विष्णुरुवाच पश्य नारद मायावी विलासोऽयं महामते । देहेषु सर्वजन्तूनां दशाभेदा ह्यनेकशः
जाग्रत्स्वप्नसुषुप्तिश्च तुरीया देहिनां दशा । तथा देहान्तरे प्राप्ते सन्देहः कीदृशः पुनः
सुप्तो नरो न जानाति न शृणोति वदत्यपि । पुनः प्रबुद्धो जानाति सर्वं ज्ञातमशेषतः
निद्रया चाल्यते चित्तं भवन्ति स्वप्नसम्भवाः । नानाविधा मनोभेदा मनोभावा ह्यनेकशः
गजो मां हन्तुमायाति न शक्तोऽस्मि पलायने । किं करोमि न मे स्थानं यत्र गच्छामि सत्वरः
मृतं पितामहं स्वप्ने पश्यति स्वगृहागतम् । संयोगस्तेन वार्ता च भोजनं सह मन्यते
प्रबुद्धः खलु जानाति स्वप्ने दृष्टं सुखासुखम् । स्मृत्वा सर्वं जनेभ्यस्तु विस्तरात्प्रवदत्यपि
स्वप्नेकोऽपि न जानाति भ्रमोऽयमिति निश्चयः । तथा तथैव विभवो मायाया दुर्गमः किल
नाहं नारद जानामि पारं परमदुर्घटम् । गुणानां किल मायाया नैव शम्भुर्न पद्मजः
कोऽन्यो ज्ञातुं समर्थोऽभून्मानतो मन्दधीः पुनः । मायागुणपरिज्ञानं न कस्यापि भवेदिह
गुणत्रयकृतं सर्वं जगत्स्थावरजङ्गमम् । विना गुणैर्न संसारो वर्तते किञ्चिदप्यदः
अहं सत्त्वप्रधानोऽस्मि रजस्तमसमन्वितः । न कदाचित्त्रिभिर्हीनो भवामि भुवनेश्वरः
तथा ब्रह्मा पिता तेऽत्र रजोमुख्यः प्रकीर्तितः । तमःसत्त्वसमायुक्तो न ताभ्यामुज्झितः किल
शिवस्तथा तमोमुख्यो रजःसत्त्वसमावृतः । गुणत्रयविहीनस्तु नैव कोऽपि मया श्रुतः
तस्मान्मोहो न कर्तव्यः संसारेऽस्मिन्मुनीश्वर । मायाविनिर्मितेऽसारेऽपारे परमदुर्घटे
दृष्टा माया त्वयाद्यैव भुक्ता भोगा ह्यनेकशः । किं पृच्छसि महाभाग तस्याश्चरितमद्भुतम्
; भगवतीमाहात्म्यवर्णनम् व्यास उवाच निशामय महाराज ब्रवीमि विशदाक्षरम् । माहात्म्यं खलु मायाया नारदात्तु मया श्रुतम्
मया पुनर्मुनिः पृष्टो नारदः सर्ववित्तमः । श्रुत्वा कथां मुनेस्तस्य नारीदेहसमुद्भवाम्
ब्रूहि नारद पश्चात्किं कथितं हरिणा तदा । क्व गतश्च जगन्नाथो भवता सह माधवः
नारद उवाच इत्युक्त्वा भगवांस्तस्मिंस्तडागेऽतिमनोहरे । आरुह्य गरुडं गन्तुं वैकुण्ठे च मनो दधे
मामुवाच रमाकान्तो यथेष्टं गच्छ नारद । एहि वा मम लोकं त्वं यथारुचि तथा कुरु
ब्रह्मलोकं गतश्चाहमापृच्छ्य मधुसूदनम् । भगवानपि देवेशस्तत्क्षणाद्गरुडासनः
वैकुण्ठमगमत्तूर्णं मामादिश्य यथासुखम् । ततोऽहं पितृसदनं गतो याते जनार्दने
चिन्तयन्सकलं दुःखं सुखं च परमाद्भुतम् । गत्वा प्रणम्य पितरं स्थितो यावत्पुरः पितुः
तावत्पृष्टो मुने पित्रा वीक्ष्य चिन्तातुरं तु माम् । ब्रह्योवाच क्व गतोऽसि महाभाग कस्माच्चिन्तातुरः सुत
स्वस्थं नैवाद्य पश्यामि मनस्ते मुनिसत्तम । केनापि वञ्चितोऽसि त्वं दृष्टं वा किञ्चिदद्भुतम्
विषण्णं गतविज्ञानं पश्यामि त्वां कथं सुत । नारद उवाच इति पृष्टस्तदा पित्रा बृस्यां समुपवेश्य च
तमब्रवं स्ववृत्तान्तं मायाबलसमुद्भवम् । वञ्चितोऽहं पितः कामं विष्णुना प्रभविष्णुना
स्त्रीभावं गमितः कामं वर्षाणि सुबहून्यपि । अनुभूतं महद्दुःखं पुत्रशोकसमुद्भवम्
प्रबोधितोऽहं तेनैव मृदुवाक्यामृतेन च । पुनः सरोवरे स्नात्वा जातोऽहं नारदः पुमान्