न युक्तमधुना यन्मां विहाय त्रिदिवं गता । विलपन्तं पतिं दीनं पुत्रस्नेहेन यन्त्रिता
उभयं मे गतं कान्ते पुत्रास्त्वं प्राणवल्लभा । तथापि मरणं नास्ति दुःखितस्य भृशं प्रिये
किं करोमि क्व गच्छामि रामो नास्ति महीतले । रामाविरहजं दुःखं जानाति रघुनन्दनः
विधिना निष्ठुरेणात्र विपरीतं कृतं भुवि । दम्पत्योर्मरणं भिन्नं सर्वथा समचित्तयोः
उपकारस्तु नारीणां मुनिभिर्विहितः किल । यदुक्तं धर्मशास्त्रेषु ज्वलनं पतिना सह
एवं विलपमानं तं राजानं भगवान्हरिः । निवारयामास तदा वचनैर्युक्तियोजितैः
श्रीभगवानुवाच किं विषीदसि राजेन्द्र क्व गता ते प्रियाङ्गना । न श्रुतं किं त्वया शास्त्रं न कृतोऽसौ बुधाश्रयः
का सा कस्त्वं क्व संयोगो वियोगः कीदृशस्तव । प्रवाहरूपे संसारे नृणां नौतरतामिव
गृहे गच्छ नृपश्रेष्ठ वृथा ते रुदितेन किम् । संयोगश्च वियोगश्च दैवाधीनः सदा नृणाम्
अनया सह ते राजन् संयोगस्त्विह संवृतः । भुक्ता त्वया विशालाक्षी सुन्दरी तनुमध्यमा
न दृष्टौ पितरावस्यास्त्वया प्राप्ता सरोवरे । काकतालीप्रसङ्गेन यद्भूतं तत्तथा गतम्
मा शोकं कुरु राजेन्द्र कालो हि दुरतिक्रमः । कालयोगं समासाद्य भुङ्क्ष्व भोगान् गृहे यथा
यथागता गता सा तु तथैव वरवर्णिनी । यथा पूर्वं तथा तत्र गच्छ कार्यं कुरु प्रभो
रुदितेन तवाद्यैव नागमिष्यति कामिनी । वृथा शोचसि पृध्वीश योगयुक्तो भवाधुना
भोगः कालवशादेति तथैव प्रतियाति च । नात्र शोकस्तु कर्तव्यो निष्फले भववर्त्मनि
नैकत्र सुखसंयोगो दुःखयोगस्तु नैकतः । घटिकायन्त्रवत्कामं भ्रमणं सुखदुःखयोः
मनः कृत्वा स्थिरं भूप कुरु राज्यं यथासुखम् । अथवा न्यस्य दायादे वनं सेवय साम्प्रतम्
दुर्लभो मानुषो देहः प्राणिनां क्षणभङ्गुरः । तस्मिन्प्राप्ते तु कर्तव्यं सर्वथैवात्मसाधनम्
जिह्वोपस्थरसो राजन् पशुयोनिषु वर्तते । ज्ञानं मानुषदेहे वै नान्यासु च कुयोनिषु
तस्माद्गच्छ गृहं त्यक्त्वा शोकं कान्तासमुद्भवम् । मायेयं भगवत्यास्तु यया सम्मोहितं जगत्
नारद उवाच इत्युक्तो हरिणा राजा प्रणम्य कमलापतिम् । कृत्वा स्नानविधिं सम्यग्जगाम निजमन्दिरम्
दत्त्वा राज्यं स्वपौत्राय प्राप्य निर्वेदमद्भुतम् । वनं जगाम भूपालस्तत्त्वज्ञानमवाप च
गते राजन्यहं वीक्ष्य भगवन्तमधोक्षजम् । तमब्रवं जगन्नाथं हसन्तं मां पुनः पुनः
वञ्चितोऽहं त्वया देव ज्ञातं मायाबलं महत् । स्मरामि चरितं सर्वं स्त्रीदेहे यत्कृतं मया
ब्रूहि मे देवदेवेश प्रविष्टोऽहं सरोवरे । विगतं पूर्वविज्ञानं स्नानादेव कथं हरे
योषिद्देहं समासाद्य मोहितोऽहं जगद्गुरो । पतिं प्राप्य नृपश्रेष्ठं पुलोमी वासवं यथा
मनस्तदेव तच्चित्तं देहः स च पुरातनः । लिङ्गं तदेव देवेश स्मृतेर्नाशः कथं हरे
विस्मयोऽयं महान्मेऽत्र ज्ञाननाशं प्रति प्रभो । कथयाद्य रमाकान्त कारणं परमं च यत्
नारीदेहं मया प्राप्य भुक्ता भोगा ह्यनेकशः । सुरापानं कृतं नित्यं विधिहीनं च भोजनम्
मया तदेव न ज्ञातं नारदोऽहमिति स्फुटम् । जानाम्यद्य यथा सर्वं विविक्तं न तथा तदा