तच्छ्रीमद्रारुडं पुण्यं सर्वदं पठतस्तव 3.
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च 4.
श्रृणु रुद्र प्रवक्ष्यामि सर्गादीन्पापनाशनान् 4.
नरनारायणो देवो वासुदेवो निरंजनः 4.
तदेतत्सर्वमेवैतव्द्यक्ताव्यक्तस्वरूपवत् । तथा पुरुषरूपेण कालरूपेण च स्थितम् ।। 4.
व्यक्तं विष्णुस्तथाऽव्यक्तं पुरुषः काल एव च 4.
अनादिनिधनो धाता त्वनन्तः पुरुषोत्तमः 4.
तस्माहुद्धिर्मनस्तस्मात्ततः खं पवनस्ततः 4.
अण्डो हिरण्मयो रुद्र । तस्यान्तः स्वयमेव हि 4.
ब्रह्मा चतुर्मुखो भूत्वा रजोमात्राधिकः सदा 4.
अण्डस्यान्तर्जगत्सर्वं सदेवासुरमानुषम् 4.
अपसंह्रियते चान्ते संहर्त्ता च स्वयं हरि 4.
रुद्ररूपी च कल्पान्ते जगत्संहरतेऽखिलम् 4.
दंष्टूयोद्धरति ज्ञात्वा वारहीमास्थितस्तनूम् 4.
प्रथमो महतः सर्गो विरूपो ब्रह्मणस्तु सः 4.
वैकारिकस्तृतीयस्तु सर्गस्त्वैन्द्रियकः स्मृतः 4.
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः 4.
तदूर्द्धस्त्रोतसां षष्ठो देवसर्गस्तु स स्मृतः 4.
अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसस्तु सः 4.
प्राकृतो वैकृतश्चापि कौमारो नवमः स्मृतः 4.
ब्रह्मणः कुर्वतः सृष्टिं जज्ञिरे मानसाः सुताः 4.
सिसृक्षुरम्भांस्येतानि स्वमात्मानमपूजयत् 4.
सिसृक्षेर्जघनात्पूर्वमसुरा जज्ञिरे ततः 4.
तमोमात्रा तनुस्त्यक्ता शङ्कराभूद्विभावरी 4.
सत्त्वोद्रिक्तास्तु मुखतः संभूता ब्रह्मणो हर ! 4.
ततो हि बलिनो रात्रावसुरा देवता दिवा 4.
सा चोत्सृष्टाभवत्सन्ध्या दिननक्तान्तरस्थितिः 4.
सा त्यक्ता चाभवज्ज्योत्स्त्रा प्राक्सन्ध्या याभिधीयते 4.
रजोमात्रां तनु गृह्य क्षुदभूत्कोप एव च 4.
यक्षाख्या यक्षणाज्ज्ञेयाः सर्पा वै केशसर्पणात् 4.