सूर्यवंशोद्भवास्तद्वत्सोमवंशभवा अपि । मन्वादयश्च ये प्रोक्ताश्चतुर्दश युगे युगे
अन्येषां चैव का वार्ता संसारेऽस्मिन्नृपोत्तम । मायाधीनं जगत्सर्वं सदेवासुरमानुषम्
तस्माद्राजन्न कर्तव्यः सन्देहोऽत्र कदाचन । देही मायापराधीनश्चेष्टते तद्वशानुगः
सा च माया परे तत्त्वे संविद्रूपेऽपि सर्वदा । तदधीना प्रेरिता च तेन जीवेषु सर्वदा
ततो मायाविशिष्टां तां संविदं परमेश्वरीम् । मायेश्वरीं भगवतीं सच्चिदानन्दरूपिणीम्
ध्यायेत्तथाराधयेच्च प्रणमेच्च जपेदपि । तेन सा सदया भूत्वा मोचयत्येव देहिनम्
स्वमायां संहरत्येव स्वानुभूतिप्रदानतः । भुवनं खलु माया स्यादीश्वरी तस्य नायिका
भुवनेशी ततः प्रोक्ता देवी त्रैलोक्यसुन्दरी । तद्रूपे यदि सक्तं स्याच्चित्तं भूमिपते सदा
मायया किं भवेत्तत्र सदसद्भूतया नृप । तस्मान्मायानिरासार्थं नान्यद्वै देवतान्तरम्
समर्थं तु विना देवीं सच्चिदानन्दरूपिणीम् । तमोराशिं नाशयितुं शक्तं नैव तमो भवेत्
किन्तु भानुप्रभाचन्द्रविद्युद्वह्निप्रभादयः । तस्मान्मायेश्वरीमम्बां स्वप्रकाशां तु संविदम्
आराधयेदतिप्रीत्या मायागुणनिवृत्तये । इति सम्यङ्मयाख्यातं वृत्रासुरवधादिकम्
यत्पृष्टं राजशार्दूल किमन्यच्छ्रोतुमिच्छसि । पूर्वार्धोऽयं पुराणस्य कथितस्तव सुव्रत
यत्र देव्यास्तु महिमा विस्तरेणोपपादितः । एतद्रहस्यं श्रीमातुर्न देयं यस्य कस्यचित्
देयं भक्ताय शान्ताय देवीभक्तिरताय च । शिष्याय ज्येष्ठपुत्राय गुरुभक्तियुताय च
इदमखिलकथानां सारभूतं पुराणं निखिलनिगमतुल्यं सप्रमाणानुविद्धम् । पठति परमभावाद्यः शृणोतीह भक्त्या स भवति धनवान्वै ज्ञानवान्मानवोऽत्र
दक्षप्रजापतिवर्णनम् सूत उवाच - श्रुत्वैतां तापसाद्दिव्यां कथां राजा मुदान्वितः । व्यासं पप्रच्छ धर्मात्मा परीक्षितसुतः पुनः
जनमेजय उवाच - स्वामिन् सूर्यान्वयानां च राज्ञां वंशस्य विस्तरम् । तथा सोमान्वयानां च श्रोतुकामोऽस्मि सर्वथा
कथयानघ सर्वज्ञ कथां पापप्रणाशिनीम् । चरितं भूपतीनां च विस्तराद्वंशयोर्द्वयोः
ते हि सर्वे पराशक्तिभक्ता इति मया श्रुतम् । देवीभक्तस्य चरितं शृण्वन्कोऽस्ति विरक्तिभाक्
इति राजर्षिणा पृष्टो व्यासः सत्यवतीसुतः । तमुवाच मुनिश्रेष्ठः प्रसन्नवदनो मुनिः
व्यास उवाच - निशामय महाराज विस्तराद्गदतो मम । सोमसूर्यान्वयानां च तथान्येषां समुद्भवम्
विष्णोर्नाभिसरोजाद्वै ब्रह्माभूच्चतुराननः । तपस्तप्त्वा समाराध्य महादेवीं सुदुर्गमाम्
तया दत्तवरो धाता जगत्कर्तुं समुद्यतः । नाशकन्मानुषीं सृष्टिं कर्तुं लोकपितामहः
विचिन्त्य बहुधा चित्ते सृष्ट्यर्थं चतुराननः । न विस्तारं जगामाशु रचितापि महात्मना
(ससर्ज मानसान्पुत्रान्सप्तसंख्यान्प्रजापतिः) मरीचिरङ्गिरात्रिश्च वसिष्ठः पुलहः क्रतुः । पुलस्त्यश्चेति विख्याताः सप्तैते मानसाः सुताः
रुद्रो रोषात्समुत्पन्नोऽप्युत्सङ्गान्नारदोऽभवत् । दक्षोऽङ्गुष्ठात्तथान्येऽपि मानसाः सनकादयः
वामाङ्गुष्ठाद्दक्षपत्नी जाता सर्वाङ्गसुन्दरी । वीरिणी नाम विख्याता पुराणेषु महीपते
असिक्नीति च नाम्ना सा यस्यां जातोऽथ नारदः । देवर्षिप्रवरः कामं ब्रह्मणो मानसः सुतः
जनमेजय उवाच - अत्र मे संशयो ब्रह्मन् यदुक्तं भवता वचः । वीरिण्यां नारदो जातो दक्षादिति महातपाः