञेयाः पूज्याः पूर्वादिषु स्थिताः ।। 40.
ॐ हां वामदेवाय नमः ॐ हां रक्षायै नमः ॐ हां कन्यायै नमः ॐ हां जनन्यै नमः ॐ हां वृद्ध्यै नमः ॐ रा(धा) त्र्यै नमः ॐ हां मोहिन्यै नमः वामदेवकला ज्ञेयास्त्रयो दश वृषध्वज ।। 40.
ॐ हां तत्पुरुषाय नमः ॐ हां प्रतिष्ठायै नमः ॐ हां शान्त्यै नमः 40.