अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । निश्चयं हृदये कृत्वा विचरस्व यथासुखम्
व्यास उवाच इत्युक्त्वा नारदो राजन् गतो मां प्रतिबोध्य च । अहं तच्चिन्तयन्वाक्यं यदुक्तं मुनिना तदा
स्थितः सरस्वतीतीरे कल्पे सारस्वते वरे । कालातिवाहनायैतत्कृतं भागवतं मया
पुराणमुत्तमं भूप सर्वसंशयनाशनम् । नानाख्यानसमायुक्तं वेदप्रामाण्यसंश्रितम्
सन्देहोऽत्र न कर्तव्यः सर्वथा नृपसत्तम । यथेन्द्रजालिकः कश्चित्पाञ्चालीं दारवीं करे
कृत्वा नर्तयते कामं स्वेच्छया वशवर्तिनीम् । तथा नर्तयते माया जगत्स्थावरजङ्गमम्
ब्रह्मादिस्तम्बपर्यन्तं सदेवासुरमानुषम् । पञ्चेन्द्रियसमायुक्तं मनश्चित्तानुवर्तनम्
गुणास्तु कारणं राजन् सर्वेषां सर्वथा त्रयः । कार्यं कारणसंयुक्तं भवतीति विनिश्चयः
भिन्नभिन्नस्वभावास्ते गुणा मायासमुद्भवाः । शान्तो घोरस्तथा मूढस्त्रयस्तु विविधा यतः
तत्समेतः पुमान्नित्यं तद्विहीनः कथं भवेत् । न भवत्येव संसारे रहितस्तन्तुभिः पटः
तथा गुणैस्त्रिभिर्हीनो न देहीति विनिश्चयः । देवदेहो मनुष्यो वा तिरश्चो वा नराधिप
गुणैर्विरहितो न स्यान्मृद्विहीनो घटो यथा । ब्रह्मा विष्णुस्तथा रुद्रस्त्रयश्चामी गुणाश्रयाः
कदाचित्प्रीतियुक्तास्ते तथाप्रीतियुताः पुनः । तथा विषादयुक्तास्ते भवन्ति गुणयोगतः
ब्रह्मा कदाचित्सत्त्वस्थस्तदा शान्तः समाधिमान् । प्रीतियुक्तो भवेत्सर्वभूतेषु ज्ञानसंयुतः
पुनः सत्त्वविहीनस्तु रजोगुणसमावृतः । तदा भवेद् घोररूपः सर्वत्राप्रीतिसंयुतः
यदा तमोगुणाविष्टो बाहुल्येन भवेद्विधिः । तदा विषादसम्पन्नो मूढो भवति नान्यथा
माधवोऽपि सदा सत्त्वसंश्रितः सर्वथा भवेत् । यदा शान्तः प्रीतियुक्तो भवेज्ज्ञानसमन्वितः
स एव रजआधिक्यादप्रीतिसंयुतो भवेत् । घोरश्च सर्वभूतेषु गुणाधीनो रमापतिः
रुद्रोऽपि सत्त्वसंयुक्तः प्रीतिमाञ्छान्तिमान्भवेत् । रजोनिमीलितः सोऽपि घोरः प्रीतिविवर्जितः
तमोगुणयुतः सोऽपि मूढो विषादयुग्भवेत् । एते यदि गुणाधीना ब्रह्मविष्णुहरादयः
सूर्यवंशोद्भवास्तद्वत्सोमवंशभवा अपि । मन्वादयश्च ये प्रोक्ताश्चतुर्दश युगे युगे
अन्येषां चैव का वार्ता संसारेऽस्मिन्नृपोत्तम । मायाधीनं जगत्सर्वं सदेवासुरमानुषम्
तस्माद्राजन्न कर्तव्यः सन्देहोऽत्र कदाचन । देही मायापराधीनश्चेष्टते तद्वशानुगः
सा च माया परे तत्त्वे संविद्रूपेऽपि सर्वदा । तदधीना प्रेरिता च तेन जीवेषु सर्वदा
ततो मायाविशिष्टां तां संविदं परमेश्वरीम् । मायेश्वरीं भगवतीं सच्चिदानन्दरूपिणीम्
ध्यायेत्तथाराधयेच्च प्रणमेच्च जपेदपि । तेन सा सदया भूत्वा मोचयत्येव देहिनम्
स्वमायां संहरत्येव स्वानुभूतिप्रदानतः । भुवनं खलु माया स्यादीश्वरी तस्य नायिका
भुवनेशी ततः प्रोक्ता देवी त्रैलोक्यसुन्दरी । तद्रूपे यदि सक्तं स्याच्चित्तं भूमिपते सदा
मायया किं भवेत्तत्र सदसद्भूतया नृप । तस्मान्मायानिरासार्थं नान्यद्वै देवतान्तरम्
समर्थं तु विना देवीं सच्चिदानन्दरूपिणीम् । तमोराशिं नाशयितुं शक्तं नैव तमो भवेत्