सूत उवाच गरुडोक्तं कश्यपाय पुरा व्यासाच्छ्रुतं मया ।। 1.
एको नारायणो देवो देवानामीश्वरेश्वरः 1.
जगतो रक्षणार्थाय वासुदेवोऽजरोऽमरः 1.
हरिः स प्रथमं देवः कौमारं सर्गमास्थितः 1.
द्वितीयं तु भवायास्य रसातलगतां महीम् 1.
तृतीयमृषिसर्गं तु देवर्षित्वमुपेत्य सः 1.
नरनारायणो भूत्वा तुर्य्ये तेपे तपो हरिः 1.
पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् 1.
षष्ठमत्रेरपत्यत्वं दत्तः प्राप्तोऽनसूयया 1.
ततः सप्त आकूत्यां रुचेर्यज्ञोऽभ्यजायत 1.
अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः 1.
ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः 1.
रूपं स जगृहे मात्स्यं चाक्षुषान्तरसंप्लवे 1.
सुरासुराणामुदधिं मथ्नतां मन्दराचलम् 1.
धान्वन्तरं द्वादशमं त्रयोदशममेव च 1.
चतुर्दशं नारसिंहं चैत्य (वैर) दैत्येन्द्रमूर्जितम् 1.
पञ्चदशं वामनको भूत्वागादध्वरं बलेः 1.
अवतारे षोडशमे पश्यन्ब्रह्मद्रुहो नृपान् 1.
ततः सप्तदशे जातः सत्यवत्यां पराशरात् 1.
नरदेवत्वमापन्नः सुरकार्य्यचिकीर्षया 1.
एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी 1.
ततः कलेस्तु सन्ध्यान्ते सम्मोहाय सुरद्विषाम् 1.
अथ सोऽष्टमसन्ध्यायां नष्टप्रायेषु राजसु 1.
अवतारा ह्यसंख्येया हरेः सत्त्वनिधेर्द्विजाः 1.
तस्मात्सर्गादयो जाताः संपूज्याश्च व्रतादिना 1.
कथं व्यासेन कथितं पुराणं गारुडं तव 2.
सूत उवाच तत्र दृष्टो मया व्यासो ध्यायमानः परेश्वरम् ।। 2.
तं प्रणम्योपविष्टोऽहं पृष्टवान्हि मुनीश्वरम् सूत उवाच 2.
मन्ये ध्यायसि तं यस्मात्तस्माज्जानासि तं विभुम् 2.
श्रृणु सूत ! प्रवक्ष्यामि पुराणं गारुडं तव 2.