नारद उवाच इत्युक्तो हरिणा राजा प्रणम्य कमलापतिम् । कृत्वा स्नानविधिं सम्यग्जगाम निजमन्दिरम्
दत्त्वा राज्यं स्वपौत्राय प्राप्य निर्वेदमद्भुतम् । वनं जगाम भूपालस्तत्त्वज्ञानमवाप च
गते राजन्यहं वीक्ष्य भगवन्तमधोक्षजम् । तमब्रवं जगन्नाथं हसन्तं मां पुनः पुनः
वञ्चितोऽहं त्वया देव ज्ञातं मायाबलं महत् । स्मरामि चरितं सर्वं स्त्रीदेहे यत्कृतं मया
ब्रूहि मे देवदेवेश प्रविष्टोऽहं सरोवरे । विगतं पूर्वविज्ञानं स्नानादेव कथं हरे
योषिद्देहं समासाद्य मोहितोऽहं जगद्गुरो । पतिं प्राप्य नृपश्रेष्ठं पुलोमी वासवं यथा
मनस्तदेव तच्चित्तं देहः स च पुरातनः । लिङ्गं तदेव देवेश स्मृतेर्नाशः कथं हरे
विस्मयोऽयं महान्मेऽत्र ज्ञाननाशं प्रति प्रभो । कथयाद्य रमाकान्त कारणं परमं च यत्
नारीदेहं मया प्राप्य भुक्ता भोगा ह्यनेकशः । सुरापानं कृतं नित्यं विधिहीनं च भोजनम्
मया तदेव न ज्ञातं नारदोऽहमिति स्फुटम् । जानाम्यद्य यथा सर्वं विविक्तं न तथा तदा
विष्णुरुवाच पश्य नारद मायावी विलासोऽयं महामते । देहेषु सर्वजन्तूनां दशाभेदा ह्यनेकशः
जाग्रत्स्वप्नसुषुप्तिश्च तुरीया देहिनां दशा । तथा देहान्तरे प्राप्ते सन्देहः कीदृशः पुनः
सुप्तो नरो न जानाति न शृणोति वदत्यपि । पुनः प्रबुद्धो जानाति सर्वं ज्ञातमशेषतः
निद्रया चाल्यते चित्तं भवन्ति स्वप्नसम्भवाः । नानाविधा मनोभेदा मनोभावा ह्यनेकशः
गजो मां हन्तुमायाति न शक्तोऽस्मि पलायने । किं करोमि न मे स्थानं यत्र गच्छामि सत्वरः
मृतं पितामहं स्वप्ने पश्यति स्वगृहागतम् । संयोगस्तेन वार्ता च भोजनं सह मन्यते
प्रबुद्धः खलु जानाति स्वप्ने दृष्टं सुखासुखम् । स्मृत्वा सर्वं जनेभ्यस्तु विस्तरात्प्रवदत्यपि
स्वप्नेकोऽपि न जानाति भ्रमोऽयमिति निश्चयः । तथा तथैव विभवो मायाया दुर्गमः किल
नाहं नारद जानामि पारं परमदुर्घटम् । गुणानां किल मायाया नैव शम्भुर्न पद्मजः
कोऽन्यो ज्ञातुं समर्थोऽभून्मानतो मन्दधीः पुनः । मायागुणपरिज्ञानं न कस्यापि भवेदिह
गुणत्रयकृतं सर्वं जगत्स्थावरजङ्गमम् । विना गुणैर्न संसारो वर्तते किञ्चिदप्यदः
अहं सत्त्वप्रधानोऽस्मि रजस्तमसमन्वितः । न कदाचित्त्रिभिर्हीनो भवामि भुवनेश्वरः
तथा ब्रह्मा पिता तेऽत्र रजोमुख्यः प्रकीर्तितः । तमःसत्त्वसमायुक्तो न ताभ्यामुज्झितः किल
शिवस्तथा तमोमुख्यो रजःसत्त्वसमावृतः । गुणत्रयविहीनस्तु नैव कोऽपि मया श्रुतः
तस्मान्मोहो न कर्तव्यः संसारेऽस्मिन्मुनीश्वर । मायाविनिर्मितेऽसारेऽपारे परमदुर्घटे
दृष्टा माया त्वयाद्यैव भुक्ता भोगा ह्यनेकशः । किं पृच्छसि महाभाग तस्याश्चरितमद्भुतम्
; भगवतीमाहात्म्यवर्णनम् व्यास उवाच निशामय महाराज ब्रवीमि विशदाक्षरम् । माहात्म्यं खलु मायाया नारदात्तु मया श्रुतम्
मया पुनर्मुनिः पृष्टो नारदः सर्ववित्तमः । श्रुत्वा कथां मुनेस्तस्य नारीदेहसमुद्भवाम्
ब्रूहि नारद पश्चात्किं कथितं हरिणा तदा । क्व गतश्च जगन्नाथो भवता सह माधवः
नारद उवाच इत्युक्त्वा भगवांस्तस्मिंस्तडागेऽतिमनोहरे । आरुह्य गरुडं गन्तुं वैकुण्ठे च मनो दधे