ज्ञात्व प्रमाणमुर्व्यास्तु सुखं स्रक्ष्यामहे प्रजाः । इति सञ्चिन्त्य ते सर्वे प्रयाताः प्रेक्षितुं भुवः
तलं सर्वं परिज्ञातुं वचनान्नारदस्य च । प्राच्यां केचिद्गताः कामं दक्षिणस्यां तथापरे
प्रतीच्यामुत्तरस्यां तु कृतोत्साहाः समन्ततः । दक्षः पुत्रान्गतान्दृष्ट्वा पीडितस्तु शुचा भृशम्
अन्यानुत्पादयामास प्रजार्थं कृतनिश्चयः । तेऽपि तत्रोद्यताः कर्तुं प्रजार्थमुद्यमं सुताः
नारदः प्राह तान्दृष्ट्वा पूर्वं यद्वचनं मुनिः । बालिशा बत यूयं वै यदज्ञात्वा भुवः किल
प्रमाणं तु प्रजाः कर्तुं प्रवृत्ताः केन हेतुना । श्रुत्वा वाक्यं मुनेस्तेऽपि मत्वा सत्यं विमोहिताः
जग्मुः सर्वे यथापूर्वं भ्रातरश्चलितास्तथा । तान्सुतान्प्रस्थितान्दृष्ट्वा दक्षः कोपसमवितः
शशाप नारदं कोपात् पुत्रशोकसमुद्भवात् । दक्ष उवाच - नाशिता मे सुता यस्मात् तस्मान्नाशमवाप्नुहि
पापेनानेन दुर्बुद्धे गर्भवासं व्रजेति च । पुत्रो मे भव कामं त्वं यतो मे भ्रंशिताः सुताः
इति शप्तस्ततो जातो वीरिण्यां नारदो मुनिः । षष्टिर्भूयोऽसृजत्कन्या वीरिण्यामिति नः श्रुतम्
शोकं विहाय पुत्राणां दक्षः परमधर्मवित् । तासां त्रयोदश प्रादात्कश्यपाय महात्मने
दश धर्माय सोमाय सप्तविंशति भूपते । द्वे चैव भृगवे प्रादाच्चतस्रोऽरिष्टनेमिने
द्वे चैवाङ्गिरसे कन्ये तथैवाङ्गिरसे पुनः । तासां पुत्राश्च पौत्राश्च देवाश्च दानवास्तथा
जाता बलसमायुक्ताः परस्परविरोधकाः । रागद्वेषान्विताः सर्वे परस्परविरोधिनः । सर्वे मोहावृताः शूरा ह्यभवन्नतिमायिनः
शर्यातिराजवर्णनम् ममाख्याहि महाभाग राज्ञां वंशं सुविस्तरम् । सूर्यान्वयप्रसूतानां धर्मज्ञानां विशेषतः
शृणु भारत वक्ष्यामि रविवंशस्य विस्तरम् । यथा श्रुतं मया पूर्वं नारदाद्ऋषिसत्तमात्
एकदा नारदH श्रीमान्सरस्वत्यास्तटे शुभे । आजगामाश्रमे पुण्ये विचरन्स्वेच्छया मुनिः
प्रणम्य शिरसा पादौ तस्याग्रे संस्थितस्तदा । ततस्तस्यासनं दत्त्वा कृत्वार्हणमथादरात्
विधिवत्पूजयित्वा तं उक्तवान्वचनं त्विदम् । पावितोऽहं मुनिश्रेष्ठ पूज्यस्यागमनेन वै
कथां कथय सर्वज्ञ राज्ञां चरितसंयुताम् । राजानो ये समाख्याताः सप्तमेऽस्मिन्मनोः कुले
तेषामुत्पत्तिरतुला चरितं परमाद्भुतम् । श्रोतुकामोऽस्म्यहं ब्रह्मन् सूर्यवंशस्य विस्तरम्
समाख्याहि मुनिश्रेष्ठ समासव्यासपूर्वकम् । इति पृष्टो मया राजन्नारदः परमार्थवित्
उवाच प्रहसन्प्रीतः समाभाष्य मुदान्वयम् । नारद उवाच - शृणु सत्यवतीसूनो राज्ञां वंशमनुत्तमम्
पावनं कर्णसुखदं धर्मज्ञानादिभिर्युतम् । ब्रह्मा पूर्वं जगत्कर्ता नाभिपङ्कजसम्भवः
विष्णोरिति पुराणेषु प्रसिद्धः परिकीर्तितः । सर्वज्ञः सर्वकर्तासौ स्वयम्भूः सर्वशक्तिमान्
तपस्तप्त्वा स विश्वात्मा वर्षाणामयुतं पुरा । सृष्टिकामः शिवां ध्यात्वा प्राप्य शक्तिमनुत्तमाम्
पुत्रानुत्पदयामास मानसाञ्छुभलक्षणान् । मरीचिः प्रथिस्तेषामभवत्सृष्टिकर्मणि
तस्य पुत्रोऽतिविख्यातः कश्यपः सर्वसम्मतः । त्रयोदशैव तस्यासन्भार्या दक्षसुताः किल
देवाः सर्वे समुत्पन्ना दैत्या यक्षाश्च पन्नगाः । पशवः पक्षिणश्चैव तस्मात्सृष्टिस्तु काश्यपी
देवानां प्रथितः सूर्यो विवस्वान्नाम तस्य तु । तस्य पुत्रः स विख्यातो वैवस्वतमनुर्नृपः