किमेतत्कारणं ब्रह्मन् यन्मोहमगमं तदा । विस्मृतं पूर्वविज्ञानं तन्मयस्तरसा कृतः
एतन्मायाबलं ब्रह्मन्न जानेऽहं दुरत्ययम् । ज्ञानहानिकरं जातं मूलं मोहस्य विस्फुटम्
अनुभूतं मया सम्यग्ज्ञातं सर्वं शुभाशुभम् । कथं त्वं जितवांस्तात तमुपायं वदस्व मे
नारद उवाच विज्ञप्तोऽसौ मया धाता प्रीतिपूर्वमतः परम् । मामुवाच स्मितं कृत्वा पिता मे वासवीसुत
ब्रह्मोवाच दुर्जयैषा सुरैः सर्वैर्मुनिभिश्च महात्मभिः । तापसैर्ज्ञानयुक्तैश्च योगिभिः पवनाशनैः
नाहं तां सर्वथा ज्ञातुं शक्तो मायां महाबलाम् । विष्णुर्ज्ञातुं न शक्तश्च तथा शम्भुरुमापतिः
दुर्ज्ञेया सा महामाया सृष्टिस्थित्यन्तकारिणी । कालकर्मस्वभावाद्यैर्निमित्तकारणैर्वृता
शोकं मा कुरु मेधाविंस्तत्र मायामहाबले । न चैव विस्मयः कार्यो वयं सर्वे विमोहिताः
नारद उवाच पित्रेत्युक्तस्तदा व्यास तमापृच्छ्य गतस्मयः । आगतोऽस्म्यत्र पश्यन्वै तीर्थानि च वराणि च
तस्मात्त्वमपि सन्त्यज्य मोहं कौरवनाशजम् । कालक्षयं सुखासीनः स्थानेऽस्मिन् कुरु सत्तम
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । निश्चयं हृदये कृत्वा विचरस्व यथासुखम्
व्यास उवाच इत्युक्त्वा नारदो राजन् गतो मां प्रतिबोध्य च । अहं तच्चिन्तयन्वाक्यं यदुक्तं मुनिना तदा
स्थितः सरस्वतीतीरे कल्पे सारस्वते वरे । कालातिवाहनायैतत्कृतं भागवतं मया
पुराणमुत्तमं भूप सर्वसंशयनाशनम् । नानाख्यानसमायुक्तं वेदप्रामाण्यसंश्रितम्
सन्देहोऽत्र न कर्तव्यः सर्वथा नृपसत्तम । यथेन्द्रजालिकः कश्चित्पाञ्चालीं दारवीं करे
कृत्वा नर्तयते कामं स्वेच्छया वशवर्तिनीम् । तथा नर्तयते माया जगत्स्थावरजङ्गमम्
ब्रह्मादिस्तम्बपर्यन्तं सदेवासुरमानुषम् । पञ्चेन्द्रियसमायुक्तं मनश्चित्तानुवर्तनम्
गुणास्तु कारणं राजन् सर्वेषां सर्वथा त्रयः । कार्यं कारणसंयुक्तं भवतीति विनिश्चयः
भिन्नभिन्नस्वभावास्ते गुणा मायासमुद्भवाः । शान्तो घोरस्तथा मूढस्त्रयस्तु विविधा यतः
तत्समेतः पुमान्नित्यं तद्विहीनः कथं भवेत् । न भवत्येव संसारे रहितस्तन्तुभिः पटः
तथा गुणैस्त्रिभिर्हीनो न देहीति विनिश्चयः । देवदेहो मनुष्यो वा तिरश्चो वा नराधिप
गुणैर्विरहितो न स्यान्मृद्विहीनो घटो यथा । ब्रह्मा विष्णुस्तथा रुद्रस्त्रयश्चामी गुणाश्रयाः
कदाचित्प्रीतियुक्तास्ते तथाप्रीतियुताः पुनः । तथा विषादयुक्तास्ते भवन्ति गुणयोगतः
ब्रह्मा कदाचित्सत्त्वस्थस्तदा शान्तः समाधिमान् । प्रीतियुक्तो भवेत्सर्वभूतेषु ज्ञानसंयुतः
पुनः सत्त्वविहीनस्तु रजोगुणसमावृतः । तदा भवेद् घोररूपः सर्वत्राप्रीतिसंयुतः
यदा तमोगुणाविष्टो बाहुल्येन भवेद्विधिः । तदा विषादसम्पन्नो मूढो भवति नान्यथा
माधवोऽपि सदा सत्त्वसंश्रितः सर्वथा भवेत् । यदा शान्तः प्रीतियुक्तो भवेज्ज्ञानसमन्वितः
स एव रजआधिक्यादप्रीतिसंयुतो भवेत् । घोरश्च सर्वभूतेषु गुणाधीनो रमापतिः
रुद्रोऽपि सत्त्वसंयुक्तः प्रीतिमाञ्छान्तिमान्भवेत् । रजोनिमीलितः सोऽपि घोरः प्रीतिविवर्जितः
तमोगुणयुतः सोऽपि मूढो विषादयुग्भवेत् । एते यदि गुणाधीना ब्रह्मविष्णुहरादयः