तस्य पुत्रस्तथेक्ष्वाकुः सूर्यवंशविवर्धनः । नवाभवन्सुतास्तस्य मनोरिक्ष्वाकुपूर्वजाः
तेषां नामानि राजेन्द्र शृणुष्वैकमनाः पुनः । इक्ष्वाकुरथ नाभागो धृष्टः शर्यातिरेव च
नरिष्यन्तस्तथा प्रांशुर्नृगो दिष्टश्च सप्तमः । करूषश्च पृषध्रश्च नवैते मानवाः स्मृताः
इक्ष्वाकुस्तु मनोः पुत्रः प्रथमः समजायत । तस्य पुत्रशतं चासीज्ज्येष्ठो विकुक्षिरात्मवान्
नवानां वंशविस्तारं संक्षेपेण निशामय । शूराणां मनुपुत्राणां मनोरन्तरजन्मनाम्
नाभागस्य तु पुत्रोऽभूदम्बरीषः प्रतापवान् । धर्मज्ञः सत्यसन्धश्च प्रजापालनतत्परः
धृष्टात्तु धार्ष्टकं क्षत्रं ब्रह्मभूतमजायत । संग्रामकातरं सम्यग्ब्रह्मकर्मरतं तथा
शर्यातेस्तनयश्चाभूदानर्तो नाम विश्रुतः । सुकन्या च तथा पुत्री रूपलावण्यसंयुता
च्यवनाय सुता दत्ता राज्ञाप्यन्धाय सुन्दरी । मुनिः सुलोचनो जातस्तस्याः शीलगुणेन ह
विहितो रविपुत्राभ्यामश्विभ्यामिति नः श्रुतम् । जनमेजय उवाच सन्देहोऽयं महान् ब्रह्मन् कथायां कथितस्त्वया
यद्राजा मुनयेऽन्धाय दत्ता पुत्री सुलोचना । कुरूपा गुणहीना वा नारी लक्षणवर्जिता
पुत्री यदा भवेद्राजा तदान्धाय प्रयच्छति । ज्ञात्वान्धं सुमुखीं कस्माद्दत्तवान्नृपसत्तमः
कारणं ब्रूहि मे ब्रह्मन्ननुग्राह्योऽस्मि सर्वदा । सूत उवाच - इति राज्ञो वचः श्रुत्वा परीक्षितसुतस्य वै
द्वैपायनः प्रसन्नात्मा तमुवाच हसन्निव । व्यास उवाच - वैवस्वतसुतः श्रीमाञ्छर्यातिर्नाम पार्थिवः
तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहाः । राजपुत्र्यः सरूपाश्च सर्वलक्षणसंयुताः
पत्न्यः प्रेमयुताः सर्वाः प्रिया राज्ञः सुसम्मताः । एका पुत्री तु तासां वै सुकन्या नाम सुन्दरी
पितुः प्रिया च मातॄणां सर्वासां चारुहासिनी । नगरान्नातिदूरेऽभूत्सरो मानससन्निभम्
बद्धसोपानमार्गं च स्वच्छपानीयपूरितम् । हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम्
दात्यूहसारसाकीर्णं सर्वपक्षिगणावृतम् । पञ्चधाकमलोपेतं चञ्चरीकसुसेवितम्
पार्श्वतश्च द्रुमाकीर्णं वेष्टितं पादपैः शुभैः । सालैस्तमालैः सरलैः पुन्नागाशोकमण्डितम्
वटाश्वत्थकदम्बैश्च कदलीखण्डराजितम् । जम्बीरैर्बीजपूरैश्च खर्जूरैः पनसैस्तथा
क्रमुकैर्नारिकेलैश्च केतकैः काञ्चनद्रुमैः । यूथिकाजालकैः शुभ्रैः संवृतं मल्लिकागणैः
जम्ब्वाम्रतिन्तिणीभिश्च करञ्जकुटजावृतम् । पलाशनिम्बखदिरबिल्वामलकमण्डितम्
बभूव कोकिलारावः केकास्वनविराजितम् । तत्समीपे शुभे देशे पादपानां गणावृते
भार्गवश्च्यवनः शान्तस्तापसः संस्थितो मुनिः । ज्ञात्वासौ विजनं स्थानं तपस्तेपे समाहितः
कृत्वा दृढासनं मौनमाधाय जितमारुतः । इन्द्रियाणि च संयम्य त्यक्ताहारस्तपोनिधिः
जलपानादिरहितो ध्यायन्नास्ते पराम्बिकाम् । सवल्मीकोऽभवद्राजल्लँताभिः परिवेष्टितः
कालेन महता राजन् समाकीर्णः पिपीलिकैः । तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वतः
कदाचित्स महीपालः कामिनीगणसंवृतः । आजगाम सरो राजन् विहर्तुमिदमुत्तमम्
शर्यातिः सुन्दरीवृन्दसंयुतः सलिलेऽमले । क्रीडासक्तो महीपालो बभूव कमलाकरे