तथा गुणैस्त्रिभिर्हीनो न देहीति विनिश्चयः । देवदेहो मनुष्यो वा तिरश्चो वा नराधिप
गुणैर्विरहितो न स्यान्मृद्विहीनो घटो यथा । ब्रह्मा विष्णुस्तथा रुद्रस्त्रयश्चामी गुणाश्रयाः
कदाचित्प्रीतियुक्तास्ते तथाप्रीतियुताः पुनः । तथा विषादयुक्तास्ते भवन्ति गुणयोगतः
ब्रह्मा कदाचित्सत्त्वस्थस्तदा शान्तः समाधिमान् । प्रीतियुक्तो भवेत्सर्वभूतेषु ज्ञानसंयुतः
पुनः सत्त्वविहीनस्तु रजोगुणसमावृतः । तदा भवेद् घोररूपः सर्वत्राप्रीतिसंयुतः
यदा तमोगुणाविष्टो बाहुल्येन भवेद्विधिः । तदा विषादसम्पन्नो मूढो भवति नान्यथा
माधवोऽपि सदा सत्त्वसंश्रितः सर्वथा भवेत् । यदा शान्तः प्रीतियुक्तो भवेज्ज्ञानसमन्वितः
स एव रजआधिक्यादप्रीतिसंयुतो भवेत् । घोरश्च सर्वभूतेषु गुणाधीनो रमापतिः
रुद्रोऽपि सत्त्वसंयुक्तः प्रीतिमाञ्छान्तिमान्भवेत् । रजोनिमीलितः सोऽपि घोरः प्रीतिविवर्जितः
तमोगुणयुतः सोऽपि मूढो विषादयुग्भवेत् । एते यदि गुणाधीना ब्रह्मविष्णुहरादयः
सूर्यवंशोद्भवास्तद्वत्सोमवंशभवा अपि । मन्वादयश्च ये प्रोक्ताश्चतुर्दश युगे युगे
अन्येषां चैव का वार्ता संसारेऽस्मिन्नृपोत्तम । मायाधीनं जगत्सर्वं सदेवासुरमानुषम्
तस्माद्राजन्न कर्तव्यः सन्देहोऽत्र कदाचन । देही मायापराधीनश्चेष्टते तद्वशानुगः
सा च माया परे तत्त्वे संविद्रूपेऽपि सर्वदा । तदधीना प्रेरिता च तेन जीवेषु सर्वदा
ततो मायाविशिष्टां तां संविदं परमेश्वरीम् । मायेश्वरीं भगवतीं सच्चिदानन्दरूपिणीम्
ध्यायेत्तथाराधयेच्च प्रणमेच्च जपेदपि । तेन सा सदया भूत्वा मोचयत्येव देहिनम्
स्वमायां संहरत्येव स्वानुभूतिप्रदानतः । भुवनं खलु माया स्यादीश्वरी तस्य नायिका
भुवनेशी ततः प्रोक्ता देवी त्रैलोक्यसुन्दरी । तद्रूपे यदि सक्तं स्याच्चित्तं भूमिपते सदा
मायया किं भवेत्तत्र सदसद्भूतया नृप । तस्मान्मायानिरासार्थं नान्यद्वै देवतान्तरम्
समर्थं तु विना देवीं सच्चिदानन्दरूपिणीम् । तमोराशिं नाशयितुं शक्तं नैव तमो भवेत्
किन्तु भानुप्रभाचन्द्रविद्युद्वह्निप्रभादयः । तस्मान्मायेश्वरीमम्बां स्वप्रकाशां तु संविदम्
आराधयेदतिप्रीत्या मायागुणनिवृत्तये । इति सम्यङ्मयाख्यातं वृत्रासुरवधादिकम्
यत्पृष्टं राजशार्दूल किमन्यच्छ्रोतुमिच्छसि । पूर्वार्धोऽयं पुराणस्य कथितस्तव सुव्रत
यत्र देव्यास्तु महिमा विस्तरेणोपपादितः । एतद्रहस्यं श्रीमातुर्न देयं यस्य कस्यचित्
देयं भक्ताय शान्ताय देवीभक्तिरताय च । शिष्याय ज्येष्ठपुत्राय गुरुभक्तियुताय च
इदमखिलकथानां सारभूतं पुराणं निखिलनिगमतुल्यं सप्रमाणानुविद्धम् । पठति परमभावाद्यः शृणोतीह भक्त्या स भवति धनवान्वै ज्ञानवान्मानवोऽत्र
दक्षप्रजापतिवर्णनम् सूत उवाच - श्रुत्वैतां तापसाद्दिव्यां कथां राजा मुदान्वितः । व्यासं पप्रच्छ धर्मात्मा परीक्षितसुतः पुनः
जनमेजय उवाच - स्वामिन् सूर्यान्वयानां च राज्ञां वंशस्य विस्तरम् । तथा सोमान्वयानां च श्रोतुकामोऽस्मि सर्वथा
कथयानघ सर्वज्ञ कथां पापप्रणाशिनीम् । चरितं भूपतीनां च विस्तराद्वंशयोर्द्वयोः
ते हि सर्वे पराशक्तिभक्ता इति मया श्रुतम् । देवीभक्तस्य चरितं शृण्वन्कोऽस्ति विरक्तिभाक्