अथ श्रीगरुडमहापुराणं प्रारभ्यते ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
नमस्यामि हरिं रुद्रं ब्रह्माणं च गणाधिपम् 1.
सूतं पौराणिकं शान्तं सर्वशास्त्रविशारदम् 1.
तीर्थयात्राप्रसङ्गेन उपविष्टं शुभासने 1.
शौनकाद्या महाभागा नैमिषीयास्तपोधनाः 1.
ऋषय: ऊचुः देवतानां हि को देव ईश्वरः पूज्य एव कः ।। 1.
को ध्येयः को जगत्स्रष्टा जगत्पाति च हन्ति कः 1.
तस्य देवस्य किं रूपं जगत्सर्गः कथं मतः 1.
अवताराश्च के तस्य कथं वंशादिसम्भवः 1.
एतत्सर्वं तथान्यच्च ब्रूहि सूत ! महामते ! 1.
सूत उवाच गरुडोक्तं कश्यपाय पुरा व्यासाच्छ्रुतं मया ।। 1.
एको नारायणो देवो देवानामीश्वरेश्वरः 1.
जगतो रक्षणार्थाय वासुदेवोऽजरोऽमरः 1.
हरिः स प्रथमं देवः कौमारं सर्गमास्थितः 1.
द्वितीयं तु भवायास्य रसातलगतां महीम् 1.
तृतीयमृषिसर्गं तु देवर्षित्वमुपेत्य सः 1.
नरनारायणो भूत्वा तुर्य्ये तेपे तपो हरिः 1.
पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् 1.
षष्ठमत्रेरपत्यत्वं दत्तः प्राप्तोऽनसूयया 1.
ततः सप्त आकूत्यां रुचेर्यज्ञोऽभ्यजायत 1.
अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः 1.
ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः 1.
रूपं स जगृहे मात्स्यं चाक्षुषान्तरसंप्लवे 1.
सुरासुराणामुदधिं मथ्नतां मन्दराचलम् 1.
धान्वन्तरं द्वादशमं त्रयोदशममेव च 1.
चतुर्दशं नारसिंहं चैत्य (वैर) दैत्येन्द्रमूर्जितम् 1.
पञ्चदशं वामनको भूत्वागादध्वरं बलेः 1.
अवतारे षोडशमे पश्यन्ब्रह्मद्रुहो नृपान् 1.
ततः सप्तदशे जातः सत्यवत्यां पराशरात् 1.
नरदेवत्वमापन्नः सुरकार्य्यचिकीर्षया 1.