किन्तु भानुप्रभाचन्द्रविद्युद्वह्निप्रभादयः । तस्मान्मायेश्वरीमम्बां स्वप्रकाशां तु संविदम्
आराधयेदतिप्रीत्या मायागुणनिवृत्तये । इति सम्यङ्मयाख्यातं वृत्रासुरवधादिकम्
यत्पृष्टं राजशार्दूल किमन्यच्छ्रोतुमिच्छसि । पूर्वार्धोऽयं पुराणस्य कथितस्तव सुव्रत
यत्र देव्यास्तु महिमा विस्तरेणोपपादितः । एतद्रहस्यं श्रीमातुर्न देयं यस्य कस्यचित्
देयं भक्ताय शान्ताय देवीभक्तिरताय च । शिष्याय ज्येष्ठपुत्राय गुरुभक्तियुताय च
इदमखिलकथानां सारभूतं पुराणं निखिलनिगमतुल्यं सप्रमाणानुविद्धम् । पठति परमभावाद्यः शृणोतीह भक्त्या स भवति धनवान्वै ज्ञानवान्मानवोऽत्र
दक्षप्रजापतिवर्णनम् सूत उवाच - श्रुत्वैतां तापसाद्दिव्यां कथां राजा मुदान्वितः । व्यासं पप्रच्छ धर्मात्मा परीक्षितसुतः पुनः
जनमेजय उवाच - स्वामिन् सूर्यान्वयानां च राज्ञां वंशस्य विस्तरम् । तथा सोमान्वयानां च श्रोतुकामोऽस्मि सर्वथा
कथयानघ सर्वज्ञ कथां पापप्रणाशिनीम् । चरितं भूपतीनां च विस्तराद्वंशयोर्द्वयोः
ते हि सर्वे पराशक्तिभक्ता इति मया श्रुतम् । देवीभक्तस्य चरितं शृण्वन्कोऽस्ति विरक्तिभाक्
इति राजर्षिणा पृष्टो व्यासः सत्यवतीसुतः । तमुवाच मुनिश्रेष्ठः प्रसन्नवदनो मुनिः
व्यास उवाच - निशामय महाराज विस्तराद्गदतो मम । सोमसूर्यान्वयानां च तथान्येषां समुद्भवम्
विष्णोर्नाभिसरोजाद्वै ब्रह्माभूच्चतुराननः । तपस्तप्त्वा समाराध्य महादेवीं सुदुर्गमाम्
तया दत्तवरो धाता जगत्कर्तुं समुद्यतः । नाशकन्मानुषीं सृष्टिं कर्तुं लोकपितामहः
विचिन्त्य बहुधा चित्ते सृष्ट्यर्थं चतुराननः । न विस्तारं जगामाशु रचितापि महात्मना
(ससर्ज मानसान्पुत्रान्सप्तसंख्यान्प्रजापतिः) मरीचिरङ्गिरात्रिश्च वसिष्ठः पुलहः क्रतुः । पुलस्त्यश्चेति विख्याताः सप्तैते मानसाः सुताः
रुद्रो रोषात्समुत्पन्नोऽप्युत्सङ्गान्नारदोऽभवत् । दक्षोऽङ्गुष्ठात्तथान्येऽपि मानसाः सनकादयः
वामाङ्गुष्ठाद्दक्षपत्नी जाता सर्वाङ्गसुन्दरी । वीरिणी नाम विख्याता पुराणेषु महीपते
असिक्नीति च नाम्ना सा यस्यां जातोऽथ नारदः । देवर्षिप्रवरः कामं ब्रह्मणो मानसः सुतः
जनमेजय उवाच - अत्र मे संशयो ब्रह्मन् यदुक्तं भवता वचः । वीरिण्यां नारदो जातो दक्षादिति महातपाः
कथं दक्षस्य पत्न्यां तु वीरिण्यां नारदो मुनिः । जातो हि ब्रह्मणः पुत्रो धर्मज्ञस्तापसोत्तमः
विचित्रमिदमाख्यातं भवता नारदस्य च । दक्षाज्जन्मास्य भार्यायां तद्वदस्व सविस्तरम्
पूर्वदेहः कथं मुक्तः शापात्कस्य महामना । नारदेन बहुज्ञेन कस्माज्जन्म कृतं मुने
व्यास उवाच - ब्रह्मणासौ समादिष्टो दक्षः सृष्ट्यर्थमादितः । प्रजाः सृजेति सुभृशं वृद्धिहेतोः स्वयम्भुवा
ततः पञ्चसहस्रांश्च जनयामास वीर्यवान् । दक्षः प्रजापतिः पुत्रान् वीरिण्यां बलवत्तरान्
दृष्ट्वा तान्नारदः पुत्रान्सर्वान्वर्धयिषून्प्रजाः । उवाच प्रहसन्वाचं देवर्षिः कालनोदितः
भुवः प्रमाणमज्ञात्वा स्रष्टुकामाः प्रजाः कथम् । लोकानां हास्यतां यूयं गमिष्यथ न संशयः
पृथिव्या वै प्रमाणं तु ज्ञात्वा कार्यः समुद्यमः । कृत्तोऽसौ सिद्धिमायाति नान्यथेति विनिश्चयः
बालिशा बत यूयं वै यदज्ञात्वा भुवस्तलम् । समुद्यताः प्रजाः कर्तुं कथं सिद्धिर्भविष्यति
व्यास उवाच - नारदेनैवमुक्तास्ते हर्यश्वा दैवयोगतः । अन्योन्यमूचुः सहसा सम्यगाह मुनिः किल