तुराषाडपि तच्छ्रुत्वा क्रोधयुक्तो बभूव ह । सेनोद्योगं तथा चक्रे साहाय्यार्थं गुरोर्विभुः
शुक्रस्तु विग्रहं श्रुत्वा गुरुद्वेषात्ततो ययौ । मा ददस्वेति तं वाक्यमुवाच शशिनं प्रति
साहाय्यं ते करिष्यामि मन्त्रशक्त्या महामते । भविता यदि संग्रामस्तव चेन्द्रेण मारिष
शङ्करस्तु तदाकर्ण्य गुरुदाराभिमर्शनम् । गुरुशत्रुं भृगुं मत्वा साहाय्यमकरोत्तदा
संग्रामस्तु तदा वृत्तो देवदानवयोर्द्रुतम् । बहूनि तत्र वर्षाणि तारकासुरवत्किल
देवासुरकृतं युद्धं दृष्ट्वा तत्र पितामहः । हंसारूढो जगामाशु तं देशं क्लेशशान्तये
राकापतिं तदा प्राह मुञ्च भार्यां गुरोरिति । नोचेद्विष्णुं समाहूय करिष्यामि तु संक्षयम्
भृगुं निवारयामास ब्रह्मा लोकपितामहः । किमन्यायमतिर्जाता सङ्गदोषान्महामते
निषेधयामास ततो भृगुस्तं चौषधीपतिम् । मुञ्च भार्यां गुरोरद्य पित्राहं प्रेषितस्तव
सूत उवाच द्विजराजस्तु तच्छ्रुत्वा भृगोर्वचनमद्भुतम् । ददौ च तत्प्रियां भार्यां गुरोर्गर्भवतीं शुभाम्
प्राप्य कान्तां गुरुर्हृष्टः स्वगृहं मुदितो ययौ । ततो देवास्ततो दैत्या ययुः स्वान्स्वान्गृहान्प्रति
ब्रह्मा स्वसदनं प्राप्तः कैलासं चापि शङ्करः । बृहस्पतिस्तु सन्तुष्टः प्राप्य भार्यां मनोरमाम्
ततः कालेन कियता तारासूत सुतं शुभम् । सुदिने शुभनक्षत्रे तारापतिसमं गुणैः
दृष्ट्वा पुत्रं गुरुर्जातं चकार विधिपूर्वकम् । जातकर्मादिकं सर्वं प्रहृष्टेनान्तरात्मना
श्रुतं चन्द्रमसा जन्म पुत्रस्य मुनिसत्तमाः । दूतं च प्रेषयामास गुरुं प्रति महामतिः
न चायं तव पुत्रोऽस्ति मम वीर्यसमुद्भवः । कथं त्वं कृतवान्कामं जातकर्मादिकं विधिम्
तच्छ्रुत्वा वचनं तस्य दूतस्य च बृहस्पतिः । उवाच मम पुत्रो मे सदृशो नात्र संशयः
पुनर्विवादः सञ्जातो मिलिता देवदानवाः । युद्धार्थमागतास्तेषां समाजः समजायत
तत्रागतः स्वयं ब्रह्मा शान्तिकामः प्रजापतिः । निवारयामास मुखे संस्थितान्युद्धदुर्मदान्
तारां पप्रच्छ धर्मात्मा कस्यायं तनयः शुभे । सत्यं वद वरारोहे यथा क्लेशः प्रशाम्यति
तमुवाचासितापाङ्गी लज्जमानाप्यधोमुखी । चन्द्रस्येति शनैरन्तर्जगाम वरवर्णिनी
जग्राह तं सुतं सोमः प्रहृष्टेनान्तरात्मना । नाम चक्रे बुध इति जगाम स्वगृहं पुनः
ययौ ब्रह्मा स्वकं धाम सर्वे देवाः सवासवाः । यथागतं गतं सर्वैः सर्वशः प्रेक्षकैर्जनैः
कथितेयं बुधोत्पत्तिर्गुरुक्षेत्रे च सोमतः । यथा श्रुता मया पूर्वं व्यासात्सत्यवतीसुतात्
सुद्युम्नस्तुतिः सूत उवाच ततः पुरूरवा जज्ञे इलायां कथयामि वः । बुधपुत्रोऽतिधर्मात्मा यज्ञकृद्दानतत्परः
सुद्युम्नो नाम भूपालः सत्यवादी जितेन्द्रियः । सैन्धवं हयमारुह्य चचार मृगयां वने
युतः कतिपयामात्यैर्दर्शितश्चारुकुण्डलः । धनुराजगवं बद्ध्वा बाणसङ्घं तथाद्भुतम्
स भ्रमंस्तद्वनोद्देशे हन्यमानो रुरून्मृगान् । शशांश्च सूकरांश्चैव खड्गांश्च गवयांस्तथा
शरभान्महिषांश्चैव साम्भरान्वनकुक्कुटान् । निघ्नन्मेध्यान् पशून् राजा कुमारवनमाविशत्
मेरोरधस्तले दिव्यं मन्दारद्रुमराजितम् । अशोकलतिकाकीर्णं बकुलैरधिवासितम्